Sunday, March 22, 2020

इन्द्रसेना



ऋग्वेदस्य दशममण्डलस्य दशमसूक्ते उल्लिखिता अपरा वीरयोधा इन्द्रसेना । नलायनी मुद्गलानी इति अपरनामन्यपि एतस्याः आसीत् । विख्यातस्य नलमहाराजस्य पुत्रीयम् । अश्वहृदयज्ञात् नलमहाराजात् सारथ्यविद्यामधिगतवती । अस्त्रशस्त्रकौशलमपि आत्मसात् कृतवती । एषा भर्म्यश्वभूपालस्य कुमारं मुद्गलं अवृणोत् । अपारगोसम्पदः स्वामिनः मुद्गलस्य धेनून् कदाचित् तस्कराः अपहृतवन्तः। तेषाम् गृहणार्थं मुद्गलः प्रस्थितः। तदा इन्द्रसेना एव तस्य सारथ्यं निरूढवती । किञ्चित्कालं यावत् उत्तमतया सारथ्यं ऊढ्वा पश्चात् सेनापतित्वं स्वीकृत्य शौर्येण अयुध्यत ।

महाबलभट्टः, गोवा
९८६००६०३७३

No comments:

ಸ್ನೇಹ-ಸ್ಪರ್ಧೆ

  ’ನಿನ್ನ ಲಿಟರರಿ ಕ್ರಿಟಿಸಿಸಮ್ ನೋಟ್ಸ್ ಕೊಡ್ತಿಯಾ? ಝೆರೊಕ್ಸ್ ಮಾಡಿಸಿಕೊಳ್ಳುತ್ತೇನೆ’ ಸಹಾಧ್ಯಾಯಿನಿ ಸುನೀತಾ ಹೀಗೆ ಕೇಳಿದಾಗ ಸುಜಯನಿಗೆ ಆಶ್ಚರ್ಯ. ಅವರಿಬ್ಬರೂ ಮಾನಸ ಗ...