*📜संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला✍*
*📚संस्कृत साहित्य प्रपञ्चस्य रसप्रसङ्गाः📖*
*पुष्पम् - १०*
राजा भर्तृहरिः स्वस्य शतकत्रयेण विश्वस्मिन् जगति विश्रुतः वर्तते। सः प्रसङ्गवशात् सिंहासनं परित्यज्य संन्यासं स्व्यकरोत्। रोचकोऽयं प्रसङ्गः।
एकस्मिन्नहनि कश्चन योगी दिव्यं फलमेकं राज्ञे प्रदाय "भवतः प्रीतिपात्राय एतत् ददातु" इत्यब्रवीत्।
नास्ति भार्यासमं मित्रमिति मन्यमानः महाराजः तत्फलं राज्ञ्यै प्राददात्। परन्तु तस्याः अन्यः कश्चन प्रियतरः आसीत्। सा फलं तस्मै अयच्छत्। सः विटस्तु स्वस्य प्रियतमायै अन्यस्यै तरुण्यै प्रादात्। सा तरुणी राज्ञि अनुरक्ता आसीत्। फलं पुनः महाराजस्य हस्तगतमभूत् !
प्रवृत्तं सर्वं विज्ञाय भूपतिः संसारात् निवृत्तिम् अकाङ्क्षत। निवृत्तिकारणं सः एवं न्यगदत् -
*यां चिन्तयामि सततं मयि सा विरक्ता*
*साऽप्यन्यमिच्छति जनं सः जनोऽन्यसक्तः।*
*अस्मत्कृते च परितुष्यति काचिदन्या*
*धिक् तां च तं च मदनञ्च इमां च मां च ।।*
वैराग्यमापन्नः भर्तृहरिः तुरीयाश्रममाश्रयत्।

No comments:
Post a Comment