Friday, August 23, 2019

इत्यर्थक्वथितम्

🌺 पुष्पम् - १८

मल्लिनाथस्य पत्नी साधारणमहिला नासीत्। प्रतीकारार्थं स्वस्याः वारस्य प्रतीक्षायामासीत् ।

पण्डितवरः काव्यानां व्याख्या लेखनावसरे बहुवारं ’इति भावः’, ’इत्यर्थः' इत्यादिपदपुञ्जानां प्रयोगं करोति स्म । रूढिबलात् पत्न्या सह व्यवहारसमयेऽपि तादृशपदानां प्रयोगः भवति स्म ।

एकवारं ’अद्य भोजने किं किम् अस्ति’ इति सः पत्नीम् अपृच्छत् । अयमेव उत्तमः सन्दर्भः इति ज्ञात्वा मल्लिनाथपत्नी स्वकौशलं प्रादर्शयत् –

इत्यर्थक्वथितं चैवेतिभावतेमनम् तथा ।
सज्जीकृतेऽद्य भुक्त्यर्थं तुष्यतां भवदाशयः॥

”इत्यर्थः नाम क्वथितम्, इतिभावः नाम तेमनं च कृतवती । भुक्त्वा सन्तुष्टः भवतु” इति व्यङ्ग्यबाणै: पतिं पीडितवती ।

पण्डितदम्पत्योः सरससंल्लापः मोदावहः ननु ।

✍🏻 *महाबलभट्टः, गोवा*
📱 9860060373

Sunday, August 18, 2019

ठा ठं ठ ठं ठं ठठठं ठ ठं ठः*

_संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_

*संस्कृतप्रपञ्चस्य रसप्रसङ्गाः*

🌹पुष्पम् - १७

*ठा ठं ठ ठं ठं ठठठं ठ ठं ठः*

भोजराजः कदाचित् अट्टे उपविश्य प्रकृतिसौन्दर्यमवलोकयति स्म । तदा तस्य दृष्टिः समीपे स्थितस्य कासारस्य उपरि पतिता । तत्र अनेकाः युवत्यः जलमाहर्तुं समागच्छन् । कस्याश्चित् युवत्याः हस्तात् च्युतः घटः सोपानानाम् उपरि पतन् ठा ठं ठ ठं ठं ठठठं ठ ठं ठः इति सङ्गीतमयं ध्वनिमकरोत् ।

परेऽहनि महाराजः ठा ठं ठ ठं ठं ठठठं ठ ठं ठः इति पङ्क्तियुक्तं पद्यं रचयितुं आस्थानविद्वद्भ्यः आह्वानमयच्छत् ।
सन्दर्भमजानन्तः कवयः तत्कार्ये सफलाः नाभवन् । कालिदासः दिनद्वयस्य अवधिं प्रार्थयत ।

तस्मिन् अवधौ सः राज्ञः दिनचर्यां सूक्ष्मतया अवालोकयत् । सायङ्काले विश्रान्तिसमये अवनिपः सरोवरं पश्यतीति तेन लक्षितम् । तत्र जलाहरणार्थं युवत्यः आगच्छन्ति इत्यपि अवलोकितम् । तदनुगुणं तेन पद्यमिदं व्यरच्यत –

*रामाभिषेके जलमाहरन्त्याः*
*हस्ताच्युतो हेमघटो युवत्याः ।*
*सोपानमार्गे प्रकरोति शब्दं*
*ठा ठं ठ ठं ठं ठठठं ठ ठं ठः ।*

सन्तुष्टः भोजराजः कालिदासस्य सत्कारं व्यदधात् ।

✍🏻 *महाबलभट्टः, गोवा*
📱 9860060373

सर्वशुक्ला सरस्वती

_संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_

*संस्कृतप्रपञ्चस्य रसप्रसङ्गाः*

🌷पुष्पम् - १६

*सर्वशुक्ला सरस्वती*
कर्णाटकस्य चालुक्यान्वयचक्रवर्तिनः इम्मडि पुलकेशिवर्यस्य स्नुषा विजयांबिका अथवा विज्जिका संस्कृतकवयित्रीषु अग्रगण्या वर्तते । तस्याः 'कौमुदीमहोत्सवः' नाम नाटकं भागशः उपलब्धमस्ति ।

विज्जिकायाः स्वपाण्डित्यविषये अतीव अभिमानमासीत् । तां कदाचित् ’भवत्याः दृष्ट्या उत्तमाः कवयः के?’ इति कोऽपि अपृच्छत् ।

तदा सा अवदत् –
*एकोऽभून्नलिनात्ततश्च पुलिनाद्वल्मीकतश्चापरः*
*ते सर्वे भवन्ति कवयस्तेभ्यो नमस्कुर्महे ।*
*अर्वाञ्चो यदिगद्यपद्यरचनैश्चेष्टाञ्च मत्कुर्वते*
*तेषां मूर्ध्नि दधामि वामचरणं कर्णाटराजप्रिया ।*

कमलजातः ब्रह्मा, सिकते जातः व्यासः, वल्मीकभवः वाल्मीकिः एते एव कवयः। अन्यो नवीनः कोऽपि काव्यरचनां कृत्वा आत्मानं कवि मन्यते चेत् तस्य शिरसि मम वामपादं स्थापयिष्ये इति उद्घोषितवती ।
एषा स्वाभिमानस्य पराकाष्ठता वा दुरभिमानः वा न जानीमः।

गद्यकविचक्रवर्तीति ख्यातः दण्डी स्वस्य काव्यादर्शनामकस्य लक्षणग्रन्थस्य मङ्गलाचरणम् एवमकरोत् –

*चतुर्मुखमुखाम्भोज*
*-वनहंसवधूर्मम ।*
*मानसे रमतां नित्यं*
*सर्वशुक्लासरस्वती ॥*

सरस्वतीं सर्वशुक्लां वर्णितां विज्ञाय विजयभाट्टारिका एवमभणत् –

*नीलोत्पलदलश्यामां*
*विज्जिकां मां अजानता ।*
*वृथैव दण्डिना प्रोक्तं*
 *सर्वशुक्ला सरस्वती |।*

’अहं तु कृष्णकाया । सरस्वती शुभ्रकाया इति दण्डिना उक्तं व्यर्थमेव’ इति कथयन्त्याः आत्माभिमानः अन्यादृशः एव।

✍🏻 *महाबलभट्टः, गोवा*
📱 9860060373

बाधति-बाधते

📄 _संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_

*संस्कृतप्रपञ्चस्य रसप्रसङ्गाः।*

🌺पुष्पम् - १५

*बाधति-बाधते*

दूरदेशात् कश्चन पण्डितवरः धारानगरं समासादयत्। तस्य शिबिका आस्थानपण्डितैरेव वहनीयेति सः राजानमब्रवीत्। भूपतिस्तु बहुश्रुतकीर्तेः मनीषिणः मनीषां पूरयितुं सभापण्डितान् न्यवेदयत्।

शैत्यकारणात् पण्डितानाम् अभ्यासाभावाच्च तैः उह्यमाना दोला इतस्ततः दोलायमाना सञ्जाता। तेन रुष्टः पण्डितः 'शैत्यं बाधति किम्?' इत्यपृच्छत्।

तदा स्कन्धन्यस्तशिबिकः कालिदासः पण्डितमगदत् - ' न तथा बाधते शैत्यं यथा बाधति बाधते' इति।

बाध् धातुः आत्मनेपदी। तस्य प्रथमपुरुषैकवचनरूपं तु 'बाधते' इति न तु बाधति। विचक्षणः कालिदासः स्वस्य दोषज्ञत्वं सम्यगेव प्रादर्शयत्।

भग्नगर्वः सुधीः शिबिकायाः अवतीर्य कविकुलगुरुं प्रणम्य सर्वैः सह पद्भ्यामेव राजभवनं ययौ।

✍🏻 *महाबलभट्टः, गोवा*
📱9860060373

मोदकैस्ताडय

_संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_

*संस्कृतप्रपञ्चस्य रसप्रसङ्गाः।*

           🌹 पुष्पम् - १४

      सातवाहनराजः कदाचित् स्वमहिषीभिः सह जलक्रीडार्थं नदीमगच्छत्। क्रीडावसरे तेन बलात् राज्ञीनामुपरि बहुधा जलसेचनमकारि। नितरां पीडिताः राज्ञ्यः तं 'मोदकैस्ताडय, मोदकैस्ताडय' इत्यूचुः।

       राज्ञीनां मोदाय राजाज्ञया प्रासादात् मोदकाः आनीताः। महाराजः तैः मोदकैः राज्ञीः ताडयितुमारभत। राज्ञ्यः तस्य मूर्खतामुच्चैः उपाहसन्।

        महाराज्ञी अभणत् 'आर्यपुत्र! मोदकैस्ताडय इत्युक्ते मा उदकैः ताडय इत्यर्थः' इति।

        अवमनितः राजा संस्कृतं शिक्षितुकामः विद्वन्मण्डल्यां स्वमनोरथं न्यवेदयत्। सभामण्डितः गुणाढ्यः नाम विद्वान् तदर्थं षड्वर्षाणि  अपेक्ष्यन्ते इत्यब्रवीत्।

        सभायाम् उपस्थितः कातन्त्रव्याकरणप्रणेता शर्ववर्मा नाम बुधः 'षण्मासेषु राजानं संस्कृतकोविदं कर्तुं प्रभवामि' इत्यभणत्। गुणाढ्यः तदशक्यमिति वादमकरोत्।

        तयोर्मध्ये स्पर्धा प्रवृत्ता। 'यदि शर्ववर्मा तत्कार्ये सफलः भवति तर्हि अहं संस्कृतादिप्रसिद्धभाषासु न लेखिष्यामि इति गुणाढ्यः प्रतिज्ञामकरोत्।

         शर्ववर्मणः कौशल्येन स्वस्य श्रद्धाप्राबल्येन च महाराजः षण्मासेषु पाण्डित्यं समपादयत्।

         पन्थे पराजितः गुणाढ्यः विन्ध्याटवीमासाद्य पैशाचभाषायां सप्तलक्षपद्ययुतं 'बृहत्कथा' नामकम् ग्रन्थं विरचय्य राज्ञः समीपं प्रैषयत्।

         भूपतिः तस्य ग्रन्थस्य विषये उपेक्षाभावं प्रादर्शयत्। तस्माद्विषण्णहृदयः गुणाढ्यः अटवीवासिनां पुरतः स्वकाव्यं पठित्वा एकमेकं पत्रं अग्नौ क्षेप्तुमारभत।

        ग्रन्थस्य महत्ता कर्णाकर्णि राजानं प्राप्नोत्। यावद् महाराजः गुणाढ्यसमीपं प्राधावत् तावता एकलक्षपद्यान्येवावशिष्टान्यासन्। नृपतिः गुणाढ्यमादृत्य अवशिष्टमरक्षत्।

       तदनन्तरं क्षेमेन्द्रनामा कविः गुणाढ्यस्य ग्रन्थं संस्कृतभाषया अनूद्य 'बृहत्कथामञ्जरी' नाम ग्रन्थमरचयत्।

        सोमदेवकृते कथासरित्सागरे कथेयं वर्णिता।

 (विकिपीडियातः सङ्ग्रहीतेयं कथा)

✍🏻 *महाबलभट्टः, गोवा*
📱 9860060373

भोजनं देहि राजेन्द्र!

📃_संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_

*संस्कृतप्रपञ्चस्य रसप्रसङ्गाः।*

🌺पुष्पम् - १३

'कवयो हि मे प्राणाः' इति मन्यमानः भोजराजः विनूतनाम् अक्षरलक्षयोजनाम् उद्घोषितवान्। कश्चन कविः यदि कवितां रचयति तर्हि तत्रस्थस्य प्रत्येकस्य अक्षरस्य कृते एकलक्षसुवर्णनाणकानि प्राप्नोति स्म।

एतच्छ्रुत्वा बहवः काव्यरचनायोद्यताः। एकवारं कश्चन निर्धनः विद्वान् नृपकटाक्षापेक्षया कवितां रचयितुं प्रायतत।
*भोजनं देहि राजेन्द्र! घृतसूपसमन्वितम् ।*

सः अग्रे किं लेखनीयमिति अजानन् कालिदासमुपासरत्। कालिदासः तस्य पद्यस्य द्वितीयार्धमपूरयत्।

*भोजनं देहि राजेन्द्र! घृतसूपसमन्वितम् ।*
*माहिषञ्च शरच्चन्द्रचन्द्रिकाधवलं दधि!*

परेद्युः सः पण्डितः राजसभां गत्वा पद्यवाचनमकरोत्। भोजराजः तस्मै षोडशलक्षसुवर्णनाणकानि अयच्छत्। विस्मितः कविः 'हे राजन्! अनुष्टुभ् छन्दोयुक्ते पद्येस्मिन् द्वात्रिंशदक्षराणि किल?' इत्यपृच्छत्।

भोजराजस्तु हसन् 'षोडशाक्षराणि कालिदासस्य खलु' इत्युक्त्वा तं प्रैषयत्। प्रतिभातारतम्यं सम्यगेव व्यजानात् भोजराजः!

✍🏻 *महाबलभट्टः, गोवा*
📱9860060373

गङ्गा ममाङ्गान्यमलीकरोतु

*📜संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला✍*

*📚संस्कृतप्रपञ्चस्य रसप्रसङ्गाः📖*

 🌼 *पुष्पम् - १२*

  *गङ्गा ममाङ्गान्यमलीकरोतु...*
       पण्डितराजजगन्नाथस्य राजनिष्ठा पूर्णतया शिथिला अभवत् । षाहजहानस्य पुत्रः औरङ्गजेबः स्वस्य ज्येष्ठभ्रातरं हत्वा पितरं कारागृहे न्यक्षिपत् । यवनीं परिणीतवन्तं जगन्नाथं शिष्टसमाजः नाङ्ग्यकरोत् । निर्गतिकः पण्डितराजः वाराणसीम् आगतवान् ।
वाराणस्यां बहुदिनपर्यन्तं महती वृष्टिरभवत् । देवनदी उग्रा सम्भूता । स्नानार्थं उपगतवतीं लवङ्गीं कवलितवती भागीरथी । जगन्नाथस्य एकमेव आलम्बनमपि च्युतमभूत् ।
प्रियतमायाः वियोगेन, नीचजनसेवायाः पश्चात्तापेन च जर्झरितहृदयः जगन्नाथः व्यग्रः भूत्वा स्नानघट्टे उपाविशत् । आकाशे वज्रनिर्घोषः, नद्यां महोर्मीणाम् उद्घोषः, जगन्नाथस्य हृदये भावनातरङ्गाणां महाघोषः । क्षणे क्षणे उद्गच्छन्ती मन्दाकिनी जगन्नाथस्य हृदयमस्पृशत् । ततः उद्गता गङ्गालहरीति ख्याता स्तोत्रमालिका ।
        यथा यथा जगन्नाथः स्तोत्रस्य एकैकां पङ्क्तिम् उच्चारयत् तथा तथा  विष्णुपदोद्भवा एकैकशः सोपानम् आरुह्य उपरि आगता। यदा नद्याः स्पर्शः सञ्जातः अन्तिमं पद्यमिदं पण्डितराजमुखात् निसृता ।

*विभूषितानङ्गरिपूत्तमाङ्गा*
*सद्यःकृतानेकजनार्तिभङ्गा ।*
*मनोहरोत्तुङ्गजलत्तरङ्गा*
*गङ्गा ममाङ्गान्यमलीकरोतु ॥*

(कामारेः शिरः अलङ्कुर्वाणा अनेकजनानां कष्टं हृतवती, मनोहरजलतरङ्गयुक्ता गङ्गा मम अङ्गानि पवित्रीकरोतु।) जगन्नाथस्य प्रार्थनां श्रुतवती इव उपरि आगता स्वर्णदी जगन्नाथं स्वप्रवाहे लीनमकरोत् ।
विहायसि सूर्योदयः जातः। भुवि पण्डितसूर्यः अस्तङ्गतः ।
रसगङ्गाधरः, भामिनीविलासः, पञ्चलहरीग्रन्थाः इत्यादिमहाकृतयः तन्नाम बहुश्रुतमकार्षुः।

✍🏻 *महाबलभट्टः, गोवा*
📱9860060373

सहस्रशीर्षा पुरुषः

_संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_

*संस्कृत साहित्य प्रपञ्चस्य रसप्रसङ्गाः।*

🌻पुष्पम् - ११

एषा अन्यस्य कस्यचित् पण्डितपुत्रस्य कथा। कश्चन ब्राह्मणः एकदा भोजसभां प्रविष्टः। नमस्कुर्वते नृपतये स्वस्ति वक्तुकामः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् इति पुरुषसूक्तस्य पङ्क्तिमेकाम् उदगिरत्। अग्रे किं करणीयमिति अज्ञात्वा मूढ इव अतिष्ठत्।

सभास्थितः कालिदासः सत्वरं तस्य साहाय्यार्थमधावत्। पद्यस्य द्वितीयार्धं समपूरयत्।

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्।
चलितश्चकितश्छन्नः तव सैन्ये प्रधावति।।

'हे राजन्! तव सैन्यं यदा अधावत् तदा सहस्रशीर्षा शेषः चलितः, सहस्राक्षः इन्द्रः चकितोऽभूत्, सहस्रपात् सूर्यः (धूल्या) आच्छादितः अभवत्" इति तात्पर्यम्।

भोजः शिरः कम्पयन् ब्राह्मणस्य अकिञ्चनत्वं दूरीचकार।

✍🏻 *महाबलभट्टः, गोवा*

धिक् तां च तं च

*📜संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला✍*

*📚संस्कृत साहित्य प्रपञ्चस्य रसप्रसङ्गाः📖*

                 *पुष्पम् - १०*

       राजा भर्तृहरिः स्वस्य शतकत्रयेण  विश्वस्मिन् जगति विश्रुतः वर्तते। सः प्रसङ्गवशात् सिंहासनं परित्यज्य संन्यासं स्व्यकरोत्। रोचकोऽयं प्रसङ्गः।

        एकस्मिन्नहनि कश्चन योगी दिव्यं फलमेकं राज्ञे प्रदाय "भवतः प्रीतिपात्राय एतत् ददातु" इत्यब्रवीत्।

       नास्ति भार्यासमं मित्रमिति मन्यमानः महाराजः तत्फलं राज्ञ्यै प्राददात्। परन्तु तस्याः अन्यः कश्चन प्रियतरः आसीत्। सा फलं तस्मै अयच्छत्। सः विटस्तु स्वस्य प्रियतमायै अन्यस्यै तरुण्यै प्रादात्। सा तरुणी  राज्ञि अनुरक्ता आसीत्। फलं पुनः महाराजस्य हस्तगतमभूत् !

       प्रवृत्तं सर्वं विज्ञाय भूपतिः संसारात् निवृत्ति‌म् अकाङ्क्षत। निवृत्तिकारणं सः एवं न्यगदत् -

*यां चिन्तयामि सततं मयि सा विरक्ता*
*साऽप्यन्यमिच्छति जनं सः जनोऽन्यसक्तः।*
*अस्मत्कृते च परितुष्यति काचिदन्या*
*धिक् तां च तं च मदनञ्च इमां च मां च ।।*

       वैराग्यमापन्नः भर्तृहरिः तुरीयाश्रममाश्रयत्।

*रावणः - राभणः*

*📜संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला✍*

  *📖संस्कृतप्रपञ्चस्य रसप्रसङ्गाः📜*

              *पुष्पम् - ९*

          *रावणः - राभणः*

         पुरस्काराशया भोजराजस्य आस्थानम् *आगन्तॄणां* अर्धपण्डितानां सङ्ख्या न्यूना नासीत्। तादृशः कश्चन पण्डितपुत्रः एकदा सभाप्रवेशमकरोत्।

       स्वस्तिवाचनं कृत्वा रामायणस्य कश्चित् श्लोकः तेन पठितः। तत्र तेन राभणः इत्युच्चारणमकारि। तच्छ्रुत्वा आश्चर्येण कथमिति पृष्टवति भोजराजे सः पण्डितः दिङ्मूढतां प्राप्तवान्।

      तदा तदनुकम्पया तस्य साहाय्यार्थं भावितः कालिदासः अभणत् -

*कुम्भकर्णे भकारोऽस्ति*
            *भकारोऽस्ति विभीषणे।*
*तयोर्ज्येष्ठे कुलश्रेष्ठे*
            *भकारः किं न विद्यते।*

        एतदाकर्ण्य नरपालः कालिदासोपरि प्रसन्नदृष्टिं प्रसार्य यथेष्टधनकनकैः पण्डितस्य इष्टापूर्तिमकरोत्।

           *- ✍महाबलभट्ट:, गोवा*

दिल्लीश्वरो वा जगदीश्वरो वा....*

📃 _संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_ ✍

*📖संस्कृतप्रपञ्चस्य रसप्रसङ्गाः🍹*

🌸 *पुष्पम् - ८*

*दिल्लीश्वरो वा जगदीश्वरो वा....*

        संस्कृतक्षेत्रे पण्डितराजः इति ख्यातः जगन्नाथकविः स्वस्य प्रखरपाण्डित्येन विरोधिनां सिंहस्वप्नमासीत्। मुघलनरेशस्य शाहजहानस्य आस्थानमलङ्कुर्वाणः राजकुमारस्य दाराषुकस्य प्रीतिपात्रः आसीत्।

         यवनानां संसर्गेण कालप्रभावेण वा लवङ्गी नाम्न्यां यवनकन्यायाम् अनुरक्तोऽभवत्। तस्य विरोधिनस्तु तं लवङ्गीजगन्नाथः इत्येव उपहसितवन्तः। परन्तु जगन्नाथः तान् उपेक्षितवान् । लवङ्ग्याः सुखसङ्गे रममाणः स: "सा मञ्चे वर्तते चेत् स्वर्गोऽपि मास्तु" इति उदघोषयत्।

*लवङ्गी नवनीतकोमलाङ्गी*
*शयनीये यदि लभ्यते कदाचित्।*
*अवनीतलमेव साधु मन्ये*
*नावनी माघवनी विनोदहेतुः ।।*

        तस्य कष्टकाले ये राजानः आश्रयं निराकुर्वन् ते एव कालान्तरे लब्धकीर्तिं तं स्वास्थानं मण्डयितुं आह्वयन्। नेपालस्य नरेशः वीरविक्रमः "हिन्दूनृपतेः मम आस्थानमलङ्कृत्य स्वाभिमानी भव" इति दीर्घं पत्रं विलिख्य प्रैषयत्। पण्डितराजः तस्मै मार्मिकम् उत्तरमदात्।

*दिल्लीश्वरो वा जगदीश्वरो वा*
*मनोरथं मे पूरयितुं समर्थः।*
*अन्येन राज्ञा प्रदीयमानं*
*शाकाय वा स्यात् लवणाय वा स्यात्।।*

      पण्डितराजस्य निष्ठा अचला आसीत्।

                  *- ✍महाबलभट्टः, गोवा*

Wednesday, August 7, 2019

कवयामि वयामि यामि

📃 _संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_

        *संस्कृतप्रपञ्चस्य रसप्रसङ्गाः*

               🌹  *पुष्पम् - ७*

        भोजराजः सभायां विराजमानः अस्ति। नववमणयोऽपि उचितासने मण्डिताः सन्ति। तदा दूरदेशात् कश्चन पण्डितः तत्र समागतः। तस्य पाण्डित्येन सन्तुष्टहृदयः महाराजः तस्य वासार्थं गृहमेकमन्वेष्टुं सेवकान् आज्ञापयत्।

        नगरे सर्वत्र भ्रान्त्वा समागताः भटाः 'कुत्रापि रिक्तं गृहं नास्ति' इति न्यवेदयन्। तदा भूपतिः "यस्मिन् गृहे अविद्यावन्तः वसन्ति, तस्मात् गृहात् जनान् निष्कास्य तत्र पण्डितस्य वासव्यवस्थां कल्पयन्तु" इत्यादिदेश।

         राजपुरुषाः पुनरपि तादृशगेहस्य प्राप्तौ विफलाः सञ्जाताः। तदा नृपतिः "यस्मिन् गृहे काव्यरचनासामर्थ्यहीनाः निवसन्ति तद्गृहं रिक्तीकृत्य तत्र सः सुधीः वासनीयः" इत्यादिष्टवान्।

        तादृशं गृहम् अन्विष्यन्तः राजभृत्याः कस्यचित् कुविन्दस्य गृहं प्राप्तवन्तः। तन्तुवयने मग्नः तन्तुवायः राजभटान् दृष्ट्वा भयग्रस्तः समभवत्।

        "त्वं काव्यनिर्माणे क्षमः किम्?" भटः कुविन्दम् अपृच्छत्। कुविन्दस्तु प्रश्नस्याशयमजानन् "कुतः तन्तुवयनं, कुतः काव्यरचनम्?" इत्यवदत्। "तर्हि चल राजसभाम्" इत्युक्त्वा राजपुरुषाः तं बलात् आस्थानमानयन्।

         "भोः! तन्तुवाय किं कावयरचनां न जानासि" इति पृष्टवति भोजराजे कुविन्दः आशु पद्यमेकं विरचय्य अगायत्।

*काव्यं करोमि न हि चारुतरं करोमि*
*यत्नात्करोमि यदि चारुतरं करोमि ।*
*भूपालमौलिमणिमण्डितपादपीठ!*
*हे साहसाङ्क! कवयामि वयामि यामि।।*

         कवितायाः सौन्दर्येण तत्रापि अन्तिमपादस्य शब्दचित्रेण प्रसन्नहृदयः भोजः तं कुविन्दं सत्कृत्य पण्डिताय नूतनसदननिर्माणाय आदिशत्।

          सामान्यः कुविन्दोऽपि काव्यरचनाकुशलः अवर्तत भोजराजे राज्यं पालयति सति!

✍🏻 *महाबलभट्टः, गोवा*

श्वशुरगृहनिवासः…...

_संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_

*संस्कृतप्रपञ्चस्य रसप्रसङ्गाः।*

🥀पुष्पम् - ६

*श्वशुरगृहनिवासः…...*

संस्कृतस्य पञ्चमहाकाविषु भारविः अन्यतमः। तस्य पूर्वनाम दामोदरः इत्यासीत्।

यद्यपि दामोदरः मूढः नासीत् तथापि तस्य पिता तं सर्वदा मूर्खः इति निन्दति स्म। तेन दामोदरः नितरां दूयते स्म।

एकदा पितुः निन्दावचनेन पीडितान्तःकरणः सः पितरं मारयितुं निश्चयञ्चकार। रात्रौ भोजनोत्तरं महान्तं शिलाखण्डमेकं स्वीकृत्य अट्टोपरि उपाविशत्। पिता यदा शेते तदा तस्योपरि शिलाखण्डः पातनीयः इति तस्य चिन्तनम् आसीत्।

शयनसमये तस्य पिता स्वपत्न्या सह संल्लपन् पुत्रस्य विषये प्रशंसावचनानि उदगिरत्। तच्छ्रुत्वा पिता 'परोक्षे तनयाः स्तुत्याः' इत्युक्तिम् अनुसरतीति दामोदरः अचिन्तयत्। पश्चात्तापेन दग्धमानसः सः पितुः पादमूले निपत्य क्षमायाचनमकुरुत। दुष्टचिन्तनेन प्रदूषितस्य अन्तःकरणस्य शुद्ध्यर्थं मार्गं सूचयितुं न्यवेदयत्।

'षण्मासपर्यन्तं श्वशुरगृहे निवासं करोतु' इति जनकः तम् असूचयत्।

स तु श्वशुरगृहे प्राप्स्यमानान् राजोपचारान् ध्यात्वा प्रमुदितमनोऽभूत् । नैषा शिक्षा, वर एव इति चिन्तयन् श्वशुरगृहं प्रपेदे।

श्वशुरगृहे वैभवेन तस्य स्वागतमभवत्। परन्तु केषुचित् दिनेषु व्यतीतेषु पितुः शिक्षावचनस्य तथ्यमनुभूतम्। वेदनापूर्णहृदयेन तेन इदं पद्यं रचितम् -

*श्वशुरगृहनिवासः स्वर्गतुल्यो नराणां*
*यदि वसति दिनानि त्रीणि पञ्चाथ सप्त।*
*मधुदधिघृतधाराक्षीरसारप्रवाहः*
*तदुपरि निवसति चेत्पादरक्षाप्रवाहः।।*

पुरुषैः मन्तव्यः विचारः खलु!

✍️ *महाबलभट्टः, गोवा*

Monday, August 5, 2019

जलमध्ये डुबुक् डुबुक्

🌼 पुष्पम् - ५

भोजराजः विद्वद्भ्यः भूरि कनकानि ददातीति श्रुत्वा चत्वारः पण्डितम्मन्याः धारानगरीं प्रति प्रस्थिताः। भोजराजं प्रीणयितुं तैः काचित् कविता रचनीया आसीत्। मार्गे बहुधा प्रयासः कृतः चेदपि कविताकामिन्याः प्रेमपात्रतां न ययुः। श्रान्तास्ते विश्रान्त्यर्थं कासारतीरे कस्यचित्तरोर्मूलं समाश्रयन्।

सः जम्बूवृक्षः आसीत्। चतुर्षु अन्यतमः वृक्षे पक्वानि फलानि अपश्यत्। सपदि तेन 'जम्बूफलानि पक्वानि' इति पद्यस्य  प्रथमः पादः रचितः।

अन्यः तानि फलानि कासारजले पतन्तीति अवालोकयत्। तेन द्वितीयः पादः व्यरच्यत - 'पतन्ति विमले जले' इति।

अपरः चोद्यमेकमलक्षयत् । पक्वान्यपि फलानि जलाशयस्य मत्स्यैः न खादितानि। अतः तेन "तानि मत्स्याः न खादन्ति' इति तृतीयः चरणः विरचितः।

जले पतनसमये फलैः क्रियमाणेन विचित्रशब्देन आकृष्टचित्तेन चतुर्थेन भणितम् - 'जलमध्ये डुबुक् डुबुक्' इति।

एवं महता प्रयासेन चत्वारः सम्मिल्य एकं पद्यं विरचयामासुः।

जम्बूफलानि पक्वानि
पतन्ति विमले जले।
तानि मत्स्या न खादन्ति
जलमध्ये डुबुक् डुबुक्।।

भोजराजस्य आस्थानं प्रविश्य पद्यमेतत् गदितं तैः। भोजस्तु चमत्कृतिहीनाम् एनां रचनां श्रुत्वा तेभ्यः अकुप्यत।

निराशया ते कवयः अवनतवदनाः बहिः आगतवन्तः। तदैव प्रासादमुपसर्पन्तं कालिदासं दृष्ट्वा प्राणमन्। तेभ्यः सकलं वृत्तान्तम् आकर्ण्य कविकुलगुरुः पद्यस्य अन्तिमं चरणं परिवर्तितवान्।

जम्बूफलानि पक्वानि
पतन्ति विमले जले।
तानि मत्स्या न खादन्ति
जालगोलकशङ्कया।।

फलानि मत्स्यकारैः प्रसारितस्य जालस्य गोलकानि मत्वा मत्स्याः तानि खादितुं न इच्छन्ति इत्यसाधारणेन कल्पनाविलासेन पद्यस्य भाग्यमेव परिवर्तितम्।

ते भूयः सभां प्रविश्य परिवर्तितं पद्यम् अश्रावयन् । यद्यपि भूपतिः पद्ये प्रविष्टः चमत्कारः कालिदासकृतः इत्यवागच्छत् तथापि करुणार्द्रहृदयः भूत्वा तेषां चतुर्णां पण्डितपुत्राणां दारिद्र्यमपाहरत्।

✍🏻 महाबलभट्टः, गोवा

Sunday, August 4, 2019

ದೇವುಡು ಅವರ ಮಹಾಕೃತಿ 'ಮಹಾಬ್ರಾಹ್ಮಣ'.



ಇತ್ತೀಚಿನ ದಿನಗಳಲ್ಲಿ ಸಾಮಾಜಿಕ ಜಾಲತಾಣಗಳು ಓದಿನ ಹುಚ್ಚನ್ನು ಹಿಡಿಸುವಲ್ಲಿ ಪ್ರಮುಖ ಪಾತ್ರವನ್ನು ವಹಿಸುತ್ತಿವೆ. ತಾವು ಓದಿದ ಪುಸ್ತಕದ ಬಗ್ಗೆ ಬರೆದು ಇತರರನ್ನೂ ಪ್ರೇರೇಪಿಸುವ ಅನೇಕ ಓದುಗರಿದ್ದಾರೆ. ಯಕ್ಷಗಾನ ತಾಳಮದ್ದಳೆ ಎಂಬ ಜ್ಞಾನತಾಣದಲ್ಲಿ ಒಂದಿನ ದೇವುಡು ನರಸಿಂಹ ಶಾಸ್ತ್ರಿಗಳ ’ಮಹಾಬ್ರಾಹ್ಮಣ’ ಕೃತಿಯ ಬಗ್ಗೆ ಬಿಸಿ ಬಿಸಿ ಚರ್ಚೆಯಾಯಿತು. ಈಗಾಗಲೇ ಆ ಕೃತಿಯ ಬಗ್ಗೆ ಕೇಳಿದ್ದೆ. ನನ್ನ ಭವಿಷ್ಯದ ಓದಿನ ಪಟ್ಟಿಯಲ್ಲಿ ಅದೂ ಇತ್ತು. ಆದರೆ ಈ ಚರ್ಚೆಯ ನಂತರ ಕುತೂಹಲ ತಡೆಯಲಾರದೆ ಮೈಸೂರಿನ ಶ್ರೀನಿಧಿ ಸುಬ್ರಹ್ಮಣ್ಯ ಅವರಲ್ಲಿ ದೇವುಡು ಅವರ ಮೂರೂ ’ಮಹಾ’ ಪುಸ್ತಕಗಳನ್ನು ಕಳಿಸುವಂತೆ ಕೋರಿದೆ. ಅವುಗಳಲ್ಲಿ ಮಹಾಬ್ರಾಹ್ಮಣವನ್ನು ಓದಿ ಮುಗಿಸಿದ್ದೇನೆ.

ಈಗಾಗಲೇ ಗೊತ್ತಿರುವ ಪುರಾಣದ ಕಥೆಯನ್ನು ಆಧರಿಸಿ ಕಾದಂಬರಿಯನ್ನು ರಚಿಸುವುದು ಸುಲಭದ ಮಾತಲ್ಲ. ಲೇಖಕ ಮಾಡುವ ಮಾರ್ಪಾಡುಗಳು ಸಹೃದಯರಿಗೆ ಪಥ್ಯವಾದರೆ ಮಾತ್ರ ಕಾದಂಬರಿ ಯಶಸ್ವಿಯಾಗುತ್ತದೆ. ಮಾರ್ಪಾಡನ್ನು ಮಾಡದೆ ಹೋದರೆ ಅದು ಕೇವಲ ಸಂಕಥನವಾದೀತು. ಆ ನಿಟ್ಟಿನಲ್ಲಿ ’ಮಹಾಬ್ರಾಹ್ಮಣ’ ಕಾದಂಬರಿ ಯಶಸ್ವಿಯಾಗಿದೆ ಎಂಬುದು ನಿಸ್ಸಂಶಯ.

ಕೌಶಿಕ ಎಂಬ ಲೋಭಿ ರಾಜ ವಿಶ್ವಾಮಿತ್ರನೆಂಬ ಲೋಕೋಪಕಾರಿ ಮುನಿಯಾಗುವುದು ಈ ಕಾದಂಬರಿಯ ಕಥಾ ವಸ್ತು. ವಸಿಷ್ಠರ ಮೇಲಿನ ದ್ವೇಷವು ಪ್ರೀತಿಯಾಗಿ ಪರಿವರ್ತನೆಯಾಗಿ ಮುಂದೆ ಲೋಕೋಪಕಾರಕ್ಕಾಗಿಯೇ ತ್ರಿಶಂಕು ಸ್ವರ್ಗದ ನಿರ್ಮಾಣ, ಮೇನಕೆ ಹಾಗೂ ಘೃತಾಚಿಯರೊಂದಿಗೆ ಸಮಾಗಮ, ಶುನಶ್ಶೇಫನ ಉದ್ಧಾರ, ಸ್ವಪುತ್ರರ ಬಲಿದಾನ ಹಾಗೂ ಕೊನೆಯಲ್ಲಿ ಗಾಯತ್ರೀ ಮಂತ್ರದ ಸಾಕ್ಷಾತ್ಕಾರವಾಗಿ ವಿಶ್ವಾಮಿತ್ರ ಬ್ರಹ್ಮರ್ಷಿತ್ವ ಪಡೆಯಲು ಕ್ರಮಿಸಿದ ದುರ್ಗಮ ಮಾರ್ಗ ಸುಂದರವಾಗಿ ಚಿತ್ರಿತವಾಗಿದೆ. ಆನುಷಂಗಿಕವಾಗಿ ಬರುವ ಗಾರ್ಗಿ ವಾಚಕ್ನವಿ ಹಾಗೂ ಲೋಪಾಮುದ್ರೆಯರ ಪಾತ್ರಗಳು ವೈದಿಕ ಕಾಲದ ಬ್ರಹ್ಮವಾದಿನಿಯರ ಗರಿಮೆಯನ್ನು ಸಾರುತ್ತವೆ.

ಕೌಶಿಕನು ವಿಶ್ವಾಮಿತ್ರನಾಗುವಾಗ ಅವನಲ್ಲಿ ಆಗುವ ಅಂತರಂಗದ ಪರಿವರ್ತನೆಯ ನಿರೂಪಣೆ ತುಂಬಾ ಹೃದ್ಯವಾಗಿದೆ. ಆ ಪರಿವರ್ತನೆಯಲ್ಲಿ ದೇವತೆಗಳ ಪಾತ್ರ ಸ್ಪಷ್ಟವಾಗಿ ತೋರಿದರೂ ಅದೊಂದು ಅತಿಮಾನುಷ ಪರಿವರ್ತನೆ ಎನಿಸದೆ ಮಾನವಮಾತ್ರರೂ ಸಾಧಿಸಬಹುದಾದದ್ದು ಎನಿಸುತ್ತದೆ. ದುರ್ಗಮವಾದ ವೇದಾಂತತತ್ತ್ವವೂ ಪ್ರಕೃತಿಯೊಂದಿಗೆ ಸಮನ್ವಯಗೊಂಡು ಚೇತೋಹಾರಿ ಮಣಿಗಳಂತೆ ಅಲ್ಲಲ್ಲಿ ಪೋಣಿಸಲ್ಪಟ್ಟಿವೆ. ಕಥೆ ಹಳೆಯದೇ ಆದರೂ ಸಾಂಪ್ರದಾಯಿಕ ಭಾಷಾ ಶೈಲಿಯನ್ನು ಬಳಸದೆ ಸಮಕಾಲೀನ ಶೈಲಿಯನ್ನು ಅನುಸರಿಸಿರುವುದು ಹೆಚ್ಚು ಆಪ್ಯಾಯಮಾನವೆನಿಸುತ್ತದೆ.

ದೇವುಡು ಅವರದು ಅತ್ತ ಬಲು ಕಠಿಣವೂ ಅಲ್ಲದ ಇತ್ತ ಬಹು ಸರಳವೂ ಅಲ್ಲದ ’ವೈದರ್ಭೀ’ ಶೈಲಿ. ಓಜಸ್ಸು, ಮಾಧುರ್ಯ ಹಾಗೂ ಪ್ರಸಾದ ಗುಣಗಳ ಹದವಾದ ಮಿಶ್ರಣ ಶೃಂಗಾರಾದಿ ನವರಸಗಳೊಂದಿಗೆ ಬೆರೆತು ಸಿದ್ಧವಾದ ರಸಪಾಕ ಈ ಕಾದಂಬರಿ.

ವ್ಯಕ್ತಿಯೊಬ್ಬನನ್ನು ಅರಿಯುವುದರ ಬಗ್ಗೆ ಲೇಖಕರು ಬರೆದಿದ್ದು ಮನತಟ್ಟಿತು. – “ನಾವು ಒಬ್ಬರನ್ನು ಬಲ್ಲೆವು ಎನ್ನುವುದು ಏನು? ಅವನ ಆಶೋತ್ತರಗಳು, ಅವನ ಬೇಕು-ಬೇಡಗಳು ಇಷ್ಟೇ ನಮಗೆ ತಿಳಿದಿರುವುದು. ಅಲ್ಲಿಂದಾಚೆಗೆ ನಮಗೆ ತಿಳಿದಿರುವುದೇನು? ಹಾಗಾದರೆ ಬೇಕು ಬೇಡ ಎರಡೂ ಬಿಟ್ಟರೆ ವ್ಯಕ್ತಿಯಲ್ಲಿ ಏನೂ ಉಳಿದೇ ಇಲ್ಲವೇನು?” ಇಂತಹ ಸರಳ ಸುಂದರ ಜೀವನ ಸತ್ಯಗಳು ಅಲ್ಲಲ್ಲಿ ದೃಗ್ಗೋಚರವಾಗುತ್ತವೆ.

ಗ್ರಂಥದ ಕೊನೆಯಲ್ಲಿ ಸಂಧ್ಯಾವಂದನೆಯ ಬಗ್ಗೆ ವಿಚಾರಪೂರ್ಣ ಬರಹವಿದೆ. ದೇವುಡು ಪ್ರತಿಷ್ಠಾನ ಪ್ರಕಟಿಸಿರುವ ಈ ಗ್ರಂಥದಲ್ಲಿ ೩೦೯ ಪುಟಗಳಿವೆ. ಬೆಲೆ ಕೇವಲ ೨೦೦ ರೂಪಾಯಿಗಳು. ಪ್ರತಿ ಪುಟದಲ್ಲೂ ಹೇರಳವಾಗಿ ದೊರಕುವ ಮುದ್ರಣದೋಷಗಳು ಓದಿನ ಆನಂದಕ್ಕೆ ತಡೆಯೊಡ್ಡುತ್ತವೆ. ದೇವುಡು ಪ್ರತಿಷ್ಠಾನ ಕರಡು ತಿದ್ದುವ ಕಾರ್ಯವನ್ನು ಗಂಭೀರವಾಗಿ ಪರಿಗಣಿಸದಿರುವುದು ದುರದೃಷ್ಟಕರ.

ಕೊನೆಗೊಂದು ಜಿಜ್ಞಾಸೆ:

ಈ ಜಿಜ್ಞಾಸೆ ಇರುವುದು ಕೃತಿಯ ಹೆಸರಿನ ವಿಷಯದಲ್ಲಿ. ಈ ಶ್ಲೋಕವನ್ನು ಗಮನಿಸಿ –

ಶಂಖೇ ತೈಲೇ ತಥಾ ಮಾಂಸೇ ವೈದ್ಯೇ ಜ್ಯೌತಿಷಕೇ ದ್ವಿಜೇ |
ಯಾತ್ರಾಯಾಂ ಪಥಿ ನಿದ್ರಾಯಾಂ ಮಹಚ್ಛಬ್ದೋ ನ ದೀಯತೇ ||

ಈ ಶ್ಲೋಕದ ಮೂಲ ತಿಳಿದಿಲ್ಲ. ಆದರೆ ಇದರ ಪ್ರಕಾರ ಬ್ರಾಹ್ಮಣ ವಾಚ್ಯ ಶಬ್ದಗಳೊಂದಿಗೆ ’ಮಹಾ’ ಶಬ್ದವನ್ನು ಬಳಸಬಾರದು. ’ಮಹಾಬ್ರಾಹ್ಮಣ’ ಎಂಬ ಪದ ನಿಂದಾವಚನವಾಗುತ್ತದೆ. ಸ್ವಪ್ನವಾಸವದತ್ತ ನಾಟಕದ ಎರಡನೆಯ ಅಂಕದಲ್ಲಿ ಉದಯನ ಮಹಾರಾಜ ವಿದೂಷಕನನ್ನು ಈ ಪದದ ಮೂಲಕ ನಿಂದಿಸುತ್ತಾನೆ. ಹಾಗಿರುವಾಗ ತನ್ನ ಸಾಧನೆಯ ಮೂಲಕ ಬ್ರಾಹ್ಮಣ್ಯವನ್ನು ಪಡೆದ ವಿಶ್ವಾಮಿತ್ರನನ್ನು ಮಹಾಬ್ರಾಹ್ಮಣನೆಂದು ಕರೆದಿದ್ದು ಎಷ್ಟು ಸರಿ?

ದಯವಿಟ್ಟು ಬಲ್ಲವರು ತಿಳಿಸಿ.

ಪುಸ್ತಕಾನುಸಂಧಾನ: ಮಹಾಬಲ ಭಟ್, ಗೋವಾ

जीवरक्षिका कविता

🌻 पुष्पम् - ४

भारतभूमेः शिखरभूतः काश्मीरदेशः सरस्वत्याः विहारभूमिरिति कथ्यते। अतः एव सा जगद्गुरुशङ्कराचार्यैः काश्मीरपुरवासिनीति स्तुता वर्तते ।

तस्यां पुण्यभूमौ बिल्हणनामा महाकविः जनिमलभत। सः गुर्जरनरेशस्य पुत्रीं संस्कृतं पाठयितुं नियुक्तः। गच्छता कालेन तस्याः प्रेमपाशैः बद्धः अभूत्।

एतद्विज्ञाय क्रुद्धो भूपतिः बिल्हणस्य वधमादिष्टवान्। वधस्थानगमनमार्गे कविः चाटुपद्यानि रचयित्वा गातुमारभत। तेषु एकमेवमासीत् -

भट्टिर्नष्टो भारविश्चापि नष्टो
भिक्षुर्नष्टो भीमसेनोऽपि नष्टः।
भुक्कुण्डोऽहं भूपतिस्त्वञ्च राजन्
भम्भावल्यामन्तकः सन्निविष्टः।

ट्टिः, भा रविः, भि क्षुः(बुद्धः) भी मसेनः एते सर्वे कालग्रासीभूताः। 'भ' वर्णमालां प्रविश्य यमः भु क्कुण्डपर्यन्तं समागतः वर्तते। भवान् भू पतिः।

पद्यमेतदाकर्ण्य भूपतिः 'अग्रिमः अहमेव, भुक्कुण्डस्य अस्य मरणं यावत् विलम्बायते तावत् मम अन्त्यकालोऽपि दूरायते' इति विचिन्त्य कविवर्यं मुमोच। तस्य चातुर्येण प्रसन्नचित्तः स्वसुतां प्रीत्या तस्मै प्रादात्।

कवेः प्राणाः कवितया रक्षिताः। बिल्हणेन तदवसरे रचितानां पद्यानां संग्रहः 'चोरपञ्चाशिका' इति प्रसिद्धः समभवत्।

✍🏻 महाबलभट्टः, गोवा

क ख ग घ

🌺पुष्पम् - ३

भोजराजस्य सभायां विदुषां सर्वदा सादरं स्वागतमासीत्। एकदा कश्चन पण्डितः दूरदेशात् भोजसभां समागतः। सः क ख ग घ इति अक्षरचतुष्टयं पादार्धं कृत्वा पद्यरचनाय पन्थाह्वानमदात्। भोजराजस्य नवमणयोऽपि तथा कर्तुं असमर्थाः गतप्रभाः समभवन्। कालिदासोऽपि निष्प्रतिभ इव अधोवदनः सञ्जातः। भोजराजस्तु परेद्यवि उत्तरकथनाय पण्डितस्य अनुमतिं प्राप्नोत्।

सभाविसर्जनानन्तरं कविकुलगुरुः अवनतदृष्टिः मार्गे प्राचलत्। तस्य मस्तिष्कं कखगघ इत्यक्षराणि कृमिवत् पीडयन्ति स्म। मध्येमार्गं सः काञ्चित् चटुलां बालिकां ददर्श। तस्याः मुखकान्त्या आकृष्टचित्तः कालिदासः ताम् मृदुलभाषया अभाषत। एवमासीत् तयोः संल्लापः-

कालिदासः - का त्वं बाले?
बालाः- काञ्चनमाला।
कालिदासः- कस्याः पुत्री?
बालाः- कनकलतायाः
कालिदासः- हस्ते किं ते?
बालाः- तालीपत्रम्।
कालिदासः- का वा रेखा?
बालाः- कः ख ग घ ।

सहस्रं विद्युद्दीपाः ज्वालिताः इव तेजोमयमभूत् कालिदासस्य आननम्। तेन अन्विष्यमाणा भेषजलता पादयोर्लग्ना इव नितरां प्रहृष्य तयोरालापः एव पद्यरूपेण परिवर्तितः।

का त्वं बाले? काञ्चनमाला
कस्याः पुत्री? कनकलतायाः।
हस्ते किं ते? तालीपत्रम्
का वा रेखा? कः ख ग घ ।।

अनितरसाधारणः खलु कविकुलगुरोः प्रतिभाविलासः! अत एव उच्यते 'कालिदासो विशिष्यते' इति।

✍🏻 महाबलभट्टः, गोवा

मल्लिनाथसूरिः

🌸पुष्पम् - २

मल्लिनाथसूरिः

आन्ध्रप्रदेशस्य कस्मिंश्चित् अग्रहारे देवशर्मा नाम विप्रः प्रतिवसति स्म। तस्य मल्लिनाथनामा पुत्रः आसीत्। मल्लिनाथः अतीव अलसः आसीत्। तं पाठयितुं पित्रा कृतः सर्वोऽपि प्रयत्नः विफलतां गतः।

निरक्षरस्य तस्य विवाहः समुचितकाले प्रवर्तितः। तस्य श्यालाः सर्वे विद्वांसः आसन्। ते एकदा तेषां गृहे पण्डितपुत्रं मल्लिनाथम् उपाहसन् । तेन तस्य भार्या नितरां दुःखिता समभवत्। सा सपदि भर्तारं स्वीकृत्य स्वगृहं प्रति प्रस्थिता।

मल्लिनाथः मार्गे दृष्टं पालाशकुसुममेकं पत्न्यै दर्शयित्वा तस्य शोभां प्राशंसत्। तदा विदुषी तत्पत्नी चाणक्यनीतेः पद्यमेकम् उदगिरत्।

रूपयौवनसम्पन्ना
           विशालकुलसम्भवाः|
विद्याहीना न शोभन्ते
         निर्गन्धा इव किंशुकाः ||

अपमानेन जर्जरिते मल्लिनाथहृदये तस्याः उक्तिशरः सम्यगेव लग्नः। सः गृहमार्गं सन्त्यज्य गुरुकुलपथम् अध्यतिष्ठत् । गुरुकुले श्रद्धया अध्ययनं कृत्वा पाण्डित्यमवाप्नोत्।

एकस्मिन्नहनि भोजनसमये सः गुरुपत्नीमवोचत् -

"अम्ब! अद्य भोजनं किञ्चित् तिक्तमिव भासते " इति।

तदा गुरुः मृदुहसन् तमवादीत् -

"वत्स, मन्निर्देशनेन मज्जाया प्रतिदिनं तव भोजने निम्बरसं योजयति स्म। परन्तु अध्ययनव्यग्रः त्वं कदापि नावगतवान्। अद्य त्वया तल्लक्षितम् इत्युक्ते तव अध्ययनं सम्पन्नमित्यर्थः। सर्वविद्या निष्णातः त्वम् अधुना स्वगेहं गन्तुमर्हसि" इति।

यथाशक्ति गुरुदक्षिणां समर्प्य गुरुकुलान्निर्गतः मल्लिनाथः भरतखण्डस्य नैकान् विद्वत्तल्लजान् वादे पराजित्य "मल्लीनाथसूरिः" इति ख्यातिं महामहोपाध्यायः इत्युपाधिञ्च अविन्दत।

तेन पञ्चमहाकाव्यानां टीका, नैकाः स्वतन्त्रकृतयश्च विरचिताः। पञ्चमहाकाव्यानामध्ययनेप्सूनाम् मल्लिनाथस्य टीका अद्यत्वेऽपि वीथीदीपवत् विद्योतते।

✍🏻  महाबलभट्टः, गोवा

अद्य धारा निराधारा ...*

आत्मीयबान्धवाः,

संस्कृतकवीनां विषये अनेकाः कथाः अत्र तत्र श्रूयन्ते। तासाम् ऐतिहासिकमहत्त्वं न स्यात्। परन्तु संस्कृतपठने रुचिं जनयितुं ताः सफलाः भवन्ति । मध्येश्रावणं संस्कृतसप्ताहः आचर्यते। तन्निमित्तम् इयं लेखनमाला मासं यावत् प्रवर्तते। पठित्वा भवताम् अभिप्रायं कृपया सूचयन्तु।

संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला

संस्कृतसाहित्यप्रपञ्चस्य रसप्रसङ्गाः

🌷पुष्पम् - १

अद्य धारा निराधारा ...

कालिदासस्य नाम को वा न जानाति? कविकुलगुरुरिति ख्यातः अप्रतिमः शृङ्गारकविः सः। प्रत्युत्पन्नमतिः सः क्षणार्धे कवितां रचयितुं प्रभवति स्म। अयं भोजराजस्य सभायां कविरत्नपदभूषितः आसीदिति भोजप्रबन्धग्रन्थे उल्लेखः प्राप्यते।

भोजराजः स्वयं कविः, कवीनाम् आश्रयदाता च अवर्तत। कालिदासेन सह तस्य परममैत्री आसीत्। कदाचित् भोजराजस्य मनसि कश्चित् विचित्रः अभिलाषः समुत्पन्नः। स्वस्य मरणानन्तरं कालिदासस्य मुखात् चरमगीतं कथं निस्सरेदिति श्रोतुकामः कविराजं प्रार्थयत। परन्तु सरस्वत्याः वरपुत्रः कालिदासः स्ववचसां शक्तिं जानानः तथा कर्तुं सर्वथा निराकरोत्। तेन रुष्टः भोजः तं स्वराज्यात् बहिर्गन्तुम् आज्ञापयत्।

कालिदासरहिता भोजसभा चन्द्रहीना रजनीव कलाहीना अभवत्। महाराजोऽपि मित्रवियोगमसहमानः वेषान्तरं कृत्वा तदन्वेषणाय प्रस्थितः।

 बहुदिनानामन्वेषणानन्तरं कालिदासं मिलित्वा 'भोजराजः मृतः' इति अकथयत्।  तच्छ्रुत्वा अश्रुपूर्णनयनस्य कालिदासस्य वदनात् चरमगीतं निस्ससार ।

अद्य धारा निराधारा
निरालम्बा सरस्वती।
पण्डिताः खण्डिताः
सर्वे भोजराजे दिवङ्गते ।।

ऋषितुल्यस्य कविवरस्य वक्त्रात् पद्ये निसृते भोजराजः निश्चेष्टितः भूत्वा भूमौ पतितः। तं नृपतिं अभिज्ञाय दुःखितः कालिदासः पद्यं परिवर्त्य पुनरपि अपठत्।

अद्य धारा सदाधारा
सदालम्बा सरस्वती।
पण्डिताः मण्डिताः सर्वे
भोजराजे भुवङ्गते ।।

कालिदासस्य वाक्प्रभावात् भोजः मोहादिव उदतिष्ठत् । कविवरेण्यं समाश्लिष्य तेन सह धारानगरीं प्रपेदे ।

अद्वितीयः खलु कविकल्पद्रुमः कालिदासः।

✍🏻 महाबलभट्टः, गोवा

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...