Wednesday, March 25, 2020

शाण्डिली


सती शाण्डिली अनसूयायाः समकालीना । सहनशीलतया पातिव्रत्येन च सर्वमान्या आसीत् । तस्याः पतिः कौशिकनामा महादुष्टः ब्राह्मणः आसीत् । स्वस्य दुश्चरितानां कारणेन कुष्ठरोगपीडितः आसीत् । शाण्डिली निष्ठया तस्य सेवां करोति स्म । तस्य स्वपत्न्यां प्रीतिः आदरं वा नासीत् । निरन्तरं तां निन्दन् हिनस्ति स्म । सहनामूर्तिः शाण्डिली कदापि प्रतिवदति स्म ।

कदाचित् कौशिकः मार्गे चलन्तीं काञ्चित् वेश्यास्त्रियं वीक्ष्य तस्याः गृहं प्रति आत्मानं नेतुं पत्नीमादिशत् । तस्य कामनापूरणं स्वकर्तव्यमिति भावयन्ती शाण्डिली चलनशक्तिहीनं तम् उन्नीय स्वस्कन्धे निधाय वेश्यासद्ममार्गे अचलत् ।

तस्मिन्नेव मार्गे चोरशङ्कया माण्डव्यनामा मुनिः राज्ञा शूले आरोपितः आसीत् । शाण्डिल्याः स्कन्धारूढस्य कौशिकस्य पादः शूलारोपितम् अनिर्गतप्राणं माण्डव्यमुनिं पीडयामास । वेदनया क्रोधाविष्टः माण्डव्यः सूर्योदयसमये कौशिकस्य मरणं भवतु इति अशपत् ।

महर्षेः शापवचनं आकर्ण्य व्यग्रा शाण्डिली स्वतपोबलेन ’अद्य सूर्योदयः मा भवतु’ इति दिनकरगतिमेव अवरुद्धवती । सूर्यम् अपश्यतां जनानां हाहाकारः गगनमस्पृशत् । साध्व्याः सान्त्वनं अपरसाध्व्या एव शक्यमिति विचिन्त्य सुरपालमुख्यैः अनसूयादेवी प्रार्थिता ।

कौशिकस्य पुनर्जीवनाश्वासनं अनसूयादेव्याः प्राप्य शाण्डिली सूर्यनिग्रहं शिथिलीकृतवती । उदिते दिनकृति कौशिकः धराशायी सञ्जातः । परं अनसूयाकृपया जीवनदानं प्राप्य उदतिष्ठत् ।

सनातननार्यः असामान्यशक्तिसम्पन्नाः आसन् । कालचक्रमेव स्थगयितुं तासां शक्तिरासीत् । अत एव भणितं ब्रह्मवैवर्तकपुराणे –’सुराः सर्वे च मुनयो भीतास्ताभ्यश्च सन्ततम्’ इति ।

महाबलभट्टः, गोवा
९८६००६०३७३

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...