Thursday, March 19, 2020

गार्गी वाचक्नवी


गर्गगोत्रे समुत्पन्ना, वचक्नुमुनेः कन्या गार्गी वाचक्नवी इति नामद्वयेन प्रसिद्धा । अधीताखिलशास्त्रा कुण्डलिनीविद्यापारङ्गता एषा तत्कालीनायां ब्रह्मजिज्ञासुपण्डितमण्डल्यां गौरवस्थानापन्ना अवर्तत ।

विदेहस्य राजर्षिणा जनकेन बहुदक्षिणयागनिमित्तं ब्रह्मसंसत् आयोजिता । कुरुपाञ्चालादिदेशेभ्यः वेदज्ञाः ब्राह्मणाः तत्र समागताः। तेषु श्रेष्ठतमः ब्रह्मिष्ठः कः इति जनकस्य जिज्ञासा समुत्पन्ना । सः सहस्रं गाः आभूषणैरलङ्कृत्य ’वरीयसे ब्रह्मज्ञानिने इमाः गाः उपायनीक्रियन्ते’ इति उदघोषयत् । तच्छ्रुत्वा तत्र उपस्थितः याज्ञवल्क्यः ताः गाः स्वाश्रमं प्रति नेतुं स्वशिष्यं सामश्रवसं समादिशत् । तेन क्रुद्धाः अन्ये पण्डिताः याज्ञवल्क्योपरि प्रश्नशरवर्षणं चक्रुः । अश्वल-कहोल-उद्दालकेषु वादे पराजितेषु धैर्येण उदतिष्ठत् गार्गी वाचक्नवी । बृहदारण्यकोपनिषदः तृतीयाध्यायस्य षष्ठे ब्राह्मणे गार्ग्याः प्रश्नाः उल्लिखिताः वर्तन्ते । 

यदि पृथिवी जलेनावृता, तर्हि जलं केन आवृतं इति तस्याः प्रथमः प्रश्नः आसीत् । वायुना इति उत्तरं दत्तं याज्ञवल्क्येन । वायुः केन व्याप्तः इति पृष्टः गार्ग्या । महर्षिः उत्तरमदात् । एवं तयोः प्रश्नोत्तरसरणिः अनुवर्तत । अन्ते यदा वाचक्नव्या ’ब्रह्मलोकः केन व्याप्तः’ इति प्रश्नः कृतः तदा याज्ञवल्क्यः ’गार्गि! अतिप्रश्नं मा कार्षीः। त्वया जिज्ञासितं तत्त्वं प्रश्नातीतम् । तव मूर्धा एव अधः पतेत्’ इति अगर्जयत् । तदा गार्ग्या मौनमाश्रितम् । तत्तु न भयेन । अत्यन्तं गूढविचारोऽयं जनसङ्कुलसभायां न चर्चार्हः इति तस्याः ज्ञानमासीत् । अन्येषु विद्वत्सु याज्ञवल्क्यप्रभया पराभूतेषु गार्गी एकाकिनी स्वप्रश्नकुन्तैः याज्ञवल्क्यं पीडयामास।

’कीदृशं तत्तत्त्वं यत् द्युलोकस्य उपरि, भूमेः अधस्तात् तन्मध्येऽपि भूते वर्तमाने भविष्ये च शाश्वतं स्थित्वा व्यक्तं जगत् व्याप्नोति?’ इति गार्ग्या कृतः प्रश्नः अष्टममण्डले दृश्यते। याज्ञवल्क्यः ’अव्यक्तम् आकाशम्’ इत्युत्तरम् अददात् । ’आकाशं केन व्याप्तम्? इति अग्रिमप्रश्नः गार्ग्याः मुखादागतः। तदुत्तररूपेण याज्ञवल्क्यः अक्षरब्रह्मणः वर्णनम् अकरोत् । तेन सन्तुष्टा गार्गी 'याज्ञवल्क्यः ब्रह्मज्ञानी' इति अङ्ग्यकरोत् ।

गार्गी वादे पराभूता स्यात् । परन्तु याज्ञवल्क्यसदृशं ब्रह्मज्ञानिनं सम्मुखीकृत्य ब्रह्मतत्त्वविषये वादं कृत्वा धीरत्वं प्रादर्शयत् । प्राचीनकाले स्त्रीणां विद्यार्जनाधिकारः नासीत्, प्रश्नकरणावसरोऽपि ताभिः न प्राप्यते स्म इति दुर्वादं केचन प्रसारयन्ति । तादृशदुर्विचारनिरसनं गार्ग्याः निदर्शनं करोति इत्यत्र नास्ति संशीतिः।

महाबलभट्टः, गोवा
९८६००६०३७३

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...