आत्मीयबान्धवाः,
संस्कृतकवीनां विषये अनेकाः कथाः अत्र तत्र श्रूयन्ते। तासाम् ऐतिहासिकमहत्त्वं न स्यात्। परन्तु संस्कृतपठने रुचिं जनयितुं ताः सफलाः भवन्ति । मध्येश्रावणं संस्कृतसप्ताहः आचर्यते। तन्निमित्तम् इयं लेखनमाला मासं यावत् प्रवर्तते। पठित्वा भवताम् अभिप्रायं कृपया सूचयन्तु।
संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला
संस्कृतसाहित्यप्रपञ्चस्य रसप्रसङ्गाः
🌷पुष्पम् - १
अद्य धारा निराधारा ...
कालिदासस्य नाम को वा न जानाति? कविकुलगुरुरिति ख्यातः अप्रतिमः शृङ्गारकविः सः। प्रत्युत्पन्नमतिः सः क्षणार्धे कवितां रचयितुं प्रभवति स्म। अयं भोजराजस्य सभायां कविरत्नपदभूषितः आसीदिति भोजप्रबन्धग्रन्थे उल्लेखः प्राप्यते।
भोजराजः स्वयं कविः, कवीनाम् आश्रयदाता च अवर्तत। कालिदासेन सह तस्य परममैत्री आसीत्। कदाचित् भोजराजस्य मनसि कश्चित् विचित्रः अभिलाषः समुत्पन्नः। स्वस्य मरणानन्तरं कालिदासस्य मुखात् चरमगीतं कथं निस्सरेदिति श्रोतुकामः कविराजं प्रार्थयत। परन्तु सरस्वत्याः वरपुत्रः कालिदासः स्ववचसां शक्तिं जानानः तथा कर्तुं सर्वथा निराकरोत्। तेन रुष्टः भोजः तं स्वराज्यात् बहिर्गन्तुम् आज्ञापयत्।
कालिदासरहिता भोजसभा चन्द्रहीना रजनीव कलाहीना अभवत्। महाराजोऽपि मित्रवियोगमसहमानः वेषान्तरं कृत्वा तदन्वेषणाय प्रस्थितः।
बहुदिनानामन्वेषणानन्तरं कालिदासं मिलित्वा 'भोजराजः मृतः' इति अकथयत्। तच्छ्रुत्वा अश्रुपूर्णनयनस्य कालिदासस्य वदनात् चरमगीतं निस्ससार ।
अद्य धारा निराधारा
निरालम्बा सरस्वती।
पण्डिताः खण्डिताः
सर्वे भोजराजे दिवङ्गते ।।
ऋषितुल्यस्य कविवरस्य वक्त्रात् पद्ये निसृते भोजराजः निश्चेष्टितः भूत्वा भूमौ पतितः। तं नृपतिं अभिज्ञाय दुःखितः कालिदासः पद्यं परिवर्त्य पुनरपि अपठत्।
अद्य धारा सदाधारा
सदालम्बा सरस्वती।
पण्डिताः मण्डिताः सर्वे
भोजराजे भुवङ्गते ।।
कालिदासस्य वाक्प्रभावात् भोजः मोहादिव उदतिष्ठत् । कविवरेण्यं समाश्लिष्य तेन सह धारानगरीं प्रपेदे ।
अद्वितीयः खलु कविकल्पद्रुमः कालिदासः।
✍🏻 महाबलभट्टः, गोवा

No comments:
Post a Comment