ऋग्वेदे वर्णितासु
धीरनारीषु प्रमुखा वर्तते महाराज्ञी शशीयसी । समाजोद्धारकार्ये रतानां महिलानां
प्रेरणास्थानमियम् । श्यावाश्वेन प्रणीते पञ्चममण्डलस्य ६१तमे सूक्ते अस्याः
वर्णनं वर्तते ।
एतस्याः पतिः तरन्तमहाराजः
दुर्व्यसनानां दासः भूत्वा राज्यं निर्लक्षितवान् । प्रजानां शिक्षणाभावात्
अज्ञानं दारिद्र्यं च नरीनृत्यन्ति स्म । जनानां मारणं चौर्यं इत्यादीनि
अपराधकार्याणि ताण्डवं कुर्वन्ति स्म । राज्यस्य कोशस्य व्ययः राज्ञः विलासार्थमेव
भवति स्म ।
उदारगुणसम्पन्ना,
मानवीयगुनोपेता राज्ञी शशीयसी जनान् जागरयितुं प्रायतत । मरुदः आहूय जनान्
शिक्षयितुं प्रार्थयत । जनान् सङ्घटय्य जागृतिमानेतुं यत्नमकरोत् ।
श्यावाश्वनामा कश्चन युवा
मरुद्भ्यः शिक्षणं प्राप्य महाराज्ञ्याः कार्यभारस्य कश्चनभागं स्वस्कन्धोपरि ऊढ्वा
शिक्षणक्रान्तौ सहयोगमयच्छत् ।
तरन्तेन एतेषां कार्याणां
विरोधः कृतः । परन्तु जागृताः शिक्षिताश्च जनाः आन्दोलनं कुर्युः इति भयेन
तूष्णीमतिष्ठत् । शशीयसी राज्यभारं स्वहस्ते स्वीकृत्य सम्यक् नियन्त्रितवती ।
श्यावाश्वाय अपारां गोसम्पत्तिम् अयच्छत् ।
श्यावाश्वः दार्भ्यस्य
कन्यां प्रीणाति स्म । परन्तु दार्भ्यः स्वकन्यां तस्मै दातुं नैच्छत् । शशीयसी
दार्भ्यस्य मनःपरिवर्तनं कारयित्वा श्यावाश्वस्य विवाहं न्यवर्तयत् ।
राज्ञ्याः कार्येण
सुप्रीतः यावाश्वः स्वप्रणीते सूक्ते तां बहुधा श्लाघयामास ।
No comments:
Post a Comment