देवहूतिकर्दमयोः पुत्री अनसूया आसूयादिदुर्गुणरहिता साध्वीमणिरासीत् । मातुः सकलकन्यासंस्कारान् सम्प्राप्य ब्रह्ममानसपुत्रं सप्तर्षिषु अन्यतमम् अत्रिमहर्षिम् अवृणोत्।
पत्युः धार्मिककार्येषु अध्यात्मसाधनायाञ्च सहकारिणी, अतिथिसत्कारादीनि गृहिणीकर्माणि विना लोपं पालयन्ती अनसूया लोकत्रयेऽपि गौरवापन्ना अवर्तत।
कदाचित् नारदवर्णितं तस्याः गरिमाणम् आकर्ण्य असूयासन्तप्तहृदयाः त्रिमूर्तिपत्न्यः अनसूयायाः सत्त्वपरीक्षणार्थं निश्चयं चक्रुः।
ताभिः प्रेरिताः ब्रह्मविष्णुमहेश्वराः संन्यासिवेषं धृत्वा आश्रमम् प्राविशन्। पत्युः अनुपस्थितौ अनसूया अतिथिसत्कारं न्यवर्तयत्। भोजनपरिवेषणं विवस्त्रया करणीयमिति सा तैः निवेदिता। धर्मसङकटपतिताऽपि अनसूया धृतिमविहाय मन्त्रजलप्रोक्षणेन तान् प्रत्यग्रप्रसूतानिव शिशून् अकरोत्।
मातृभावपूरितहृदया सा तान् स्तन्यम् अपाययत्। दुर्धरप्रसङ्गमपि स्ववैचक्षण्येन सम्मुखीकृत्य त्रिमूर्तिमाता समभवत्।
त्रिमूर्तिभार्याः भर्तॄन् अन्विष्यन्त्यः अनसूयाश्रमं समाययुः। आन्दोलिकायां क्रीडतः शिशून् विलोक्य नारदवर्णितं मुनिपत्न्याः महिमानम् अवगतवत्यः। तां शरणं गत्वा दीनतया पतिभिक्षामयाचन् । स्वरूपं प्राप्तवन्तः ब्रह्माविष्णुमहेश्वराः क्रमेण चन्द्रं, दत्तं, दूर्वाससं च पुत्ररूपेणानुग्रह्य निजलोकान् ययुः।
कौशिकनामा कुष्ठरोगपीडितः गृहस्थः माण्डव्यमुनिना 'सूर्योदयात् पूर्वं मरणं प्राप्नोतु' इति शप्तः आसीत्। तदाकर्ण्य तत्पत्नी शाण्डिली स्वशक्त्या सूर्यास्तमेव अवरुद्धवती। तेन जगद्व्यापारमेव स्थगितम्। तत्समये अनसूया तत्रोपस्थाय स्वबलेन कौशिकं शापमुक्तं कृत्वा दिनकराय स्वातन्त्र्यं अदापयत्।
अत्रिमुनेराश्रमः चित्रकूटे आसीत्। वनवासार्थं तत्र समागतौ सलक्ष्मणौ सीतारामौ अनसूयादेव्याः दर्शनं कृतवन्तौ। तदा अनसूया सीतायै गृहिणीधर्ममबोधयत्। सौन्दर्यवर्धकमूलिकाः अपि तस्यै प्रादादिति रामायणे उल्लेखः दृश्यते।
चित्रकूटे यदा दुर्भिक्षः अभवत् तदा अनसूया स्वप्रभावेण मन्दाकिनीप्रवाहं तत्र समानीय जनानां कष्टं पर्यहरत्।
विवेकः, सहनशीलता, वात्सल्यं, धृतिः इत्यादिभिः सद्गुणैः नारीणामादर्शरूपेण तिष्ठति अनसूयादेवी।
एतादृशीः नारीः परिगणय्य एव ब्रह्मवैवर्तकपुराणे उक्तमस्ति __
पृथिव्यां यानि तीर्थानि सतीपादेषु तान्यपि ।
तेजश्च सर्वदेवानां मुनीनां च सतीषु च ।।
महाबलभट्टः, गोवा
9860060373
No comments:
Post a Comment