Sunday, March 15, 2020

६. विश्ववारा


वैदिककालस्य ऋषिकासु विश्ववारा अन्यतमा । अत्रिवंशजया अनया रचितं सूक्तम् (ऋग्वेदस्य पञ्चममण्डलस्य २८तमम्) अग्निपरकं वर्तते । पूर्वस्यां दिशि मुखं कृत्वा उपविष्टा विश्ववारा स्वस्याः वैवाहिकजीवनं सुखमयं भवत्विति हुताशनं प्रार्थयते । वैदिककाले स्त्रियः अपि यज्ञादिकं कुर्वन्ति स्म इति एतेन ज्ञायते । 

कठोपनिषदः नचिकेतसः मातुः उद्दालकपत्न्याः नाम अपि विश्ववारा इत्यासीत् । उभयोः एकत्वविषये न कुत्रापि उल्लेखः दृश्यते । एषा विश्ववारा अपि विद्यावती प्रज्ञावती च आसीत् । नचिकेतसि विनय-जिज्ञासा-त्यागादिगुणविकासे अस्याः पात्रं महत्त्वपूर्णम् ।

No comments:

ಸ್ನೇಹ-ಸ್ಪರ್ಧೆ

  ’ನಿನ್ನ ಲಿಟರರಿ ಕ್ರಿಟಿಸಿಸಮ್ ನೋಟ್ಸ್ ಕೊಡ್ತಿಯಾ? ಝೆರೊಕ್ಸ್ ಮಾಡಿಸಿಕೊಳ್ಳುತ್ತೇನೆ’ ಸಹಾಧ್ಯಾಯಿನಿ ಸುನೀತಾ ಹೀಗೆ ಕೇಳಿದಾಗ ಸುಜಯನಿಗೆ ಆಶ್ಚರ್ಯ. ಅವರಿಬ್ಬರೂ ಮಾನಸ ಗ...