Tuesday, March 31, 2020

ममता


देवगुरोः बृहस्पतेः सोदरः उच्यथः। तस्य पत्नी ममता विद्याविनयपरिपूर्णा, रूपयौवनसम्पन्ना च आसीत्।

कदाचित् बृहस्पतेः कामदृष्टिः गर्भवत्याः तस्याः उपरि पतिता । भ्रातृपत्नी मातृसमा* इत्युक्तिं विस्मृत्य  भयं विना, लज्जया विना तस्याः अवस्थामपि अवगणय्य कामक्रीडार्थं आह्वयत्। ममता दिग्भ्रान्ता। तं बहुधा उपादिशत्, नाशृणोत्; कामेन बधिरः आसीत् । बद्धहस्ता न्यवेदयत्, नापश्यत् ; कामान्धः आसीत् । हरिण्याः उपरि सिंह इव तस्याः उपरि आक्रमणमकरोत्। परन्तु तस्याः गर्भः अन्तरायमजनयत्। कामात् क्रोधोऽभिजायते खलु। क्रोधाविष्टः गर्भस्थं शिशुम् ’जन्मान्धो भव’ इति अशपत्। ममता अक्रन्दत्। अनपराद्धस्य शिशोः कृते ईदृशी शिक्षा!

प्राप्तजनिः शिशुः सुन्दरः परन्तु दृष्टिहीनः आसीत्। ममतामयी ममता एव तस्य दृष्टिः समभवत्। संस्कारप्रदानेन तस्य अन्तर्दृष्टिम् उदघाटयत्। सः श्रुतिकालः आसीत्। अध्ययनार्थं श्रोत्रं अपेक्ष्यतेतराम्। अतः चक्षुर्हीनस्यापि बालस्य श्रुत्यनुसन्धानं निरातङ्कं प्रावर्तत। मातुः निरन्तरप्रोत्साहेन, कठिनतपसा च दृष्टिहीनः वेदद्रष्टा अभवत्। स एव दीर्घतमाः इति नाम्ना प्रथितयशाः जातः।

विकलचेतनशिशोः जनयित्री पालयित्री च ममता जगतः सर्वासां मातॄणां प्रेरणास्थानं वर्तते। 

 *(मित्रपत्नी गुरोर्पत्नी भ्रातृपत्नी तथैव च। पत्नीमाता स्वमाता च पञ्चैते मातरः स्मृताः॥)

Monday, March 30, 2020

सुकन्या


मनुवंशजः शर्यातनामा राजा भरतखण्डं परिपालयति स्म । तस्य कुमारी सुकन्या । सा सुरूपा संस्कारयुता विद्यासम्पन्ना च अवर्तत ।

रसविद्यानुसन्धाता च्यवननामा महर्षिः गतयौवनं प्रतिप्राप्तुं प्रयत्नरतः आसीत् । तदर्थं तपोनिरतं तं वल्मीकः आवृणोत्।

तस्मिन्नेव काले राजा शर्यातः सपरिवारं मृगयार्थं तत्र उपस्थाय समीपे कुटिरमरचयत् । सुकन्यापि पित्रा सह आगता आसीत् । पुष्पाहरणार्थं इतस्ततः अटन्ती सा वल्मीके रत्नद्वयं दीप्यमानं अपश्यत् । कौतुकेन तीक्ष्णया शलाकया च्यवनस्य चकासमाने चक्षुषी अघातयत् । वल्मीकात् रुधिरप्रवाहः निसृतः।

राज्ञः वसतौ आश्चर्यकरघटनाः घटिताः। सर्वे विनाकारणं परस्परं कलहम् आरभन्त । उच्चस्वरेण गर्जितुमारब्धवन्तः। प्रवर्तमानं कोलाहलं वीक्ष्य राजा विस्मितोऽभूत् । सुकन्यया च्यवनाय दत्तं पीडनं मन्त्रिणः व्यवृण्वन् । राजा सपदि तत्र धावित्वा च्यवनमपश्यत्। तस्य पादयोः पतित्वा क्षमाम् अयाचत। आपतितस्य कष्टस्य निवारणार्थं प्रार्थयत । 

च्यवनस्य दृष्टिः सुकन्योपरि पतिता । ’भवत्पुत्री मह्यं दीयते चेत् कष्टं परिहरामि’ इति सोऽब्रवीत्। अनन्यगतिकः राजा दिग्भ्रान्त्या पुत्र्याः वदनमैक्षत् । पश्चात्तापदग्धहृदया सुकन्या प्रस्तावम् अङ्गीचकार। दैवं वा स्वापराधो वा तां वृद्धस्य भार्यामकरोत् । श्रद्धया पतिसेवायामरमत ।

एकदा देववैद्यौ अश्विनीकुमारौ दम्पती अपश्यताम् । वृद्धः पतिः, तरुणी रूपवती च भार्या । अश्विनौ सुकन्यायाः निकटम् आगत्य ताभ्यां सह देवलोकगमनाय आह्वयन् । परन्तु यमलयोः रूपेण अनाकृष्टचित्ता पतिव्रता सुकन्या तौ भर्त्सयित्वा प्रैषयत् ।

एनां घटनां ज्ञात्वा तपोनिधिः च्यवनः हर्षेण सुकन्यामभ्यनन्दत् । ’यदि तयोः पुनरागनं भविष्यति तर्हि एवं ब्रूहि’ इति किञ्चित् रहस्यं तस्यै अकथयत् ।

परेद्यवि पुनः देवभिषजोः आगमनं जातम् । तदा सुकन्या तौ अभाषत – ’मम पतिः भवतोः श्रेयान्। नास्ति यज्ञेषु भवद्भ्यां हविर्भागः। देवताः भवन्तौ गणाद्बहिः अक्षिपन् । परं मत्पतिः भवद्भ्यां च्युतविभवं दापयितुं समर्थः। भवन्तौ अपि सोमरसं लप्स्येते’ इति ।

प्राप्ताशौ यमलौ च्यवनं प्रणम्य तयोः कष्टनिवारणार्थं प्रार्थितवन्तौ । च्यवनस्तु सुवर्णसन्धिं प्राप्य ’मम वार्धकं अपनीय यौवनं पुनः अनुस्थाप्यते चेत् भवतोः समस्यामहं निवारयिष्यामि’ इति प्रस्तावम् उपास्थापयत् । सोमरसपिपासू भिषग्वरौ तदङ्गीकृतवन्तौ ।

सरस्वतीनद्यां स्नात्वा च्यवनः नवयौवनमवाप्नोत् । सुकन्यायाः पतिनिष्ठा सफला जाता । सम्प्राप्तयौवनेन च्यवनेन सह सानन्दं जीवनयात्राम् अन्ववर्तयत् ।

कदाचित् च्यवनाश्रममागतः शर्यातः स्वपुत्रीं कस्यचिद्युवकेन सह रममाणां वीक्ष्य क्रुद्धः जातः। अनन्तरं वस्तुस्थितिं विज्ञाय हर्षितोऽभूत्।

महाराजः शर्यातः सुकन्यायाः निर्देशानुसारं सोमयागं कृत्वा सुरचिकित्सकाभ्यां सोमरसमर्पयत्। तेन रुष्टः सुधर्माधिपतिः च्यवनं वज्रेण प्रहर्तुमुद्यतः। परन्तु च्यवनस्य तपःशक्त्या तस्य करः स्तब्धः। ततः च्यवनस्य निर्देशानुसारं अश्विनाभ्यां सोमरसं दातुं स्वर्गाधिपः अङ्ग्यकरोत् । एवम् च्यवनस्य समयपूरणं सञ्जातम्।

Sunday, March 29, 2020

इतरा

हारीतवंशस्य माण्डुकीमुनेः कलत्रमासीत् इतरा । अनधीतविद्या सा मुग्धस्वभावयुक्ता अविद्यत । किन्तु गृहणीधर्मं संस्कारादिविचारान् सम्यगजानात् । गृहकृत्यं श्रद्धया करोति स्म । पतिपत्न्यौ परस्परम् अनुव्रतौ सुखजीवने निमग्नौ आस्ताम् ।

तयोः दाम्पत्यफलरूपेण प्राप्तजनिः पुत्रः महीदासः इति आहूतः । सः सदापि मौनं तिष्ठति स्म । उपनीतस्यापि तस्य मुखात् ’ॐ ॐ नमो भगवते वासुदेवाय’ इति द्वादशाक्षरिमन्त्रं विहाय न किमपि अक्षरं निर्गतम् । न किञ्चित् अध्ययनं तेन कृतम् । तस्मात् जुगुप्सितः माण्डुकी तस्य जनयित्र्याः इतरायाः विषयेऽपि अनादरं दर्शयामास । परन्तु इतरा स्वपुत्रे संस्कारबीजानि उप्त्वा तं सदाचारसम्पन्नमकरोत् ।

कालक्रमेण माण्डुकी पिङ्गलानाम्नीं अपरां कन्याम् उद्वहत् । तस्यां प्राप्तजन्मानः चत्वारः कुमाराः वेदविद्यासम्पन्नाः समभवन् । इतरामहीदासयोः विषये मुनेः अनादरः व्यवर्धत । अवमाननम् असहमानौ मातापुत्रौ गृहं परित्यक्तवन्तौ ।

अविरतं द्वादशाक्षरिमन्त्रपठनं कुर्वता महीदासेन विष्णोः साक्षात्कारः प्राप्तः । भगवदनुग्रहेण वचोविलासं सम्प्राप्य गुरुकुले अध्ययनं चकार । गुरोः मार्गदर्शनेन विदविद्यामधिगत्य ऋग्वेदभाष्यमलिखत् । यज्ञादिश्रौतकर्माणि निरूपयन्तं ब्राह्मणग्रन्थं रचयामास । तदाधारेण हरिमेध्यनृपद्वारा यज्ञम् अकारयत् । यागान्ते भूपतिः भूसुराय स्वपुत्रीमयच्छत् ।

महीदासेन रचितं ब्राह्मणं जनाः महीदासब्राह्मणम् इति आकारयन् । परमापत्सु भर्तारमपि विरुध्य अविचलचित्तेन संस्कारान् प्रदाय पुत्रं विवर्धितवत्याः  मातुः गौरवार्थं सः ग्रन्थः तस्याः नाम्नैव प्रसिद्धः भवतु इति महीदासः मनोरथं प्रकटायामास। अतः सः ग्रन्थः ऐतरेयब्राह्मणमिति विश्रुतः जातः । अग्रे इयमेव ज्ञानराशिः एतरेयब्राह्मणम्, एतरेयारण्यकम्, ऐतरेयोपनिषत् इति त्रिधा विभक्ता ।


पुत्रेण स्वाभिमानिन्यै, वात्सल्यमय्यै, त्यागगुणोपेतायै सार्थकं गौरवं प्रदत्तम् । इतरायाः नाम अजरामरमभवत् ।

Saturday, March 28, 2020

मदालसा


विश्वावसुमहाराजस्य तनया मदालसा सर्वविद्यासम्पन्ना कन्या आसीत् । संसारपाशैः अत्मानं बद्धुम् नेच्छन्ती स्वतन्त्रतया ज्ञानविज्ञानानुसन्धानं कर्तुम् अभिलषति स्म । ब्रह्मवादिन्या भवितव्यमिति तस्याः तीव्रतरेच्छा अवर्तत । पत्युः इच्छानुसारं पत्नी व्यवहरेदिति विचारः नैव साधुः , गृहस्थाश्रमप्रयोगशालायां गृहिण्यै सम्पूर्णं स्वातन्त्र्यं भवेदिति च तस्याः प्रतिपादनमासीत् ।

सुदैवात् महाराजस्य शत्रुजितः पुत्रः ऋतध्वजः तस्याः आशयम् अङ्गीकृत्य स्वस्य गृहस्थजीवनं मदालसायाः हस्ते समर्पयितुं सज्जोऽभवत् । मदालसा तस्य प्रस्तावं स्वीकृत्य भाविसन्ततिं तस्याः इच्छानुसारं वर्धयितुं अङ्गीकारम् अवाप्नोत् ।

कालक्रमेण तयोः मधुरदाम्पत्ये त्रयः पुत्राः जनिमलभन्त । ऋतध्वजः तेभ्यः विक्रान्तः, सुबाहुः, शत्रुमर्दनश्चेति क्षत्रियोचितनामानि प्राददात् । नामकरणावसरे स्मितं हसन्ती मदालसाब्रवीत् – ’नराः स्वनामसार्थक्यं भजन्ते एव इति नास्ति’ । तस्याः वचसः अर्थः कालान्तरे ऋतध्वजेन अवगतम् ।

ब्रह्मवेत्री मदालसा बालान् आन्दोलिकायां संस्थाप्य निद्रापनावसरे ब्रह्मतत्त्वमेव लालनगीतरूपेण अगायत् ।
नित्योऽसि बुद्धोऽसि निरञ्जनोऽसि
संसारमायापरिवर्जितोऽसि ।
संसारस्वप्नं त्यज मोहनिद्रां
न जन्ममृत्यू तत्सत्स्वरूपे ॥

ईदृशतत्त्वगानमेव आकर्णयन्तः बालाः ब्रह्मजिज्ञासवः समभवन् । आत्मजान् वैराग्यशालिनः दृष्ट्वा ऋतध्वजः चिन्ताकुलः सञ्जातः । सर्वैः सुतैः संन्यासिभिः भूयते चेत् वंशोद्धारः कथमिति व्याकुलमनाः अभवत् । चतुर्थसुतं इहलोकासक्तं कर्तुं मदालसां प्रार्थयत । तन्निवेदनं पुरस्कृत्य मदालसा चतुर्थसूनुं अलर्कनामानं वीरगाथाभिः अलालयत् । तं राजनीतिनिपुणं युद्धविद्याविशारदञ्च अकरोत् । इहजीवनं निरुह्य तत्पश्चात् सन्यासाश्रमप्रवेशाय तं प्राबोधयत् । सः नैकानि वर्षाणि प्रजापालनं कृत्वा दत्तात्रेयवरप्रसादात् आत्मोन्नतिमविन्दत ।

ध्येयनिष्ठता-स्वाभिमान-आत्मविश्वासानां मूर्तिरूपा मदालसा साधनापथे जिगमिषूणां नारीणां पथदर्शिका वर्तते ।


Friday, March 27, 2020

शची पौलोमी



इयं काचित् स्वाभिमानिनी ऋषिका । अनया प्रणीते शचीपरके सूक्ते (ऋग्वेदः – मण्डलम् -१०; सूक्तम् – १५९) तस्याः आत्मगौरवं, जीवनोत्साहः, आत्मविश्वासः इत्यादयः असाधारणगुणाः सुव्यक्ताः । ’अहम् केतुरहं मूर्धा अहमुग्रा विवाचनी’ – अहं गृहस्य ध्वजः, अहं मद्गेहस्य शिरः (मुख्या-बुद्धिमती), अन्यायस्य सम्मुखे उग्रा, अहं विवेचनशक्तियुता इति तया अभिमानेन निगदितम् । ’मम निर्धारं मम भर्तापि सम्मानयति’ इति कथयन्त्याः तस्याः आत्मगौरवस्य पारमेव नास्ति ।

पुत्रास्तु उत्तमा एव , परं दुहितारः नावराः इति स्पष्टतया सूक्तेऽस्मिन् तया भणितम् । ’मम पुत्रा शत्रुहणोथो मम दुहिता विराट्’ इति गदन्ती सा नारीणामात्मस्थैर्यं व्यवर्धयत् ।

’अहं शत्रुहन्त्री । तस्मात् पतिरपि मां सम्मानयति’ इति तया सगर्वम् ईरितम् । ’त्यागः, शान्तिः, सहनशीलता च नार्याः सहजगुणाः । परन्तु अन्यैः तेषां दुरुपयोगः न करणीयः’ इति तस्याः आशयः । ’महिलया सर्वदाऽपि नतवदनया भवितव्यमिति नास्ति; तया शिरः उन्नीय समाजे गौरवमवाप्तव्यमिति पौलोम्या प्रत्यपाद्यत ।

स्त्रीणां स्वाभिमानजागृतिं कृतवतीषु ऋषिकासु शचीपौलोमी अन्यतमा । वैदिकसम्प्रदाये उद्वाहात्पूर्वं वध्वा शचीपूजां कारयन्ति । तस्मिन्नवसरे इदं सूक्तं पठ्यते । वधूः पतिगृहे स्वाभिमानेन जीवनं यापयेदिति आशयः तत्रास्ति । पूजनसमये वधूः अस्मिन्विषये बोध्यते चेत् तस्याः आत्मस्थैर्यं वर्धेत ।


Thursday, March 26, 2020

शशीयसी


ऋग्वेदे वर्णितासु धीरनारीषु प्रमुखा वर्तते महाराज्ञी शशीयसी । समाजोद्धारकार्ये रतानां महिलानां प्रेरणास्थानमियम् । श्यावाश्वेन प्रणीते पञ्चममण्डलस्य ६१तमे सूक्ते अस्याः वर्णनं वर्तते ।

एतस्याः पतिः तरन्तमहाराजः दुर्व्यसनानां दासः भूत्वा राज्यं निर्लक्षितवान् । प्रजानां शिक्षणाभावात् अज्ञानं दारिद्र्यं च नरीनृत्यन्ति स्म । जनानां मारणं चौर्यं इत्यादीनि अपराधकार्याणि ताण्डवं कुर्वन्ति स्म । राज्यस्य कोशस्य व्ययः राज्ञः विलासार्थमेव भवति स्म ।

उदारगुणसम्पन्ना, मानवीयगुनोपेता राज्ञी शशीयसी जनान् जागरयितुं प्रायतत । मरुदः आहूय जनान् शिक्षयितुं प्रार्थयत । जनान् सङ्घटय्य जागृतिमानेतुं यत्नमकरोत् ।

श्यावाश्वनामा कश्चन युवा मरुद्भ्यः शिक्षणं प्राप्य महाराज्ञ्याः कार्यभारस्य कश्चनभागं स्वस्कन्धोपरि ऊढ्वा शिक्षणक्रान्तौ सहयोगमयच्छत् ।

तरन्तेन एतेषां कार्याणां विरोधः कृतः । परन्तु जागृताः शिक्षिताश्च जनाः आन्दोलनं कुर्युः इति भयेन तूष्णीमतिष्ठत् । शशीयसी राज्यभारं स्वहस्ते स्वीकृत्य सम्यक् नियन्त्रितवती । श्यावाश्वाय अपारां गोसम्पत्तिम् अयच्छत् ।

श्यावाश्वः दार्भ्यस्य कन्यां प्रीणाति स्म । परन्तु दार्भ्यः स्वकन्यां तस्मै दातुं नैच्छत् । शशीयसी दार्भ्यस्य मनःपरिवर्तनं कारयित्वा श्यावाश्वस्य विवाहं न्यवर्तयत् ।

राज्ञ्याः कार्येण सुप्रीतः यावाश्वः स्वप्रणीते सूक्ते तां बहुधा श्लाघयामास ।  

Wednesday, March 25, 2020

शाण्डिली


सती शाण्डिली अनसूयायाः समकालीना । सहनशीलतया पातिव्रत्येन च सर्वमान्या आसीत् । तस्याः पतिः कौशिकनामा महादुष्टः ब्राह्मणः आसीत् । स्वस्य दुश्चरितानां कारणेन कुष्ठरोगपीडितः आसीत् । शाण्डिली निष्ठया तस्य सेवां करोति स्म । तस्य स्वपत्न्यां प्रीतिः आदरं वा नासीत् । निरन्तरं तां निन्दन् हिनस्ति स्म । सहनामूर्तिः शाण्डिली कदापि प्रतिवदति स्म ।

कदाचित् कौशिकः मार्गे चलन्तीं काञ्चित् वेश्यास्त्रियं वीक्ष्य तस्याः गृहं प्रति आत्मानं नेतुं पत्नीमादिशत् । तस्य कामनापूरणं स्वकर्तव्यमिति भावयन्ती शाण्डिली चलनशक्तिहीनं तम् उन्नीय स्वस्कन्धे निधाय वेश्यासद्ममार्गे अचलत् ।

तस्मिन्नेव मार्गे चोरशङ्कया माण्डव्यनामा मुनिः राज्ञा शूले आरोपितः आसीत् । शाण्डिल्याः स्कन्धारूढस्य कौशिकस्य पादः शूलारोपितम् अनिर्गतप्राणं माण्डव्यमुनिं पीडयामास । वेदनया क्रोधाविष्टः माण्डव्यः सूर्योदयसमये कौशिकस्य मरणं भवतु इति अशपत् ।

महर्षेः शापवचनं आकर्ण्य व्यग्रा शाण्डिली स्वतपोबलेन ’अद्य सूर्योदयः मा भवतु’ इति दिनकरगतिमेव अवरुद्धवती । सूर्यम् अपश्यतां जनानां हाहाकारः गगनमस्पृशत् । साध्व्याः सान्त्वनं अपरसाध्व्या एव शक्यमिति विचिन्त्य सुरपालमुख्यैः अनसूयादेवी प्रार्थिता ।

कौशिकस्य पुनर्जीवनाश्वासनं अनसूयादेव्याः प्राप्य शाण्डिली सूर्यनिग्रहं शिथिलीकृतवती । उदिते दिनकृति कौशिकः धराशायी सञ्जातः । परं अनसूयाकृपया जीवनदानं प्राप्य उदतिष्ठत् ।

सनातननार्यः असामान्यशक्तिसम्पन्नाः आसन् । कालचक्रमेव स्थगयितुं तासां शक्तिरासीत् । अत एव भणितं ब्रह्मवैवर्तकपुराणे –’सुराः सर्वे च मुनयो भीतास्ताभ्यश्च सन्ततम्’ इति ।

महाबलभट्टः, गोवा
९८६००६०३७३

Tuesday, March 24, 2020

जाबाला



शूद्रकुले जन्म प्राप्य परगृहेषु दासी भूत्वा जीवनयापनं कृतवती ’जाबाला’ । दास्यजीवने सा नैकानां पुरुषाणाम् उपभोगवस्तु अभवत् । तन्मार्गे गर्भधारणं कृत्वा कञ्चन पुत्रमविन्दत । दासी सत्यपि सा विवेकमति, संस्कारवती च आसीत् । स्वपुत्राय उत्तमं संस्कारं प्राददात् । तस्याः पुत्रस्य नाम ’सत्यकामः’ इत्यासीत् । तेन सत्यसन्धेन, जीवनसत्यस्य गवेषकेण च भवितव्यमिति तस्याः आशा आसीत् । एकाकिनी भूत्वैव तस्य सम्यक् परिपालनम् अकरोत्।

पुत्रेण विद्यायुक्तेन भवितव्यमिति चिन्तयित्वा तं हरिद्रुममहर्षिपुत्रस्य गौतममुनेः गुरुकुलं प्रेषितवती । गुरुकुलप्रवेशार्थं गोत्रकथनम् अनिवार्यमासीत् । स्वस्य जनकः कः इत्येव अजानानः सत्यकामः गोत्रं कथं वा उच्चरेत् । तज्ञानार्थं सः आचार्येण प्रतिप्रेषितः ।

पुत्रे गोत्रविषये पृष्टवति जाबाला सन्दिग्धे पतिता । पुत्रस्य विद्यासम्पन्नतां कामयन्ती अपि ’किमपि अनृतम् उक्त्वा प्रेषयामि वा?’ इति न अचिन्तयत् । तावत्पर्यन्तं गृहीतं ऋजुमार्गं त्यक्तुं तस्या अन्तरात्मा नाङ्ग्यकरोत् । पुत्रेण सत्यसन्धेन भवितव्यमिति इच्छन्त्या असत्यमार्गगमनं श्रेयस्करं न इति दृढं निर्धारं कृतवती । ’वत्स! दास्यजीवनं यापयन्त्याः मम पुत्रस्य तव जनकः इति नाहं जाने । अहं ’जाबाला’ । त्वं सत्यकामजाबालः भवतु । तदेव तव गोत्रमिति कथयतु ’ इत्युक्त्वा पुत्रं पुनरपि गुरुकुलं प्रैषयत् ।

सत्यकामस्य मुखे सत्यस्य तेजः वीक्ष्य ’अयं शूद्रकुलोत्पन्नः अपि आचरात् ब्राह्मण एव’ इति विचिन्त्य आचार्येण तस्य स्वागतं कृतम् । सकलविद्यापारङ्गतेन भूत्वा सत्यकामजाबालेन गुरुकुलं स्थापितम् ।

अनानुकूलपरिस्थितौ अपि पुत्रं सुशीलं, सत्यशीलं, विद्याविनयसम्पन्नं कृत्वा पालितवती जाबाला सर्वेषां मातॄणां आदर्शरूपेण तिष्ठति । प्रायः सत्यकामः स्वनाम्ना मातृनाम मेलितवान् प्रथमः पुत्रः ।

Monday, March 23, 2020

जुहूः



वैदिकमन्त्रद्रष्ट्रीषु ऋषिकासु अन्यतमा जुहूः ब्रह्मणः पुत्री देवगुरोः बृहस्पतेः पत्नी च अविद्यत । एषा सर्वशास्त्रपारङ्गता ब्रह्मज्ञानपरायणा च आसीत् । ऋग्वेदस्य दशममण्डलस्य १०९तमसूक्तस्य ऋषिकेयम् ।

कदाचित् सोमेन एतस्याः अपहरणं कृत्वा समागमः कृतः । तज्ञात्वा वरुणादयः तां प्रत्यानीय बृहस्पतये प्राददन् । पतितापि सा भर्त्रा वा समाजेन वा न तिरस्कृता । नात्र तस्याः कोऽपि दोषः इति वदतां सप्तर्षिणां वाचमङ्गीकृत्य देवगुरुरपि पुनः तां पर्यगृह्णात् ।

नारीबलसंवर्धनस्य विचारं कृतवतीषु जुहूः आद्या । ’समानगुणविचाराभिरुचियुक्तयोः एव विवाहसम्बन्धः भवेत्, विवाहात् प्राक् वधूवरयोः परस्परं अङ्गीकारः आवश्यकः, विवाहानन्तरं पत्या पत्न्याः हिंसनं त्यागः वा नोचितः’ इत्यादिविचारान् सा प्रत्यपादयत् ।

यज्ञविज्ञाने अपारज्ञानं सम्प्राप्तवती एषा तद्विषये बृहस्पतिं बोधितवती । तदानीन्तनकालस्य स्त्रीणां विद्याभ्यासस्तरस्य, समाजे ताभिः प्राप्तम् औन्नत्यञ्च एषा घटना द्योतयति ।



Sunday, March 22, 2020

इन्द्रसेना



ऋग्वेदस्य दशममण्डलस्य दशमसूक्ते उल्लिखिता अपरा वीरयोधा इन्द्रसेना । नलायनी मुद्गलानी इति अपरनामन्यपि एतस्याः आसीत् । विख्यातस्य नलमहाराजस्य पुत्रीयम् । अश्वहृदयज्ञात् नलमहाराजात् सारथ्यविद्यामधिगतवती । अस्त्रशस्त्रकौशलमपि आत्मसात् कृतवती । एषा भर्म्यश्वभूपालस्य कुमारं मुद्गलं अवृणोत् । अपारगोसम्पदः स्वामिनः मुद्गलस्य धेनून् कदाचित् तस्कराः अपहृतवन्तः। तेषाम् गृहणार्थं मुद्गलः प्रस्थितः। तदा इन्द्रसेना एव तस्य सारथ्यं निरूढवती । किञ्चित्कालं यावत् उत्तमतया सारथ्यं ऊढ्वा पश्चात् सेनापतित्वं स्वीकृत्य शौर्येण अयुध्यत ।

महाबलभट्टः, गोवा
९८६००६०३७३

Saturday, March 21, 2020

विश्पला



वैदिककालस्य नारीषु ऋषिकाः ऋषिपत्न्यः च अधिकतया प्रसिद्धाः। परन्तु तत्रैका युद्धविशारदा महिलाप्यासीत् । सा एव विश्पला । ऋग्वेदस्य प्रथममण्डलस्य ११२, ११६,११७,११८ तमेषु दशममण्डलस्य ३९तमे च सूक्तेषु तस्याः उल्लेखः दृश्यते ।

इयं खेलनामकस्य राज्ञः पट्टमहिषी आसीत् । वेदशास्त्रेषु शस्त्रास्त्रविद्यासु च सा पारङ्गता अवर्तत । एकदा युद्धार्थं महाराजेन सह समराङ्गणं प्राविशत् । तस्यां शौर्येण युद्ध्यमानायां सत्यां शत्रुभिः तस्याः पादः कर्तितः। तदा सा देववैद्यौ अश्विनौ सम्प्रार्थयत । 

तस्याः प्रार्थनया सम्प्रीतौ अश्विनीकुमारौ तस्यै कृतकपादं समलगन् । (ऋग्वेदकाले एव कृतकपादस्थापनस्य विद्या आसीदिति अवधेयः अंशः। ऋग्वेदः १-११६-१५) सा भूयः पराक्रमेण युद्धं कृत्वा शत्रून् अजयत्।
सनातनभारतस्य प्रथमा वीराङ्गना विश्पला ।

महाबलभट्टः
९८६००६०३७३

Friday, March 20, 2020

मैत्रेयी

याज्ञवल्क्यं नुत्तवत्याः गार्ग्याः भागिनेया मैत्रेयी । विदेहराजस्य याज्ञवल्क्यस्य मित्रनामकस्य सचिवस्य पुत्री इयम् । कनिष्ठे वयस्येव गभीरम् अध्ययनं कृत्वा आध्यात्मविद्यायाम् आसक्ता मैत्रेयी याज्ञवल्क्यस्य पाण्डित्यं दृष्ट्वा अतीव विस्मिता आसीत् । निजज्ञानक्षुन्निवारणे याज्ञवल्क्यः एव क्षमः इत्यचिन्तयत् । आत्मना तस्य ज्ञानसम्पदः उत्तराधिकारिण्या भवितव्यमिति विचिन्त्य आत्मानं परिणेतुं याज्ञवल्क्यं न्यवेदयत् । परन्तु कात्यायन्या सह सुखसंसारे निमग्नः याज्ञवल्क्यः अपरभार्यां नैच्छत् । तथापि मैत्रेय्याः उद्देश्यं ज्ञानार्जनमात्रमिति विज्ञाय तां पत्नीत्वेन स्व्यकरोत् । ब्रह्मज्ञानिनः तस्य सान्निध्ये मैत्रेयी नैकानि अध्यात्मरहस्यानि आत्मसात् कृतवती ।
कालान्तरे गृहस्थजीवनात् विरक्तः याज्ञवल्क्यः सन्यासाश्रमस्वीकारार्थमुद्यतः । जनकस्य आस्थानपण्डितपदे विराजमानस्य तस्य समीपे गोधनकनकादिरूपा प्रभूता सम्पत्तिरासीत् । तां सम्पत्तिं विभज्य भार्याभ्यां दातुं सः अचिन्तयत् । कात्यायनी तदङ्गीकृतवती । परन्तु लौकिकभोगे अनासक्ता मैत्रेयी ’अनया सम्पत्त्या आत्मज्ञानप्राप्तिः शक्या वा? एतानि धनकनकादीनि अस्मभ्यं शाश्वतं सुखं प्रयच्छन्ति वा?’ इति याज्ञवल्क्यम् अपृच्छत् । याज्ञवल्क्यः ’नैव’ इत्यवादीत् । ’तर्हि इमे सर्वाः सम्पदः कात्यायन्यै प्रदाय मह्यं भवतः आध्यात्मसम्पत्तिं प्रदेहि’ इति मैत्रेयी याज्ञवल्क्यं प्रार्थयत ।
तस्याः प्रापञ्चिकसुखविरक्तिं ब्रह्मज्ञानासक्तिं च जानानः याज्ञवल्क्यः आनन्देन कात्यायन्यै स्वीयां लौकिकसम्पत्तिं प्रदाय मैत्रेय्या सह वानप्रस्थं प्रपेदे । तस्यै अखिलं ब्रह्मज्ञानं प्रदाय अन्वगृह्णत्।
बृहदारण्यकोपनिषदः द्वितीयाध्यायस्य चतुर्थमण्डले, चतुर्थाध्यायस्य पञ्चममण्डले च याज्ञवल्क्य-मैत्रेयीसंवादः वर्तते । 
महाबलभट्टः, गोवा
९८६००६०३७३

Thursday, March 19, 2020

गार्गी वाचक्नवी


गर्गगोत्रे समुत्पन्ना, वचक्नुमुनेः कन्या गार्गी वाचक्नवी इति नामद्वयेन प्रसिद्धा । अधीताखिलशास्त्रा कुण्डलिनीविद्यापारङ्गता एषा तत्कालीनायां ब्रह्मजिज्ञासुपण्डितमण्डल्यां गौरवस्थानापन्ना अवर्तत ।

विदेहस्य राजर्षिणा जनकेन बहुदक्षिणयागनिमित्तं ब्रह्मसंसत् आयोजिता । कुरुपाञ्चालादिदेशेभ्यः वेदज्ञाः ब्राह्मणाः तत्र समागताः। तेषु श्रेष्ठतमः ब्रह्मिष्ठः कः इति जनकस्य जिज्ञासा समुत्पन्ना । सः सहस्रं गाः आभूषणैरलङ्कृत्य ’वरीयसे ब्रह्मज्ञानिने इमाः गाः उपायनीक्रियन्ते’ इति उदघोषयत् । तच्छ्रुत्वा तत्र उपस्थितः याज्ञवल्क्यः ताः गाः स्वाश्रमं प्रति नेतुं स्वशिष्यं सामश्रवसं समादिशत् । तेन क्रुद्धाः अन्ये पण्डिताः याज्ञवल्क्योपरि प्रश्नशरवर्षणं चक्रुः । अश्वल-कहोल-उद्दालकेषु वादे पराजितेषु धैर्येण उदतिष्ठत् गार्गी वाचक्नवी । बृहदारण्यकोपनिषदः तृतीयाध्यायस्य षष्ठे ब्राह्मणे गार्ग्याः प्रश्नाः उल्लिखिताः वर्तन्ते । 

यदि पृथिवी जलेनावृता, तर्हि जलं केन आवृतं इति तस्याः प्रथमः प्रश्नः आसीत् । वायुना इति उत्तरं दत्तं याज्ञवल्क्येन । वायुः केन व्याप्तः इति पृष्टः गार्ग्या । महर्षिः उत्तरमदात् । एवं तयोः प्रश्नोत्तरसरणिः अनुवर्तत । अन्ते यदा वाचक्नव्या ’ब्रह्मलोकः केन व्याप्तः’ इति प्रश्नः कृतः तदा याज्ञवल्क्यः ’गार्गि! अतिप्रश्नं मा कार्षीः। त्वया जिज्ञासितं तत्त्वं प्रश्नातीतम् । तव मूर्धा एव अधः पतेत्’ इति अगर्जयत् । तदा गार्ग्या मौनमाश्रितम् । तत्तु न भयेन । अत्यन्तं गूढविचारोऽयं जनसङ्कुलसभायां न चर्चार्हः इति तस्याः ज्ञानमासीत् । अन्येषु विद्वत्सु याज्ञवल्क्यप्रभया पराभूतेषु गार्गी एकाकिनी स्वप्रश्नकुन्तैः याज्ञवल्क्यं पीडयामास।

’कीदृशं तत्तत्त्वं यत् द्युलोकस्य उपरि, भूमेः अधस्तात् तन्मध्येऽपि भूते वर्तमाने भविष्ये च शाश्वतं स्थित्वा व्यक्तं जगत् व्याप्नोति?’ इति गार्ग्या कृतः प्रश्नः अष्टममण्डले दृश्यते। याज्ञवल्क्यः ’अव्यक्तम् आकाशम्’ इत्युत्तरम् अददात् । ’आकाशं केन व्याप्तम्? इति अग्रिमप्रश्नः गार्ग्याः मुखादागतः। तदुत्तररूपेण याज्ञवल्क्यः अक्षरब्रह्मणः वर्णनम् अकरोत् । तेन सन्तुष्टा गार्गी 'याज्ञवल्क्यः ब्रह्मज्ञानी' इति अङ्ग्यकरोत् ।

गार्गी वादे पराभूता स्यात् । परन्तु याज्ञवल्क्यसदृशं ब्रह्मज्ञानिनं सम्मुखीकृत्य ब्रह्मतत्त्वविषये वादं कृत्वा धीरत्वं प्रादर्शयत् । प्राचीनकाले स्त्रीणां विद्यार्जनाधिकारः नासीत्, प्रश्नकरणावसरोऽपि ताभिः न प्राप्यते स्म इति दुर्वादं केचन प्रसारयन्ति । तादृशदुर्विचारनिरसनं गार्ग्याः निदर्शनं करोति इत्यत्र नास्ति संशीतिः।

महाबलभट्टः, गोवा
९८६००६०३७३

Wednesday, March 18, 2020

घोषा


आङ्गीरसगोत्रस्य दीर्घतममहर्षेः पौत्री, ऋषेः कक्षीवतः पुत्री घोषा वेदसूक्तरचयित्री वर्तते । बाल्यकाले एव कुष्ठरोगं प्राप्य ब्रह्मचारिणी भूत्वैव जीवनयात्रायामचलत् ।

परं अविचलमनसा सा स्वात्मानं वेदाध्ययने आयोजयत् । कठिनतपसा अश्विनीदेवतयोः मन्त्रसिद्धिं प्राप्य तौ स्तुतवती। दशममण्डलस्य ३९, ४० तमसूक्तयोः ऋषिका इयम् । तस्याः प्रथमसूक्ते अश्विनौ बहुधा ईडयामास । द्वितीये सूक्ते तस्यां सुप्ताः वैवाहिककामनाः व्यक्तीकृताः। निजव्याधिं अपनीय गृहस्थजीवनं निर्वर्तियितुं अवसरकल्पनार्थं यमलौ प्रार्थयत् । अश्विनौ तस्याः अस्वास्थ्यं दूरीकृत्य यौवनमपि पुनः स्थापितवन्तौ । पश्चात् सा योग्यं वरं वृणीत्वा सुखमयसांसारिकजीवनम् अयापयत् ।

कुष्ठरोगपीडितान् अस्माकं समाजः बहुधा अपमन्यते । अपालया घोषया च प्राप्तं सम्पोषणं सर्वैः लभ्येत । रुग्णैरपि आत्महीनतां परित्यज्य आशाभावेन अग्रे सर्तव्यमिति घोषायाः चरितम् अस्मान् बोधयति ।

महाबलभट्टः, गोवा
९८६००६०३७३

Tuesday, March 17, 2020

अपाला

वेदद्रष्ट्रीषु ऋषिकासु अग्रगण्या अपाला ।

एतस्याः जीवनं तु अत्यन्तं कष्टमयम् आसीत् ।

पूर्वसञ्चितकर्मणः फलरूपेण वा विवाहानन्तरं चर्मव्याधिपीडिता समभवत् ।

गृहीतपाणिः पतिः संसारसागरमध्ये करम् अमुञ्चत् ।

पितृगृहमेव आश्रित्य जीवनयापनं तया कृतम् ।
तस्याः जनकः तां प्रेम्णा अपालयत् ।
तस्य प्रेरणया आत्मस्थैर्येण कष्टं सम्मुखीकृतवती ।
प्रियं जन्मदं खल्वाटं जायमानं दृष्ट्वा विषण्णतया वेदमन्त्रैः इन्द्रस्तुतिं चकार ।
तया  रचिते ऋग्वेदस्य अष्टममण्डलस्य एकनवतितमे सूक्ते सप्त ऋचः सन्ति ।

इन्द्रः तस्याः मनीषां सफलां कृत्वा तस्यै अपि आरोग्यम् अददात् । ।

महाबलभट्टः, गोवा
९८६००६०३७३

Monday, March 16, 2020

विदुला


पाण्डवानां रायभारिरूपेण हस्तिनापुरं समागतः श्रीकृष्णः विदुरस्य गृहे कुन्तीम् अमिलत्। युद्धविषये स्वाभिप्रायं प्रकटयन्ती कुन्ती विदुलायाः वृत्तान्तम् अकथयत्।

आसीत् पुरा सौवीरराजपत्नी विदुला नाम्नी वीरमहिला । सा विद्यासम्पन्ना, विवेकशीला, क्षात्रगुणोपेता च आसीत् । चतुरमत्या: तस्या: नृपमण्डल्यां विशेषगौरवमासीत् ।

तस्या: सञ्जय: नामा पुत्र: आसीत् । एकदा स: सैन्धवै: पराजितो युद्धपराङ्मुखो भूत्वा प्रत्यागच्छत् । गृहे निर्लज्जतया प्रसुप्तं तं दृष्ट्वा विदुला नितराम् अकुप्यत् । सा दृढस्वरेण अवोचत् – ’हे सञ्जय! किं त्वं तव पराजयम् अङ्गीकृतवान् ? धिक् त्वाम् । त्वं मत्पुत्र: भवितुं नार्हसि । पौरुषहीनस्त्वं शत्रो: कृते आनन्दम् अयच्छ: । त्वज्जन्म क्षत्रियकुलेऽभवत् इति किं व्यस्मर:? आत्मानं नपुंसकं मत्वा निन्दसि किम्? प्राणरक्षणापेक्षया य: रणात् पराङ्मुखो भवति तं मित्राणि बान्धवाश्च उपहसन्ति । तस्य जीवनं व्यर्थमेव । उत्तिष्ठ! शत्रुमर्दनं कृत्वा आयाहि” इति ।

तच्छ्रुत्वा सञ्जय: अब्रवीत् – “मात:! मया विना किं भवती जीवितुं शक्नोति? यदि अहं म्रिये, राज्येन भवत्यै किं प्रयोजनम् ?' इति ।

तदा विदुला अवदत् – पुत्र! आजीविकायाश्चिन्ता शत्रवे भवतु । परेषां सेवायां जीवनयापनं अस्माकं कृते नैव शोभते । अत: मरणचिन्तां विहाय शत्रो: नाशं कुरु । तव नाम सार्थकं भवतु ।’

पुत्र: पुन: अभणत् – मात:! भवत्या: एकमात्रं पुत्रं कठिनवचनै: किमर्थं तिरस्करोति ? भवती मम मातेव न व्यवहरति । राज्यभोगो ममापेक्षया भवत्या: प्रियो वा?

तस्य वचनं निशम्य विदुला पुन: अभाषत – पुत्र! प्राज्ञा: प्रापञ्चिकलाभं त्यक्त्वा यशसे कार्यं कुर्वन्ति । यदि मम पुत्रप्रेम पराजयेन कलङ्कितं भवति तर्हि न तत् श्रेयस्करम् । प्राज्ञ इव त्वं यदि तव क्षात्रकार्ये साफल्यं प्राप्नोषि, तदा मम प्रियो भवसि । अन्यथा पुत्रहीनत्वमेव वरम् ।

मातु: प्रेरकवचांसि श्रुत्वा सञ्जयोऽजागरत् । मातरं नत्वा अवदत् – ’अम्ब! भवत्या: मार्गदर्शनेन अहम् निश्चयेन पितु: राज्यं पुन: प्राप्स्यामि । भवत्या: अमृततुल्यानि वचनानि श्रुत्वा मदीय: उत्साहोऽवर्धत । मम सिंहसदृशभटान् सङ्घटय्य विजयं प्राप्स्यामि ’ इति ।

कुन्ती कृष्णम् अगदत् –’हे वार्ष्णेय! भीरु: सञ्जय: अपि मातु: वचनेन प्रेरित: सन् युद्धं कृत्वा शत्रून् अजयत् । क्षत्रियोचितं मार्गं स्वीकर्तुं युधिष्ठिरं ब्रूहि’ इति ।

✍🏻 *महाबलभट्टः, गोवा*
📱 ९८६००६०३७३
www.sujnanam.blogspot.com

Sunday, March 15, 2020

६. विश्ववारा


वैदिककालस्य ऋषिकासु विश्ववारा अन्यतमा । अत्रिवंशजया अनया रचितं सूक्तम् (ऋग्वेदस्य पञ्चममण्डलस्य २८तमम्) अग्निपरकं वर्तते । पूर्वस्यां दिशि मुखं कृत्वा उपविष्टा विश्ववारा स्वस्याः वैवाहिकजीवनं सुखमयं भवत्विति हुताशनं प्रार्थयते । वैदिककाले स्त्रियः अपि यज्ञादिकं कुर्वन्ति स्म इति एतेन ज्ञायते । 

कठोपनिषदः नचिकेतसः मातुः उद्दालकपत्न्याः नाम अपि विश्ववारा इत्यासीत् । उभयोः एकत्वविषये न कुत्रापि उल्लेखः दृश्यते । एषा विश्ववारा अपि विद्यावती प्रज्ञावती च आसीत् । नचिकेतसि विनय-जिज्ञासा-त्यागादिगुणविकासे अस्याः पात्रं महत्त्वपूर्णम् ।

Saturday, March 14, 2020

लोपामुद्रा

वैदिककालस्य वेदद्रष्ट्रीषु नारीषु अत्यन्तं गौरवान्वितं स्थानं वहति लोपामुद्रा । हरिणस्य नेत्रे, मयूरस्य लास्यं, मल्लिकायाः हासः, सिंहस्य कटिः, कोकिलस्य कण्ठः... एवं विविधप्राणिनां विशिष्टाङ्गानि मेलयित्वा अगस्त्यमहर्षिः लोपामुद्रां असृजत् । तेन सा जगति अप्रतिमसुन्दरी बभूव ।

सा दाक्षायिणीविदर्भराजयोः आश्रये व्यवर्धत । सकलशास्त्राणि तया आत्मसात्कृतानि । प्रायप्रबुद्धां ताम् अगस्त्यमुनिः पत्नीरूपेण अयाचत । तथा कर्तुं विदर्भराजस्य इच्छा नासीत् । तदा लोपामुद्रा एव सकलाभरणानि विमुच्य अगस्त्येन सह गन्तुमुद्यता ।

गृहिणीधर्मं श्रद्धया पालयन्ती लोपामुद्रा अगस्त्यस्य वेदाभ्यासजडतया विषण्णा अभवत् । सन्तानहीनताकारणात् अगस्त्यस्य पितरः ऊर्ध्वपादाः भूत्वा दोलायमानाः आसन् । तेषां मुक्त्यर्थं संसारेऽनासक्तेन अगस्त्येन न किमपि कृतमासीत् । तं जागरियितुं सा रतिसूक्तं रचितवती । ऋग्वेदस्य प्रथममण्डलस्य १७९ तमे सूक्ते लोपामुद्रया रचितौ द्वौ मन्त्रौ, अगस्त्येन रचितं मन्त्रद्वयं, तयोः संवादं शृण्वता शिष्येण कृतौ द्वौ मन्त्रौ च सन्ति ।

महाभारते विद्यमानकथानुसारं यदा अगस्त्यः लोपामुद्रायाः सौन्दर्याकर्षणेन कामातुरतां प्रादर्शयत् तदा लोपामुद्रा पितृगृहे तया परित्यक्तकनकतुल्यां सम्पत्तिं सम्पाद्य आगम्यतामिति समयं दत्तवती । अगस्त्यस्य जडतानिवारणमेव तस्याः उद्देश्यमासीत् । अर्थसङ्ग्रहोऽपि गृहस्त्थधर्म एव इति तया मुनिः सम्यक् बोधितः। अगस्त्यः इल्वलसकाशं गत्वा धनं सम्पाद्य आयात् ।

लोपामुद्रा दृढस्युः नामकस्य पुत्रस्य माता बभूव ।

दक्षिणभारते लोपामुद्रायाः विषये काचित् लोककथा प्रचलिता विद्यते । तत्र यदा भयङ्करेण क्षामकालेन बोभूयत तदा जनानां कष्टपरिहारार्थं लोपामुद्रा अगस्त्यं प्रार्थयत । ताम् उदकरूपेण कमण्डलौ संस्थाप्य मुनिः तपश्चरणार्थं अपाविशत् । तस्मिन् ध्यानमग्ने गणेशः काकरूपेण समागत्य कमण्डलुं पातयामास । कमण्डलोः निसृता लोपामुद्रा जलप्रवाहरूपेण प्रवहन्ती जनानाम् आर्तिनाशनं चकार । सा एव ’कावेरी’ नदी इति प्रख्याता ।

ललितासहस्रनामस्तोत्रं लोपामुद्रा जगति प्रासारयत् । देवगुर्वादयोऽपि तस्याः पादचिह्नं नेत्राभ्यामभिवन्द्य सम्मानयन्ति स्म ।

✍🏻 *महाबलभट्टः, गोवा*
📱 ९८६००६०३७६

Thursday, March 12, 2020

अरुन्धती

देवहूतिकर्दमयोः अष्टमपुत्री अरुन्धती सप्तर्षिषु अग्रगण्यस्य वसिष्ठस्य धर्मपत्नी । विद्याविवेकसम्पन्ना इयं ऋषिमण्डले विशेषगौरवस्थानम् अभजत ।

पुराणान्तरानुसारं मेधातिथिमहर्षेः कन्या इयम् । सन्ध्याकुमारी वशिष्ठवरणार्थं मेधातिथेः यज्ञकुण्डे देहत्यागं विधाय अरुन्धतीरूपेण पुनर्जन्म प्राप्तवती । सावित्रीबहुलादेव्योः सविधे अध्ययनं कृत्वा सकलविद्यासम्पन्ना समभूत् ।

विश्वामित्रः अरुन्धतीवसिष्ठयोः शतं पुत्राणां वधमकरोत् । अनन्तपारं पुत्रशोकं सोढ्वा विश्वामित्राय क्षामादानम् अकरोत् । शक्तिनामकः अपरः पुत्रोऽपि कौशिकस्य कुतन्त्रेण मारितः। तदापि इयं सहनशीलतां नामुञ्चत् । तस्याः पुत्रः सुयज्ञः रामस्य सहपाठी आसीत्।

अग्निपत्नी स्वाहा सप्तर्षिणां पत्नीनां रूपधारणं कर्तुमयतत । षण्णां रूपं धृत्वा अरुन्धतीरूपधारणे असमर्था सञ्जाता । तस्य कारणम् अरुन्धत्याः विशिष्टं व्यक्तित्वं पाण्डित्यञ्च । पराजिता स्वाहादेवी बहुधा अरुन्धत्याः स्तुतिं चकार ।

रामायणे दाम्पत्यजीवनविषये सीतारामौ उदबोधयत्। इन्द्रादिदेवताभ्योऽपि गृहस्थधर्मोपदेशम् अयच्छत् ।

अरुन्धतीवशिष्ठयोः दाम्पत्यं आदर्शदाम्पत्यमिति परिगण्यते । विवाहे अरुन्धतीपूजनं अरुन्धतीनक्षत्रदर्शनं च शुभमातनोति इति आस्तिकानां विश्वासः।

✍🏻 *महाबलभट्टः, गोवा*
📱9860060373

Wednesday, March 11, 2020

कुमारी सन्ध्या

ब्रह्ममानसपुत्री सन्ध्या दूरदृष्टियुता विवेकमती च आसीत् । चन्द्रभागपर्वतस्य बृहल्लोहितसरसः निकटे तपश्चरणापेक्षया कस्यचित् सद्गुरोः प्रतीक्षायाम् अवर्तत ।

कदाचित् तत्र समागतः वसिष्ठमहर्षिः तस्यै ’ॐ नमो भगवते वासुदेवाय’ इति द्वादशाक्षरमन्त्रोपदेशम् अकरोत् । तपसः पद्धतिमपि तस्मादेव ज्ञात्वा सा महत् तपः समाचरत् ।

तस्याः तपसा सन्तुष्टे श्रीहरौ प्रत्यक्षे सति सा वरत्रयमयाचत । प्रथमं तावत् लोककल्याणार्थं याचनामकरोत् । ’भूमौ जातस्य जीविनः जन्मना एव कामविकारः न भूयात्’ इति तस्याः याच्ञा आसीत् । तदङ्गीकृत्य परमात्मा बाल्यं, कौमार्यं, यौवनं वार्धकमिति अवस्थाचतुष्टयं सृष्ट्वा तृतीयावस्थायामेव कामभावस्य प्रादुर्भावः भवत्विति अन्वगृह्णत् । अत्रैव सन्ध्याकुमार्याः दूरदृष्टिः विद्योतते। मनसः विकासात्पूर्वमेव कामभावस्य उत्पत्त्या अपराधप्रकरणानि आधिक्येन भवेयुरिति तस्याः चिन्तनमासीत् ।

द्वितीयवररूपेण अखण्डं सतीत्वं प्राप्नोत् । तृतीयवरेण ’पतिं विहाय अन्यः कोऽपि यदि तां कामभावनया पश्यति तर्हि सः नपुंसकः भवतु’ इत्यनुग्रहं प्राप्तवती । परस्त्रियं कामभावनया वीक्षमाणाः पुरुषत्वनाशशिक्षार्हाः इति तया तत्समये एव सूचितम् । नारीबलवर्धनस्य आद्या प्रतिपादिका इयं धीरकन्या इति वक्तुं शक्यते ।

महाविष्णोः आदेशानुसारं वसिष्ठमेव भर्तृरूपेण वरयितुं इष्ट्वा मेदाथिनः होमाग्निं प्राविशत् । तस्याः भौतिकदेहं द्विधा विभज्य दिनकरः प्रातःसन्ध्यां सायं सन्ध्यां च असृजत् ।

सन्ध्याकुमारी अरुन्धतीति नाम्ना पुनर्जन्म प्राप्य वसिष्ठं पतिरूपेणाविन्दत ।

✍🏻 महाबलभट्टः, गोवा
 📱9860060373

Tuesday, March 10, 2020

अनसूया


देवहूतिकर्दमयोः पुत्री अनसूया आसूयादिदुर्गुणरहिता साध्वीमणिरासीत् मातुः सकलकन्यासंस्कारान् सम्प्राप्य ब्रह्ममानसपुत्रं सप्तर्षिषु अन्यतमम् अत्रिमहर्षिम् अवृणोत्।

पत्युः धार्मिककार्येषु अध्यात्मसाधनायाञ्च सहकारिणी, अतिथिसत्कारादीनि गृहिणीकर्माणि विना लोपं पालयन्ती अनसूया लोकत्रयेऽपि गौरवापन्ना अवर्तत।

कदाचित् नारदवर्णितं तस्याः गरिमाणम् आकर्ण्य असूयासन्तप्तहृदयाः त्रिमूर्तिपत्न्यः अनसूयायाः सत्त्वपरीक्षणार्थं निश्चयं चक्रुः।

ताभिः प्रेरिताः ब्रह्मविष्णुमहेश्वराः संन्यासिवेषं धृत्वा आश्रमम् प्राविशन्। पत्युः अनुपस्थितौ अनसूया अतिथिसत्कारं न्यवर्तयत्। भोजनपरिवेषणं विवस्त्रया करणीयमिति सा तैः निवेदिता। धर्मसङकटपतिताऽपि अनसूया धृतिमविहाय मन्त्रजलप्रोक्षणेन तान् प्रत्यग्रप्रसूतानिव शिशून् अकरोत्।

मातृभावपूरितहृदया सा तान् स्तन्यम् अपाययत्। दुर्धरप्रसङ्गमपि स्ववैचक्षण्येन सम्मुखीकृत्य त्रिमूर्तिमाता समभवत्।

त्रिमूर्तिभार्याः भर्तॄन् अन्विष्यन्त्यः अनसूयाश्रमं समाययुः। आन्दोलिकायां क्रीडतः शिशून् विलोक्य नारदवर्णितं मुनिपत्न्याः महिमानम् अवगतवत्यः। तां शरणं गत्वा दीनतया पतिभिक्षामयाचन् स्वरूपं प्राप्तवन्तः ब्रह्माविष्णुमहेश्वराः क्रमेण चन्द्रं, दत्तं, दूर्वाससं पुत्ररूपेणानुग्रह्य निजलोकान् ययुः।

कौशिकनामा कुष्ठरोगपीडितः गृहस्थः माण्डव्यमुनिना 'सूर्योदयात् पूर्वं मरणं प्राप्नोतु' इति शप्तः आसीत्। तदाकर्ण्य तत्पत्नी शाण्डिली स्वशक्त्या सूर्यास्तमेव अवरुद्धवती। तेन जगद्व्यापारमेव स्थगितम्। तत्समये अनसूया तत्रोपस्थाय स्वबलेन कौशिकं शापमुक्तं कृत्वा दिनकराय स्वातन्त्र्यं अदापयत्।

अत्रिमुनेराश्रमः चित्रकूटे आसीत्। वनवासार्थं तत्र समागतौ सलक्ष्मणौ सीतारामौ अनसूयादेव्याः दर्शनं कृतवन्तौ। तदा अनसूया सीतायै गृहिणीधर्ममबोधयत्। सौन्दर्यवर्धकमूलिकाः अपि तस्यै प्रादादिति रामायणे उल्लेखः दृश्यते।

चित्रकूटे यदा दुर्भिक्षः अभवत् तदा अनसूया स्वप्रभावेण मन्दाकिनीप्रवाहं तत्र समानीय जनानां कष्टं पर्यहरत्।

विवेकः, सहनशीलता, वात्सल्यं, धृतिः इत्यादिभिः सद्गुणैः नारीणामादर्शरूपेण तिष्ठति अनसूयादेवी।

एतादृशीः नारीः परिगणय्य एव ब्रह्मवैवर्तकपुराणे उक्तमस्ति __

पृथिव्यां यानि तीर्थानि सतीपादेषु तान्यपि
तेजश्च सर्वदेवानां मुनीनां सतीषु ।।

महाबलभट्टः, गोवा
9860060373

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...