पाण्डवानां रायभारिरूपेण हस्तिनापुरं समागतः श्रीकृष्णः विदुरस्य गृहे कुन्तीम् अमिलत्। युद्धविषये स्वाभिप्रायं प्रकटयन्ती कुन्ती विदुलायाः वृत्तान्तम् अकथयत्।
आसीत् पुरा सौवीरराजपत्नी विदुला नाम्नी वीरमहिला । सा विद्यासम्पन्ना, विवेकशीला, क्षात्रगुणोपेता च आसीत् । चतुरमत्या: तस्या: नृपमण्डल्यां विशेषगौरवमासीत् ।
तस्या: सञ्जय: नामा पुत्र: आसीत् । एकदा स: सैन्धवै: पराजितो युद्धपराङ्मुखो भूत्वा प्रत्यागच्छत् । गृहे निर्लज्जतया प्रसुप्तं तं दृष्ट्वा विदुला नितराम् अकुप्यत् । सा दृढस्वरेण अवोचत् – ’हे सञ्जय! किं त्वं तव पराजयम् अङ्गीकृतवान् ? धिक् त्वाम् । त्वं मत्पुत्र: भवितुं नार्हसि । पौरुषहीनस्त्वं शत्रो: कृते आनन्दम् अयच्छ: । त्वज्जन्म क्षत्रियकुलेऽभवत् इति किं व्यस्मर:? आत्मानं नपुंसकं मत्वा निन्दसि किम्? प्राणरक्षणापेक्षया य: रणात् पराङ्मुखो भवति तं मित्राणि बान्धवाश्च उपहसन्ति । तस्य जीवनं व्यर्थमेव । उत्तिष्ठ! शत्रुमर्दनं कृत्वा आयाहि” इति ।
तच्छ्रुत्वा सञ्जय: अब्रवीत् – “मात:! मया विना किं भवती जीवितुं शक्नोति? यदि अहं म्रिये, राज्येन भवत्यै किं प्रयोजनम् ?' इति ।
तदा विदुला अवदत् – पुत्र! आजीविकायाश्चिन्ता शत्रवे भवतु । परेषां सेवायां जीवनयापनं अस्माकं कृते नैव शोभते । अत: मरणचिन्तां विहाय शत्रो: नाशं कुरु । तव नाम सार्थकं भवतु ।’
पुत्र: पुन: अभणत् – मात:! भवत्या: एकमात्रं पुत्रं कठिनवचनै: किमर्थं तिरस्करोति ? भवती मम मातेव न व्यवहरति । राज्यभोगो ममापेक्षया भवत्या: प्रियो वा?
तस्य वचनं निशम्य विदुला पुन: अभाषत – पुत्र! प्राज्ञा: प्रापञ्चिकलाभं त्यक्त्वा यशसे कार्यं कुर्वन्ति । यदि मम पुत्रप्रेम पराजयेन कलङ्कितं भवति तर्हि न तत् श्रेयस्करम् । प्राज्ञ इव त्वं यदि तव क्षात्रकार्ये साफल्यं प्राप्नोषि, तदा मम प्रियो भवसि । अन्यथा पुत्रहीनत्वमेव वरम् ।
मातु: प्रेरकवचांसि श्रुत्वा सञ्जयोऽजागरत् । मातरं नत्वा अवदत् – ’अम्ब! भवत्या: मार्गदर्शनेन अहम् निश्चयेन पितु: राज्यं पुन: प्राप्स्यामि । भवत्या: अमृततुल्यानि वचनानि श्रुत्वा मदीय: उत्साहोऽवर्धत । मम सिंहसदृशभटान् सङ्घटय्य विजयं प्राप्स्यामि ’ इति ।
कुन्ती कृष्णम् अगदत् –’हे वार्ष्णेय! भीरु: सञ्जय: अपि मातु: वचनेन प्रेरित: सन् युद्धं कृत्वा शत्रून् अजयत् । क्षत्रियोचितं मार्गं स्वीकर्तुं युधिष्ठिरं ब्रूहि’ इति ।
✍🏻 *महाबलभट्टः, गोवा*
📱 ९८६००६०३७३
www.sujnanam.blogspot.com
No comments:
Post a Comment