Friday, March 20, 2020

मैत्रेयी

याज्ञवल्क्यं नुत्तवत्याः गार्ग्याः भागिनेया मैत्रेयी । विदेहराजस्य याज्ञवल्क्यस्य मित्रनामकस्य सचिवस्य पुत्री इयम् । कनिष्ठे वयस्येव गभीरम् अध्ययनं कृत्वा आध्यात्मविद्यायाम् आसक्ता मैत्रेयी याज्ञवल्क्यस्य पाण्डित्यं दृष्ट्वा अतीव विस्मिता आसीत् । निजज्ञानक्षुन्निवारणे याज्ञवल्क्यः एव क्षमः इत्यचिन्तयत् । आत्मना तस्य ज्ञानसम्पदः उत्तराधिकारिण्या भवितव्यमिति विचिन्त्य आत्मानं परिणेतुं याज्ञवल्क्यं न्यवेदयत् । परन्तु कात्यायन्या सह सुखसंसारे निमग्नः याज्ञवल्क्यः अपरभार्यां नैच्छत् । तथापि मैत्रेय्याः उद्देश्यं ज्ञानार्जनमात्रमिति विज्ञाय तां पत्नीत्वेन स्व्यकरोत् । ब्रह्मज्ञानिनः तस्य सान्निध्ये मैत्रेयी नैकानि अध्यात्मरहस्यानि आत्मसात् कृतवती ।
कालान्तरे गृहस्थजीवनात् विरक्तः याज्ञवल्क्यः सन्यासाश्रमस्वीकारार्थमुद्यतः । जनकस्य आस्थानपण्डितपदे विराजमानस्य तस्य समीपे गोधनकनकादिरूपा प्रभूता सम्पत्तिरासीत् । तां सम्पत्तिं विभज्य भार्याभ्यां दातुं सः अचिन्तयत् । कात्यायनी तदङ्गीकृतवती । परन्तु लौकिकभोगे अनासक्ता मैत्रेयी ’अनया सम्पत्त्या आत्मज्ञानप्राप्तिः शक्या वा? एतानि धनकनकादीनि अस्मभ्यं शाश्वतं सुखं प्रयच्छन्ति वा?’ इति याज्ञवल्क्यम् अपृच्छत् । याज्ञवल्क्यः ’नैव’ इत्यवादीत् । ’तर्हि इमे सर्वाः सम्पदः कात्यायन्यै प्रदाय मह्यं भवतः आध्यात्मसम्पत्तिं प्रदेहि’ इति मैत्रेयी याज्ञवल्क्यं प्रार्थयत ।
तस्याः प्रापञ्चिकसुखविरक्तिं ब्रह्मज्ञानासक्तिं च जानानः याज्ञवल्क्यः आनन्देन कात्यायन्यै स्वीयां लौकिकसम्पत्तिं प्रदाय मैत्रेय्या सह वानप्रस्थं प्रपेदे । तस्यै अखिलं ब्रह्मज्ञानं प्रदाय अन्वगृह्णत्।
बृहदारण्यकोपनिषदः द्वितीयाध्यायस्य चतुर्थमण्डले, चतुर्थाध्यायस्य पञ्चममण्डले च याज्ञवल्क्य-मैत्रेयीसंवादः वर्तते । 
महाबलभट्टः, गोवा
९८६००६०३७३

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...