Sunday, August 18, 2019

भोजनं देहि राजेन्द्र!

📃_संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_

*संस्कृतप्रपञ्चस्य रसप्रसङ्गाः।*

🌺पुष्पम् - १३

'कवयो हि मे प्राणाः' इति मन्यमानः भोजराजः विनूतनाम् अक्षरलक्षयोजनाम् उद्घोषितवान्। कश्चन कविः यदि कवितां रचयति तर्हि तत्रस्थस्य प्रत्येकस्य अक्षरस्य कृते एकलक्षसुवर्णनाणकानि प्राप्नोति स्म।

एतच्छ्रुत्वा बहवः काव्यरचनायोद्यताः। एकवारं कश्चन निर्धनः विद्वान् नृपकटाक्षापेक्षया कवितां रचयितुं प्रायतत।
*भोजनं देहि राजेन्द्र! घृतसूपसमन्वितम् ।*

सः अग्रे किं लेखनीयमिति अजानन् कालिदासमुपासरत्। कालिदासः तस्य पद्यस्य द्वितीयार्धमपूरयत्।

*भोजनं देहि राजेन्द्र! घृतसूपसमन्वितम् ।*
*माहिषञ्च शरच्चन्द्रचन्द्रिकाधवलं दधि!*

परेद्युः सः पण्डितः राजसभां गत्वा पद्यवाचनमकरोत्। भोजराजः तस्मै षोडशलक्षसुवर्णनाणकानि अयच्छत्। विस्मितः कविः 'हे राजन्! अनुष्टुभ् छन्दोयुक्ते पद्येस्मिन् द्वात्रिंशदक्षराणि किल?' इत्यपृच्छत्।

भोजराजस्तु हसन् 'षोडशाक्षराणि कालिदासस्य खलु' इत्युक्त्वा तं प्रैषयत्। प्रतिभातारतम्यं सम्यगेव व्यजानात् भोजराजः!

✍🏻 *महाबलभट्टः, गोवा*
📱9860060373

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...