इयं
काचित् स्वाभिमानिनी ऋषिका । अनया प्रणीते शचीपरके सूक्ते (ऋग्वेदः – मण्डलम् -१०;
सूक्तम् – १५९) तस्याः आत्मगौरवं, जीवनोत्साहः, आत्मविश्वासः इत्यादयः
असाधारणगुणाः सुव्यक्ताः । ’अहम् केतुरहं मूर्धा अहमुग्रा विवाचनी’ – अहं गृहस्य
ध्वजः, अहं मद्गेहस्य शिरः (मुख्या-बुद्धिमती), अन्यायस्य सम्मुखे उग्रा, अहं
विवेचनशक्तियुता इति तया अभिमानेन निगदितम् । ’मम निर्धारं मम भर्तापि सम्मानयति’
इति कथयन्त्याः तस्याः आत्मगौरवस्य पारमेव नास्ति ।
पुत्रास्तु
उत्तमा एव , परं दुहितारः नावराः इति स्पष्टतया सूक्तेऽस्मिन् तया भणितम् । ’मम
पुत्रा शत्रुहणोथो मम दुहिता विराट्’ इति गदन्ती सा नारीणामात्मस्थैर्यं
व्यवर्धयत् ।
’अहं
शत्रुहन्त्री । तस्मात् पतिरपि मां सम्मानयति’ इति तया सगर्वम् ईरितम् । ’त्यागः,
शान्तिः, सहनशीलता च नार्याः सहजगुणाः । परन्तु अन्यैः तेषां दुरुपयोगः न
करणीयः’ इति तस्याः आशयः । ’महिलया सर्वदाऽपि नतवदनया भवितव्यमिति नास्ति; तया
शिरः उन्नीय समाजे गौरवमवाप्तव्यमिति पौलोम्या प्रत्यपाद्यत ।
स्त्रीणां
स्वाभिमानजागृतिं कृतवतीषु ऋषिकासु शचीपौलोमी अन्यतमा । वैदिकसम्प्रदाये
उद्वाहात्पूर्वं वध्वा शचीपूजां कारयन्ति । तस्मिन्नवसरे इदं सूक्तं पठ्यते । वधूः
पतिगृहे स्वाभिमानेन जीवनं यापयेदिति आशयः तत्रास्ति । पूजनसमये वधूः अस्मिन्विषये
बोध्यते चेत् तस्याः आत्मस्थैर्यं वर्धेत ।
No comments:
Post a Comment