देवगुरोः बृहस्पतेः सोदरः उच्यथः।
तस्य पत्नी ममता विद्याविनयपरिपूर्णा, रूपयौवनसम्पन्ना च आसीत्।
कदाचित् बृहस्पतेः कामदृष्टिः गर्भवत्याः
तस्याः उपरि पतिता । भ्रातृपत्नी मातृसमा* इत्युक्तिं विस्मृत्य भयं विना, लज्जया विना तस्याः अवस्थामपि अवगणय्य कामक्रीडार्थं आह्वयत्। ममता
दिग्भ्रान्ता। तं बहुधा उपादिशत्, नाशृणोत्; कामेन बधिरः आसीत् । बद्धहस्ता न्यवेदयत्,
नापश्यत् ; कामान्धः आसीत् । हरिण्याः उपरि सिंह इव तस्याः उपरि आक्रमणमकरोत्। परन्तु
तस्याः गर्भः अन्तरायमजनयत्। कामात् क्रोधोऽभिजायते खलु। क्रोधाविष्टः गर्भस्थं
शिशुम् ’जन्मान्धो भव’ इति अशपत्। ममता अक्रन्दत्। अनपराद्धस्य शिशोः कृते ईदृशी
शिक्षा!
प्राप्तजनिः शिशुः सुन्दरः परन्तु दृष्टिहीनः
आसीत्। ममतामयी ममता एव तस्य दृष्टिः समभवत्। संस्कारप्रदानेन तस्य अन्तर्दृष्टिम्
उदघाटयत्। सः श्रुतिकालः आसीत्। अध्ययनार्थं श्रोत्रं अपेक्ष्यतेतराम्। अतः चक्षुर्हीनस्यापि
बालस्य श्रुत्यनुसन्धानं निरातङ्कं प्रावर्तत। मातुः निरन्तरप्रोत्साहेन, कठिनतपसा
च दृष्टिहीनः वेदद्रष्टा अभवत्। स एव दीर्घतमाः इति नाम्ना प्रथितयशाः जातः।
विकलचेतनशिशोः जनयित्री पालयित्री
च ममता जगतः सर्वासां मातॄणां प्रेरणास्थानं वर्तते।
*(मित्रपत्नी गुरोर्पत्नी भ्रातृपत्नी तथैव च। पत्नीमाता स्वमाता च पञ्चैते मातरः स्मृताः॥)
No comments:
Post a Comment