ब्रह्ममानसपुत्री सन्ध्या दूरदृष्टियुता विवेकमती च आसीत् । चन्द्रभागपर्वतस्य बृहल्लोहितसरसः निकटे तपश्चरणापेक्षया कस्यचित् सद्गुरोः प्रतीक्षायाम् अवर्तत ।
कदाचित् तत्र समागतः वसिष्ठमहर्षिः तस्यै ’ॐ नमो भगवते वासुदेवाय’ इति द्वादशाक्षरमन्त्रोपदेशम् अकरोत् । तपसः पद्धतिमपि तस्मादेव ज्ञात्वा सा महत् तपः समाचरत् ।
तस्याः तपसा सन्तुष्टे श्रीहरौ प्रत्यक्षे सति सा वरत्रयमयाचत । प्रथमं तावत् लोककल्याणार्थं याचनामकरोत् । ’भूमौ जातस्य जीविनः जन्मना एव कामविकारः न भूयात्’ इति तस्याः याच्ञा आसीत् । तदङ्गीकृत्य परमात्मा बाल्यं, कौमार्यं, यौवनं वार्धकमिति अवस्थाचतुष्टयं सृष्ट्वा तृतीयावस्थायामेव कामभावस्य प्रादुर्भावः भवत्विति अन्वगृह्णत् । अत्रैव सन्ध्याकुमार्याः दूरदृष्टिः विद्योतते। मनसः विकासात्पूर्वमेव कामभावस्य उत्पत्त्या अपराधप्रकरणानि आधिक्येन भवेयुरिति तस्याः चिन्तनमासीत् ।
द्वितीयवररूपेण अखण्डं सतीत्वं प्राप्नोत् । तृतीयवरेण ’पतिं विहाय अन्यः कोऽपि यदि तां कामभावनया पश्यति तर्हि सः नपुंसकः भवतु’ इत्यनुग्रहं प्राप्तवती । परस्त्रियं कामभावनया वीक्षमाणाः पुरुषत्वनाशशिक्षार्हाः इति तया तत्समये एव सूचितम् । नारीबलवर्धनस्य आद्या प्रतिपादिका इयं धीरकन्या इति वक्तुं शक्यते ।
महाविष्णोः आदेशानुसारं वसिष्ठमेव भर्तृरूपेण वरयितुं इष्ट्वा मेदाथिनः होमाग्निं प्राविशत् । तस्याः भौतिकदेहं द्विधा विभज्य दिनकरः प्रातःसन्ध्यां सायं सन्ध्यां च असृजत् ।
सन्ध्याकुमारी अरुन्धतीति नाम्ना पुनर्जन्म प्राप्य वसिष्ठं पतिरूपेणाविन्दत ।
✍🏻 महाबलभट्टः, गोवा
📱9860060373
No comments:
Post a Comment