Thursday, March 28, 2024

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्धषट्लक्षजनाः जातिमतपन्थवयांसि अतीत्य स्वातन्त्र्यप्राप्त्यर्थं प्राणार्पणम् अकुर्वन्। बालवयस्येव प्राणार्पणं कृतवत्सु नारायण धोनि अन्यतमः। 

’भारतं परित्यज्य गच्छत' इत्यान्दोलनस्य उच्छ्रायदिनानि तानि। त्रयोदशवर्षीयस्य तस्य मनसि स्वस्य देशस्य दास्यं शल्य इव वेदनां जनयति स्म। १९४५ तमवर्षस्य १५ दिनाङ्के तस्य हृदये किमपि भावजागरणम् । रात्रौ किमपि निश्चयं कृत्वा सुप्तः सः प्रभाते शीघ्रमुत्थाय श्वेतवस्त्रं धृतवान्। एकं वंशदण्डं स्वीकृत्य तदग्रे त्रिवर्णध्वजं संस्थाप्य मातरं प्रणतवान्। चकिता माता 'किमिदं वत्स! कुत्र प्रतिष्ठसे' इति अपृच्छत्। स तु उत्साहसम्पन्नेन ध्वनिना 'अम्ब! पार्श्वग्रामे दुर्गदबैल इत्यत्र स्वातन्त्र्यसङ्ग्रामः प्रचलति। अहमपि तत्र गत्वा ध्वजसञ्चलनं करोमि' इति अवदत्। सन्तुष्टापि भयकमपितस्वरेण माता उक्तवती यत् 'वत्स! त्वं तु बालः। सङ्ग्रामं ज्येष्ठाः प्रवर्तयन्ति। त्वं सुखेन क्रीडादिषु तत्परो भव' इति। 

तदाकर्ण्य सः वीरः बालः 'मातः! मातृभूमिः परसत्तायाम् अस्ति। कथं रमेत मे मनः क्रीडायाम्? नास्ति वयोमर्यादा देशसेवनकार्ये। अहं एतं ध्वजं उच्चैः कृत्वा सञ्चलामि।’ इत्युक्त्वा प्रस्थानं कृतवान् एव। 

बालस्य धीरता चलनस्य गाम्भीर्यञ्च ज्येष्ठानामपि स्पूर्तिदायके आस्ताम्। शोभायात्रायाः शोभाजनकं तमेव अग्रणीं कृत्वा सर्वे सञ्चलनम् आरब्धवन्तः। ”वन्दे मातरम्’ ”भारत माता कि जय’ इत्यादयः जयघोषाः गगने अनुरणिताः।  

आङ्ग्लानं सहनभित्तिः भग्ना। तेषां भुशुण्ड्यः गर्जनम् आरब्धवन्तः। जयघोषः हाहाकारत्वेन परिवर्तितः। एका गोलिका बालकस्य मृदुकायमपि प्राविशत्। जयघोषं कुर्वन्नेव सः धराशायी समभवत्। 

निस्तेजो भूत्वा पतितस्य तस्य मुखे कामपि इच्छां दृष्टवान् कश्चन आङ्ग्लाधिकारी तस्य निकटं गत्वा ’किमिच्छसि बाल?’ इति अपृच्छत्। ’स्वातन्त्र्यम् आवश्यकम्। ददाति किम्!” इति वेदनापूर्णध्वनिना परन्तु धीरभावेन इति वदन्नेव प्राणान् अत्यजत्। 

कर्णाटकप्रान्तस्य हुब्बल्लि इत्यत्र जन्म प्राप्तवान् नारायण महादेव धोनी नामकः आसीत् सः वीरबालः।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...