Tuesday, March 24, 2020

जाबाला



शूद्रकुले जन्म प्राप्य परगृहेषु दासी भूत्वा जीवनयापनं कृतवती ’जाबाला’ । दास्यजीवने सा नैकानां पुरुषाणाम् उपभोगवस्तु अभवत् । तन्मार्गे गर्भधारणं कृत्वा कञ्चन पुत्रमविन्दत । दासी सत्यपि सा विवेकमति, संस्कारवती च आसीत् । स्वपुत्राय उत्तमं संस्कारं प्राददात् । तस्याः पुत्रस्य नाम ’सत्यकामः’ इत्यासीत् । तेन सत्यसन्धेन, जीवनसत्यस्य गवेषकेण च भवितव्यमिति तस्याः आशा आसीत् । एकाकिनी भूत्वैव तस्य सम्यक् परिपालनम् अकरोत्।

पुत्रेण विद्यायुक्तेन भवितव्यमिति चिन्तयित्वा तं हरिद्रुममहर्षिपुत्रस्य गौतममुनेः गुरुकुलं प्रेषितवती । गुरुकुलप्रवेशार्थं गोत्रकथनम् अनिवार्यमासीत् । स्वस्य जनकः कः इत्येव अजानानः सत्यकामः गोत्रं कथं वा उच्चरेत् । तज्ञानार्थं सः आचार्येण प्रतिप्रेषितः ।

पुत्रे गोत्रविषये पृष्टवति जाबाला सन्दिग्धे पतिता । पुत्रस्य विद्यासम्पन्नतां कामयन्ती अपि ’किमपि अनृतम् उक्त्वा प्रेषयामि वा?’ इति न अचिन्तयत् । तावत्पर्यन्तं गृहीतं ऋजुमार्गं त्यक्तुं तस्या अन्तरात्मा नाङ्ग्यकरोत् । पुत्रेण सत्यसन्धेन भवितव्यमिति इच्छन्त्या असत्यमार्गगमनं श्रेयस्करं न इति दृढं निर्धारं कृतवती । ’वत्स! दास्यजीवनं यापयन्त्याः मम पुत्रस्य तव जनकः इति नाहं जाने । अहं ’जाबाला’ । त्वं सत्यकामजाबालः भवतु । तदेव तव गोत्रमिति कथयतु ’ इत्युक्त्वा पुत्रं पुनरपि गुरुकुलं प्रैषयत् ।

सत्यकामस्य मुखे सत्यस्य तेजः वीक्ष्य ’अयं शूद्रकुलोत्पन्नः अपि आचरात् ब्राह्मण एव’ इति विचिन्त्य आचार्येण तस्य स्वागतं कृतम् । सकलविद्यापारङ्गतेन भूत्वा सत्यकामजाबालेन गुरुकुलं स्थापितम् ।

अनानुकूलपरिस्थितौ अपि पुत्रं सुशीलं, सत्यशीलं, विद्याविनयसम्पन्नं कृत्वा पालितवती जाबाला सर्वेषां मातॄणां आदर्शरूपेण तिष्ठति । प्रायः सत्यकामः स्वनाम्ना मातृनाम मेलितवान् प्रथमः पुत्रः ।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...