स्वायम्भुशतरूपयोः तिसृषु पुत्रिषु अन्यतमा देवहूतिः । कर्दममहर्षेः गुणसम्पन्नतां देवर्षेः नारदात् निशम्य तमेव पतिरूपेण वरयितुं निर्धारमकरोत् । पृथिव्याः आद्यपार्थिवस्य पुत्री सत्यपि भोगजीवनं तिरस्कृत्य तपोधनं महिर्षिं अवृणोत् । सा स्वयं पितृभ्यां सह कर्दममुनेराश्रमं गतवती । प्राचीनकाले स्त्रीणां स्वातन्त्र्यस्य निदर्शनमेतत् ।
उद्वाहानन्तरं कर्दमः तस्याः सन्तोषार्थं दिव्यं विमानं निर्माय लोकान्तरेषु विहारमकरोत् । परन्तु भोगेऽनासक्तहृदया देवहूतिः तपसि मतिं व्यदधात् । जीवनस्य बहुभागं तपाचरणे व्ययित्वाऽपि सा कला, अनसूया, अरुन्धती, श्रद्धा, हविर्भूगतिः, क्रिया, शान्तिः, ख्यातिः, गतिः इति नवकन्यानां माताऽभवत्। ताभ्यः उत्तमं संस्कारं प्रदाय उत्कृष्टव्यक्तित्वनिर्माणमकरोत् ।
कन्याजननसमनन्तरं तपश्चर्यार्थं प्रस्थितं कर्दमं पितृकर्तव्यविषये अबोधयत् । तस्याः तार्किकोपदेशेन समाहितचित्तः कर्दमः संसारजीवनमन्ववर्तयत् । कालान्तरे तस्याः ’कपिल’ नामा पुत्रोऽजायत । श्रीहरिरेव कपिलरूपेण धरणीमवातरत् इति तुलसीदासवर्येण रामचरितमानसग्रन्थे कीर्तितम् ।
देवहूतिर्मनोः कन्या
कर्दममुनेः प्रेमसम्पन्ना ।
आदिदेवः प्रभुर्दीनदयालुः
उदरेऽजनि कपिलकृपालुः ।। (भावानुवादः)
देवहूतिः अन्त्यकाले पुत्रादेव आत्मज्ञानं सम्प्राप्य सायुज्यमगच्छत् ।
✍️ महाबलभट्टः, गोवा
९८६००६०३७३
No comments:
Post a Comment