Tuesday, March 17, 2020

अपाला

वेदद्रष्ट्रीषु ऋषिकासु अग्रगण्या अपाला ।

एतस्याः जीवनं तु अत्यन्तं कष्टमयम् आसीत् ।

पूर्वसञ्चितकर्मणः फलरूपेण वा विवाहानन्तरं चर्मव्याधिपीडिता समभवत् ।

गृहीतपाणिः पतिः संसारसागरमध्ये करम् अमुञ्चत् ।

पितृगृहमेव आश्रित्य जीवनयापनं तया कृतम् ।
तस्याः जनकः तां प्रेम्णा अपालयत् ।
तस्य प्रेरणया आत्मस्थैर्येण कष्टं सम्मुखीकृतवती ।
प्रियं जन्मदं खल्वाटं जायमानं दृष्ट्वा विषण्णतया वेदमन्त्रैः इन्द्रस्तुतिं चकार ।
तया  रचिते ऋग्वेदस्य अष्टममण्डलस्य एकनवतितमे सूक्ते सप्त ऋचः सन्ति ।

इन्द्रः तस्याः मनीषां सफलां कृत्वा तस्यै अपि आरोग्यम् अददात् । ।

महाबलभट्टः, गोवा
९८६००६०३७३

No comments:

ಸ್ನೇಹ-ಸ್ಪರ್ಧೆ

  ’ನಿನ್ನ ಲಿಟರರಿ ಕ್ರಿಟಿಸಿಸಮ್ ನೋಟ್ಸ್ ಕೊಡ್ತಿಯಾ? ಝೆರೊಕ್ಸ್ ಮಾಡಿಸಿಕೊಳ್ಳುತ್ತೇನೆ’ ಸಹಾಧ್ಯಾಯಿನಿ ಸುನೀತಾ ಹೀಗೆ ಕೇಳಿದಾಗ ಸುಜಯನಿಗೆ ಆಶ್ಚರ್ಯ. ಅವರಿಬ್ಬರೂ ಮಾನಸ ಗ...