*विश्वनारीदिननिमित्तं विशिष्टा लेखनमाला*
_सनातनभारतस्य स्त्रीरत्नानि_
*मानवमाता शतरूपा*
मानवानां मूलपुरुषः मनुः इति कथ्यते । चतुर्दशमनुषु ज्येष्ठः स्वायम्भुमनुः । तस्य पत्नी शतरूपा । मानवानां समेषां मातेयम् । ब्रह्माण्डपुराणानुसारं सृष्टेः प्रथमा स्त्री एषा । ब्रह्मणः वामभागतः समुत्पन्नेति उल्लेखः वर्तते ।
एषा दक्षिणभागतः उद्भूतं स्वायम्भुमनुं भर्तारम् अङ्गीकृत्य ब्रह्मणः सृष्टिकार्यम् अन्ववर्तयत् । प्रियव्रतः, उत्तानपादः इत्यादीनां सप्तपुत्राणां आकूतिः, प्रसूतिः देवहूतिश्चेति तिसॄणां पुत्रीणाञ्च जन्मदात्री समभवत् ।
विवाहात् पूर्वमियं कठिनतरां तपस्यां समाचरत् । तत्पुण्येनैव सृष्टेः प्रथमं पुरुषं स्वायम्भुमनुं पतिरूपेण प्राप्नोत् । स्वायम्भुशास्त्रे नार्योऽपि समानदायभागिन्यःख इति प्रतिपादितमिति उल्लेखनीयः विषयः ।
दृढसङ्कल्पस्य भगवद्भक्तेश्च प्रतीकरूपः ध्रुवः अस्याः पौत्रः । ध्रुवकुमारे संस्कारबीजवपनमनयैव विधत्तम् । पत्यनुकूला, श्रेष्ठसन्तानमती, महातपस्विनी शतरूपा नारीणाम् आदर्शभूता विद्योतते ।
✍🏻 *महाबलभट्ट:, गोवा*

No comments:
Post a Comment