विश्वावसुमहाराजस्य
तनया मदालसा सर्वविद्यासम्पन्ना कन्या आसीत् । संसारपाशैः अत्मानं बद्धुम् नेच्छन्ती
स्वतन्त्रतया ज्ञानविज्ञानानुसन्धानं कर्तुम् अभिलषति स्म । ब्रह्मवादिन्या
भवितव्यमिति तस्याः तीव्रतरेच्छा अवर्तत । पत्युः इच्छानुसारं पत्नी व्यवहरेदिति विचारः
नैव साधुः , गृहस्थाश्रमप्रयोगशालायां गृहिण्यै सम्पूर्णं स्वातन्त्र्यं भवेदिति च
तस्याः प्रतिपादनमासीत् ।
सुदैवात्
महाराजस्य शत्रुजितः पुत्रः ऋतध्वजः तस्याः आशयम् अङ्गीकृत्य स्वस्य गृहस्थजीवनं
मदालसायाः हस्ते समर्पयितुं सज्जोऽभवत् । मदालसा तस्य प्रस्तावं स्वीकृत्य
भाविसन्ततिं तस्याः इच्छानुसारं वर्धयितुं अङ्गीकारम् अवाप्नोत् ।
कालक्रमेण
तयोः मधुरदाम्पत्ये त्रयः पुत्राः जनिमलभन्त । ऋतध्वजः तेभ्यः विक्रान्तः,
सुबाहुः, शत्रुमर्दनश्चेति क्षत्रियोचितनामानि प्राददात् । नामकरणावसरे स्मितं
हसन्ती मदालसाब्रवीत् – ’नराः स्वनामसार्थक्यं भजन्ते एव इति नास्ति’ । तस्याः
वचसः अर्थः कालान्तरे ऋतध्वजेन अवगतम् ।
ब्रह्मवेत्री
मदालसा बालान् आन्दोलिकायां संस्थाप्य निद्रापनावसरे ब्रह्मतत्त्वमेव लालनगीतरूपेण
अगायत् ।
नित्योऽसि बुद्धोऽसि निरञ्जनोऽसि
संसारमायापरिवर्जितोऽसि ।
संसारस्वप्नं त्यज मोहनिद्रां
न जन्ममृत्यू तत्सत्स्वरूपे ॥
ईदृशतत्त्वगानमेव आकर्णयन्तः बालाः
ब्रह्मजिज्ञासवः समभवन् । आत्मजान् वैराग्यशालिनः दृष्ट्वा ऋतध्वजः चिन्ताकुलः
सञ्जातः । सर्वैः सुतैः संन्यासिभिः भूयते चेत् वंशोद्धारः कथमिति व्याकुलमनाः
अभवत् । चतुर्थसुतं इहलोकासक्तं कर्तुं मदालसां प्रार्थयत । तन्निवेदनं पुरस्कृत्य
मदालसा चतुर्थसूनुं अलर्कनामानं वीरगाथाभिः अलालयत् । तं राजनीतिनिपुणं
युद्धविद्याविशारदञ्च अकरोत् । इहजीवनं निरुह्य तत्पश्चात् सन्यासाश्रमप्रवेशाय तं
प्राबोधयत् । सः नैकानि वर्षाणि प्रजापालनं कृत्वा दत्तात्रेयवरप्रसादात्
आत्मोन्नतिमविन्दत ।
ध्येयनिष्ठता-स्वाभिमान-आत्मविश्वासानां
मूर्तिरूपा मदालसा साधनापथे जिगमिषूणां नारीणां पथदर्शिका वर्तते ।
No comments:
Post a Comment