वैदिकमन्त्रद्रष्ट्रीषु ऋषिकासु अन्यतमा जुहूः ब्रह्मणः
पुत्री देवगुरोः बृहस्पतेः पत्नी च अविद्यत । एषा सर्वशास्त्रपारङ्गता
ब्रह्मज्ञानपरायणा च आसीत् । ऋग्वेदस्य दशममण्डलस्य १०९तमसूक्तस्य ऋषिकेयम् ।
कदाचित् सोमेन एतस्याः अपहरणं कृत्वा समागमः कृतः ।
तज्ञात्वा वरुणादयः तां प्रत्यानीय बृहस्पतये प्राददन् । पतितापि सा भर्त्रा वा
समाजेन वा न तिरस्कृता । नात्र तस्याः कोऽपि दोषः इति वदतां सप्तर्षिणां
वाचमङ्गीकृत्य देवगुरुरपि पुनः तां पर्यगृह्णात् ।
नारीबलसंवर्धनस्य विचारं कृतवतीषु जुहूः आद्या । ’समानगुणविचाराभिरुचियुक्तयोः
एव विवाहसम्बन्धः भवेत्, विवाहात् प्राक् वधूवरयोः परस्परं अङ्गीकारः आवश्यकः,
विवाहानन्तरं पत्या पत्न्याः हिंसनं त्यागः वा नोचितः’ इत्यादिविचारान् सा
प्रत्यपादयत् ।
यज्ञविज्ञाने अपारज्ञानं सम्प्राप्तवती एषा तद्विषये
बृहस्पतिं बोधितवती । तदानीन्तनकालस्य स्त्रीणां विद्याभ्यासस्तरस्य, समाजे ताभिः
प्राप्तम् औन्नत्यञ्च एषा घटना द्योतयति ।
No comments:
Post a Comment