Wednesday, April 1, 2020

सावित्री


सावित्रीसत्यवतोः चरितं को वा न जानाति? मृत्युमेव जितवती सावित्री धैर्यशालिनीषु अङ्गनासु अग्रगण्या वर्तते ।

मद्रदेशाधिपतेः अश्वपतेः आत्मजा एषा । सकाले अर्जिता विद्या रूपयौवनधनेषु सत्स्वपि एनां विनयशीलामकरोत्। तस्यै योग्यवरस्य अन्वेषणं कष्टकरमासीत्। पितुः आज्ञया वरान्वेषणार्थं स्वयं प्रस्थिता सावित्री नैकान् राजर्षीन्, राजपुत्रान् च स्वविद्वन्निकषेण परीक्षितवती।

शाल्वदेशस्य द्युमत्सेनपुत्रः सत्यवान् सद्विद्यागुणशीलैः सावित्र्याः चित्तमपाहरत्। तस्य बाल्ये वयसि पितुः वयोसहजदृष्टिहीनतायाः लाभं स्वीकृत्य शत्रवः राज्यमपाहरन् । तस्य राज्यहीनता वा निर्धनता वा तस्य वरणे प्रतिबन्धिका इति सावित्री नाचिन्तयत्। सत्यवतः सात्त्विकतायै नतमस्तका जाता ।

अश्वपतिना विरोधः न कृतः। परन्तु यदा देवर्षिः नारदः समागत्य सत्यवतः अवशिष्टम् आयुः केवलं एकवर्षपरिमितमिति अभणत् तदा निर्धारं परिवर्तयितुं पुत्रीं न्यवेदयत्। किन्तु ’सकृत् कन्या प्रदीयते’ इति स्मृत्युक्तिं अनुसृत्य तया पितुर्वचनं सप्रश्रयं निराकृतम्।

विवाहः सम्पन्नः। दम्पती एकवर्षं हर्षेण यापितवन्तौ। ’सः’ दिवसः समायातः। काष्ठाहरणार्थं काननं प्रति प्रस्थितं भर्तारं सावित्री अन्वसरत्।

’सः’ क्षणः अपि आसन्नः। सावित्र्याः अङ्के उत्तमाङ्गं संस्थाप्य शयानस्य सत्यवतः देहः निश्चेष्टितः जातः। तस्य प्राणहरणार्थं समागतः मृत्युदेवः साध्व्याः सावित्र्याः सान्निध्ये सत्यवन्तं उपसर्प्तुम् अशक्तः जातः। तस्य कर्तव्यं निर्वोढुं सावित्र्याः अनुज्ञां प्रार्थितवान्।

सावित्री दण्डधरं प्रणम्य तेन सह संवादम् आरभत। तस्याः युक्तियुक्तानि वचांसि आकर्ण्य प्रभावितः धर्मरायः ’तव भर्तुः प्राणेभ्यः ऋते यत्किमपि याचस्व, दास्यामि’ इति वरप्रदानमकरोत्।

चतुरमती सावित्री सन्तानशतस्य वरम् अयाचत। अन्तकः ’तथास्तु’ इत्यब्रवीत्।  
पतिव्रता नारी पत्या विना कथं पुत्रवती भवेत्। कालः एव सावित्र्याः वाग्जाले पतितः। सत्यवतः असुदानं अन्तकाय अनिवार्यमभवत्।

दुरितमेव सोपानं कृत्वा भर्तुः प्राणान् संरक्ष्य उभयकुलदीपयित्री सञ्जाता सावित्री अजरामरकीर्तिमती बभूव।

No comments:

ನಾರೀವಿಧೇಯರು - ರಾಮ (ಉತ್ತರರಾಮಚರಿತಮ್)

ಭವಭೂತಿಯ ’ಉತ್ತರರಾಮಚರಿತಮ್’ ಕರುಣರಸಪೂರ್ಣವಾದ ನಾಟಕ. ಅದರ ನಾಯಕ ರಾಮ, ನಾಯಿಕೆ ಸೀತೆ. ರಾಮನಿಗೆ ಸೀತೆಯಲ್ಲಿರುವ ನಿರ್ವ್ಯಾಜ ಪ್ರೇಮ  ಈ ನಾಟಕದಲ್ಲಿ ಸುವ್ಯಕ್ತವಾಗಿದೆ. ರ...