Monday, March 30, 2020

सुकन्या


मनुवंशजः शर्यातनामा राजा भरतखण्डं परिपालयति स्म । तस्य कुमारी सुकन्या । सा सुरूपा संस्कारयुता विद्यासम्पन्ना च अवर्तत ।

रसविद्यानुसन्धाता च्यवननामा महर्षिः गतयौवनं प्रतिप्राप्तुं प्रयत्नरतः आसीत् । तदर्थं तपोनिरतं तं वल्मीकः आवृणोत्।

तस्मिन्नेव काले राजा शर्यातः सपरिवारं मृगयार्थं तत्र उपस्थाय समीपे कुटिरमरचयत् । सुकन्यापि पित्रा सह आगता आसीत् । पुष्पाहरणार्थं इतस्ततः अटन्ती सा वल्मीके रत्नद्वयं दीप्यमानं अपश्यत् । कौतुकेन तीक्ष्णया शलाकया च्यवनस्य चकासमाने चक्षुषी अघातयत् । वल्मीकात् रुधिरप्रवाहः निसृतः।

राज्ञः वसतौ आश्चर्यकरघटनाः घटिताः। सर्वे विनाकारणं परस्परं कलहम् आरभन्त । उच्चस्वरेण गर्जितुमारब्धवन्तः। प्रवर्तमानं कोलाहलं वीक्ष्य राजा विस्मितोऽभूत् । सुकन्यया च्यवनाय दत्तं पीडनं मन्त्रिणः व्यवृण्वन् । राजा सपदि तत्र धावित्वा च्यवनमपश्यत्। तस्य पादयोः पतित्वा क्षमाम् अयाचत। आपतितस्य कष्टस्य निवारणार्थं प्रार्थयत । 

च्यवनस्य दृष्टिः सुकन्योपरि पतिता । ’भवत्पुत्री मह्यं दीयते चेत् कष्टं परिहरामि’ इति सोऽब्रवीत्। अनन्यगतिकः राजा दिग्भ्रान्त्या पुत्र्याः वदनमैक्षत् । पश्चात्तापदग्धहृदया सुकन्या प्रस्तावम् अङ्गीचकार। दैवं वा स्वापराधो वा तां वृद्धस्य भार्यामकरोत् । श्रद्धया पतिसेवायामरमत ।

एकदा देववैद्यौ अश्विनीकुमारौ दम्पती अपश्यताम् । वृद्धः पतिः, तरुणी रूपवती च भार्या । अश्विनौ सुकन्यायाः निकटम् आगत्य ताभ्यां सह देवलोकगमनाय आह्वयन् । परन्तु यमलयोः रूपेण अनाकृष्टचित्ता पतिव्रता सुकन्या तौ भर्त्सयित्वा प्रैषयत् ।

एनां घटनां ज्ञात्वा तपोनिधिः च्यवनः हर्षेण सुकन्यामभ्यनन्दत् । ’यदि तयोः पुनरागनं भविष्यति तर्हि एवं ब्रूहि’ इति किञ्चित् रहस्यं तस्यै अकथयत् ।

परेद्यवि पुनः देवभिषजोः आगमनं जातम् । तदा सुकन्या तौ अभाषत – ’मम पतिः भवतोः श्रेयान्। नास्ति यज्ञेषु भवद्भ्यां हविर्भागः। देवताः भवन्तौ गणाद्बहिः अक्षिपन् । परं मत्पतिः भवद्भ्यां च्युतविभवं दापयितुं समर्थः। भवन्तौ अपि सोमरसं लप्स्येते’ इति ।

प्राप्ताशौ यमलौ च्यवनं प्रणम्य तयोः कष्टनिवारणार्थं प्रार्थितवन्तौ । च्यवनस्तु सुवर्णसन्धिं प्राप्य ’मम वार्धकं अपनीय यौवनं पुनः अनुस्थाप्यते चेत् भवतोः समस्यामहं निवारयिष्यामि’ इति प्रस्तावम् उपास्थापयत् । सोमरसपिपासू भिषग्वरौ तदङ्गीकृतवन्तौ ।

सरस्वतीनद्यां स्नात्वा च्यवनः नवयौवनमवाप्नोत् । सुकन्यायाः पतिनिष्ठा सफला जाता । सम्प्राप्तयौवनेन च्यवनेन सह सानन्दं जीवनयात्राम् अन्ववर्तयत् ।

कदाचित् च्यवनाश्रममागतः शर्यातः स्वपुत्रीं कस्यचिद्युवकेन सह रममाणां वीक्ष्य क्रुद्धः जातः। अनन्तरं वस्तुस्थितिं विज्ञाय हर्षितोऽभूत्।

महाराजः शर्यातः सुकन्यायाः निर्देशानुसारं सोमयागं कृत्वा सुरचिकित्सकाभ्यां सोमरसमर्पयत्। तेन रुष्टः सुधर्माधिपतिः च्यवनं वज्रेण प्रहर्तुमुद्यतः। परन्तु च्यवनस्य तपःशक्त्या तस्य करः स्तब्धः। ततः च्यवनस्य निर्देशानुसारं अश्विनाभ्यां सोमरसं दातुं स्वर्गाधिपः अङ्ग्यकरोत् । एवम् च्यवनस्य समयपूरणं सञ्जातम्।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...