Sunday, March 29, 2020

इतरा

हारीतवंशस्य माण्डुकीमुनेः कलत्रमासीत् इतरा । अनधीतविद्या सा मुग्धस्वभावयुक्ता अविद्यत । किन्तु गृहणीधर्मं संस्कारादिविचारान् सम्यगजानात् । गृहकृत्यं श्रद्धया करोति स्म । पतिपत्न्यौ परस्परम् अनुव्रतौ सुखजीवने निमग्नौ आस्ताम् ।

तयोः दाम्पत्यफलरूपेण प्राप्तजनिः पुत्रः महीदासः इति आहूतः । सः सदापि मौनं तिष्ठति स्म । उपनीतस्यापि तस्य मुखात् ’ॐ ॐ नमो भगवते वासुदेवाय’ इति द्वादशाक्षरिमन्त्रं विहाय न किमपि अक्षरं निर्गतम् । न किञ्चित् अध्ययनं तेन कृतम् । तस्मात् जुगुप्सितः माण्डुकी तस्य जनयित्र्याः इतरायाः विषयेऽपि अनादरं दर्शयामास । परन्तु इतरा स्वपुत्रे संस्कारबीजानि उप्त्वा तं सदाचारसम्पन्नमकरोत् ।

कालक्रमेण माण्डुकी पिङ्गलानाम्नीं अपरां कन्याम् उद्वहत् । तस्यां प्राप्तजन्मानः चत्वारः कुमाराः वेदविद्यासम्पन्नाः समभवन् । इतरामहीदासयोः विषये मुनेः अनादरः व्यवर्धत । अवमाननम् असहमानौ मातापुत्रौ गृहं परित्यक्तवन्तौ ।

अविरतं द्वादशाक्षरिमन्त्रपठनं कुर्वता महीदासेन विष्णोः साक्षात्कारः प्राप्तः । भगवदनुग्रहेण वचोविलासं सम्प्राप्य गुरुकुले अध्ययनं चकार । गुरोः मार्गदर्शनेन विदविद्यामधिगत्य ऋग्वेदभाष्यमलिखत् । यज्ञादिश्रौतकर्माणि निरूपयन्तं ब्राह्मणग्रन्थं रचयामास । तदाधारेण हरिमेध्यनृपद्वारा यज्ञम् अकारयत् । यागान्ते भूपतिः भूसुराय स्वपुत्रीमयच्छत् ।

महीदासेन रचितं ब्राह्मणं जनाः महीदासब्राह्मणम् इति आकारयन् । परमापत्सु भर्तारमपि विरुध्य अविचलचित्तेन संस्कारान् प्रदाय पुत्रं विवर्धितवत्याः  मातुः गौरवार्थं सः ग्रन्थः तस्याः नाम्नैव प्रसिद्धः भवतु इति महीदासः मनोरथं प्रकटायामास। अतः सः ग्रन्थः ऐतरेयब्राह्मणमिति विश्रुतः जातः । अग्रे इयमेव ज्ञानराशिः एतरेयब्राह्मणम्, एतरेयारण्यकम्, ऐतरेयोपनिषत् इति त्रिधा विभक्ता ।


पुत्रेण स्वाभिमानिन्यै, वात्सल्यमय्यै, त्यागगुणोपेतायै सार्थकं गौरवं प्रदत्तम् । इतरायाः नाम अजरामरमभवत् ।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...