Tuesday, August 16, 2022

क्रान्तिसिंहाः हलगलिव्याधाः

हलगलिः इति उत्तरकर्णाटकस्य कश्चनग्रामः। निबिडवनानां मध्ये विद्यमानेऽस्मिन् ग्रामे मृगान् मृगयित्वा उदरं निर्वहन्तः लुब्धकाः वसन्ति स्म।

१८५७ वर्षे प्रथमस्वातन्त्र्यसङ्ग्रामस्य दमनानन्तरं आङ्ग्लाः शासने इतोऽपि काठिन्यम् आनीतवन्तः। जनानां हस्ते यदि शस्त्रं भवति यदा कदा वा ते सर्वकारं विरुद्ध्य युद्धमारभेरन् इति चिन्तयित्वा निःशस्त्रीकरणनियमम् आनीतवन्तः। देशे सर्वेऽपि स्ववशे शस्त्रस्थापनात् निर्बद्धाः।

व्याधानाम् आजीविका तु मृगयया एव भवति। तदर्थं शस्त्रधारणम् अनिवार्यम्। अतः ते आङ्ग्लशासनं विरुद्ध्य आन्दोलनमारब्धवन्तः। आङ्ग्लाः तान् दमयितुं सर्वप्रयत्नान् आरब्धवन्तः।

एते लुब्धकाः सिंहसदृशाः शूराः आसन्। तेषां नियन्त्रणार्थं महती सेना एव आङ्ग्लैः प्रेषिता। मण्टूरु, बोधानि, अलगुण्डि इत्यादिभ्यः पार्श्वग्रामेभ्यः अपि व्याधाः आगत्य हलगलिग्रामे समाविष्टाः। तेषां ऐक्ययुद्धेन आङ्ग्लसेना पराजिता। 

क्रुद्धाः आङ्ग्लाः बेळगांवतः सैन्यम् आनीतवन्तः। कार् नामकः सेनापतिः हलिगलिग्रामं सर्वतः आक्रान्तवान्। घोरे युद्धे लुब्धकनायकः वीरस्वर्गं प्राप्तवान्। परन्तु अन्ये युद्धं न अत्यजन्। आङ्ग्लसेना पुनः पराजयमाप्नोत्। कुपितः कार् सम्पूर्णग्रामम् अग्निसात् कृतवान्। वीराः व्याधाः पलायनम् अकृत्वा आत्माहुतिम् अकुर्वन्।

अनेके लुब्धकाः आङ्ग्लैः गृहीताः। जनान् भाययितुं १८५८ जनवरी ११ दिनाङ्के २५ लुब्धकेभ्यः मुधोलग्रामस्य जनसम्मर्दविपण्यां पाशशिक्षा विधत्ता। 

अशिक्षितानां व्याधानां वीरगाथा इतोऽपि लोकगीतद्वारा गीयते कर्णाटकस्य विविधप्रान्तेषु। अनन्तरदिनेषु स्वातन्त्र्यसमरवीराणां प्रेरणास्थानमभवत् एतेषाम् आत्माहुतिः।

मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु

http://www.bharatapremi.blogspot.in  

राष्ट्रगुरुः मदनमोहनमालवीयः

गान्धीमहोदयः राष्ट्रपिता इति ख्यातः। ’राष्ट्रगुरुः’ इति गौरवस्थानम् वहति पण्डितः मदनमोहनमालवीयमहाभागः।

२५ डिसेम्बर १८६१ दिनाङ्के प्रयागराजे प्राप्तजन्मनः मदनमोहनस्य माता मूनादेवी पिता पण्डितः ब्रजनाथः आसीत्। ब्रजनाथमहोदयः संस्कृतपन्डितः प्रख्यातः भागवतप्रवचनकारः च आसीत्। अतः मदनमोहनस्य धार्मिकशिक्षणं संस्कृताध्ययनञ्च सहजतया अभवताम्।

करुणा, भूतानुकम्पा, अद्वेष, धर्मश्रद्धा, देशभक्तिः, त्यागः, उत्साहः, आत्मविश्वासः, वाक्संयमः इत्यादिगुणैः अभिभूषित्तः मदनमोहनः ’महामनाः’ इत्युपाधिं प्राप्तवान्। सः स्वातन्त्र्यसेनानीः, कविः, चिन्तकः, शिक्षणवेत्ता, मौढ्यविरोधी, जातिभावनारहितः, पत्रकारः, विद्यादाता, सङ्घटकः च आसीत्।

मालवीयवर्यस्य कार्येषु मुकुटप्रायं ’बनारस-हिन्दू-विश्वविद्यालयस्य स्थापनम्’। आङ्ग्लैः स्थापिताः कलकत्ता-मुम्बयी-मद्रास्-विश्वविद्यालयाः आङ्ग्लपद्धतिमेव अनुसृत्य दास्यभावमेव वर्धयन्तः आसन्। आङ्ग्लशिक्षणप्राप्तिः, तेषाम् आचारविचाराणाम् अनुसरणम्, संस्कृतेः अनुकरणं च व्यक्तित्वस्य भूषणमिति मन्यमानाः भारतीयविद्यानां विषये निरासक्तिं हीनभावनां च धृतवन्तः अवर्तन्त।

एतस्य हीनचिन्तनस्य निरसनार्थं भारतीयसंस्कृतेः महत्त्वज्ञापनाय च तेन ’बनारस-हिन्दू-विश्वविद्यालस्य सङ्क्ल्पना कृता। स्वस्य लक्ष्यपूर्तये काश्मीरात् कन्याकुमारीपर्यन्तम् भिक्षाम् अटित्वा धनसङ्ग्रहमकरोत्। एककोटि-चतुस्त्रिंशत्सहस्ररूप्यकाणां सङ्ग्रहः अभवत्। मालवीयमहोदयः ’भिक्षुकसाम्राट्’ इति ख्यातिम् अवाप्तवान्।

१९१६ वर्षे बनारसहिन्दूविश्वाविद्यालयः स्थापितः। शतवर्षाणाम् अनन्तरमपि संस्कृत-हिन्दीभाषाध्ययने भारतीयज्ञानपरम्परायाः अनुसन्धाने च एतस्य विश्वविद्यालयस्य पात्रं महत्त्वपूर्णम्।

मदनमोहनमालवीयः अखिलभारतीयकाङ्ग्रेसदलद्वारा स्वातन्त्र्यसङ्ग्रामे भागमवहत्। गान्धीमहोदयः यदा कारागृहे आसीत् तदा आन्दोलनस्यचैतन्यरक्षणं कर्तुं सर्वत्र प्रवासमकरोत्। काकोरीचौर्यप्रकरणानन्तरं गान्धिवर्येण आन्दोलनं स्थगितम् आसीत्। तत् मदनमोहनाय न अरोचत। काङ्ग्रेसदलस्य अनेकान् निर्णयान् मालवीयमहोदयः न अङ्गीकृतवान्।

स्वातन्त्र्यसङ्ग्रामे समाजोद्धारकानां पात्रं महत्त्वपूर्णम्। समाजस्य अनिष्टान् वारयित्वा अस्मत्समाजस्य ऐक्यं रक्षितुं प्रयत्नः तैः कृतः। मदनमोहनमालवीयः अपि

तदर्थमेव विशिष्टः दृश्यते।

१९४६ वर्षे मालवीयवर्यः स्वर्गस्थः अभवत्। २०१४ वर्षे तस्मै मरणोत्तरं भारतरत्नपुरस्कारः प्रदत्तः। नूनं भारतस्य रत्नमिदम्। नमस्तस्मै महात्मने।

मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु

http://www.bharatapremi.blogspot.in  

राष्ट्रध्वजनिर्मात्री भिकाजी कामा

भारतस्वातन्त्र्यसङ्ग्रामे सक्रियभागं गृहीतवत्सु महिलासु भिकाजी कामा अन्यतमा। 

२४ सप्टेम्बर १८६१ दिनाङ्के मुम्बयीनगरे धनिनि पारसीपरिवारे जाता भिकाजी प्लेग रोगेण ग्रस्ता अभवत्। चिकित्सार्थं लण्डन नगरम् गतवती सा तत्रैव भारतस्य स्वतन्त्रतान्दोलनस्य कार्यम् आरब्धवती यतः तस्याः देशभक्तिः अपरिमिता आसीत्।

विदेशे स्थित्वा एव भारतीयराष्ट्रध्वजस्य विन्यासं सा कृतवती। १९०७ वर्षे जर्मनीदेशे प्रवृत्ते समाजवादिसम्मेलने भारतस्य प्रतिनिधिः भूत्वा आङ्ग्लशासने भारतीयानां दुरवस्थां सर्वेषां पुरतः अवर्णयत्। तत्रैव स्वविन्यस्तं ध्वजं सर्वेषां पुरतः आरोपयत्। सर्वैरपि ध्वजवन्दनं कृतम्।

अनन्तरं न्यूयार्कनगरं गत्वा तत्र पत्रकाराणां पुरतः आङ्ग्लानां कुशासनेन भारतीयानाम् उपरि कृतं परिणामम् अवर्णयत्।

१९०८ वर्षे पुनरपि लण्डननगरमागत्य भारतीयभवने युवकान् सम्बोध्य प्रेरणाप्रदानि वचांसि अवोचत्। ’आङ्ग्लैः उन्नतपदवी प्रदत्तापि तिरस्कुरुत। तेषां कृपाश्रयः नावश्यकः। स्वतन्त्रतया जीवननिर्वहणं कर्तुं प्रयतन्ताम्’ इति बोधनं कृतवती। तच्छ्रुत्वा कुपितः आङ्ग्लसर्वकारः देशं त्यक्त्वा गन्तुम् आदिशत्। भारतप्रवेशमपि निराकरोत्। तदा भिकाजी प्यारिसनगरे आश्रयं प्राप्तवती। तत्रापि अनेके देशभक्ताः तया मिलितवन्तः। तैः सह सा वन्देमातरम् इत्याख्याम् पत्रिकाम् आरब्धवती। सावरकरमहोदयः यदा लण्डननगरं समायातः तदा देशभक्तानां सङ्घटने तस्य साहाय्यम् अकरोत्। 

भिकाजी कामायाम् विदेशे सत्यामपि आन्दोलनकाराणाम् उपरि तस्याः प्रभावः न्यूनः नाभवत्। सर्वे तां मातृभावेन पश्यन्ति स्म।

स्वस्याः इच्छानुसारं भारतम् आगत्य १३ अगस्ट १९३६ दिनाङ्के इहलोकयात्रां समापयत्।

भारतस्य राष्ट्रध्वजस्य विन्यासे गौरवसम्पादने च प्रमुखपात्रम् ऊढवत्याः भिकाजीकामावर्यायाः पुण्यतिथौ एव ’प्रतिगृहं त्रिवर्णध्वजः’ इत्युपक्रमः आरब्धः इति सन्तोषस्य विषयः। तस्यै शतशः नमांसि अर्पयामः।

मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु

http://www.bharatapremi.blogspot.in  

Friday, August 12, 2022

हिन्दू-मुस्लिम्-बान्धव्यस्य अप्रतिमम् उदाहरणम् रामप्रसादबिस्मिल्ला अशफाकुल्हा च ।

भारतस्वातन्त्र्यसङ्ग्रामस्य इतिहासे रामप्रसादबिस्मिल्ला अशफाकुल्हा एतयोः विशिष्टः अध्यायः एव वर्तते। हिन्दू-मुस्लिम् भ्रातृत्वस्य अप्रतिमम् अपूर्वञ्च उदाहरणं एतयोः मित्रत्वम्। एतयोर्मध्ये मतीयसङ्घर्षं जनयितुम् आङ्ग्लैः बहुधा प्रयत्नः विहितः। परन्तु पाशस्तम्भारोहणपर्यन्तमपि तौ एकीभावेन अतिष्ठताम्। स्वमतस्य अनुसरणेन सहैव राष्ट्रनिष्ठां पालयितुं शक्यते इति ताभ्यां सम्यक् निरूपितम्।

अशफाकुल्हा २२ अक्टोबर १९०० दिनाङ्के शहजानपुरे एकस्मिन् श्रीमति पठानकुले जातः। तस्य पिता शफिकुल्हा खान् ; माता मजरुन्निसा। अष्फाकस्य कुटुम्बः सुशिक्षितः आसीत्। एषोऽपि अभियान्त्रिकशिक्षणम् अवाप्तवान्।

रामप्रसादबिस्मिल्ला अपि शहाजहानपुरे ११ जून् १८९७ दिनाङ्के जन्म प्राप्तवान्। तस्य पिता मुरलीधरः, माता मूलमती। पितरौ रामभक्तौ आस्ताम्। रामप्रसादस्य पुस्तकपठने महती रुचिः आसीत्। यद्यपि किशोरावस्थायां धनचौर्यं, धूमपानम् इत्यादिदुर्व्यसनानि तम् अपीडयन् तथापि प्रौढावस्थायां सज्जनसङ्गेन तेभ्यः मुक्तः भूत्वा सुदृढः, कर्मनिष्ठः, धार्मिकप्रज्ञायुक्तः समभवत्।

रामप्रसादः आर्यसमाजस्य सदस्यः भूत्वा दयानन्दसरस्वतीमहाभागस्य उपदेशानुसारं स्वधर्मस्य पालनं करोति स्म। अशफाकुल्हा खुरानग्रन्थस्य गभीरम् अध्ययनं कृत्वा मुस्लिम् धर्माचरणे बद्धश्रद्धः आसीत्।

उभावपि काकोरीकोशापहरणप्रसङ्गे प्रमुखं पात्रम् ऊढवन्तौ। मारकास्त्रप्राप्त्यर्थं क्रान्तिकारिणां धनस्य आवश्यकता आसीत्। कण्टकं कण्टकेनैव निवारणीयमिति न्यायेन तैः आङ्ग्लानां अधिकोशाः चोरिताः। दशजनैः काकोरी रेलनिस्थानके रेलयानेन नीयमाना धनपेटिका चोरिता। 

काकोरीधनकोशचौर्यं स्वतन्त्रतासङ्ग्रामे कश्चन महाप्रसङ्गः। तदा तल्लग्नेषु कोऽपि न गृहीतः। परन्तु अनन्तरकाले रामप्रसादः तत्र मुक्यपात्रमवहत् इति ज्ञात्वा आरक्षकैः सः बद्धः। अनतिकाले अशफाकुल्हा अपि बद्धः।

उभावपि कारावाससमयेऽपि स्वधर्माचरणं न त्यक्तवन्तौ। रामप्रसादः होमहवनादिकं करोति स्म। अशफाकः पञ्चवारं नमाज करोति स्म। रमजानमासस्य कठोराचरणमपि करोति स्म। तथापि द्वयोर्मध्ये गाढः सोदरभावः आसीत्। 

न्यायालये एतत् प्रकरणं गम्भीरवादविवादैः चर्चितम्। अन्ततो गत्वा द्वयोः कृतेऽपि मरणदण्डनं विहितम्।

१९ डिसेम्बर १९२७ दिनाङ्के गोरखपुरकारावासे उभावपि पाशशिक्षां प्राप्तवन्तौ। मिलित्वा हसन्तौ एव शिक्षां स्वीकृतवन्तौ।

उभयोरपि अन्यः सामान्यकुशलता आसीत्। द्वावपि उत्तमकवी आस्ताम्। अशफाकः उर्दुभाषायां कविताः रचितवान्। रामप्रसादोऽपि उर्दूभाषाविशारदः आसीत्। तेन दशाधिकपुस्तकानि लिखितानि। अशफाकस्य एका शाहिरी एवं वदति - ’जीवनं मरणञ्च मिथ्या इति कृष्णः अर्जुनं बोधितवान् किल? क्व यातं तत् ज्ञानम्? मरणन्तु कथमपि आयाति। किमर्थं वा बिभयाम तदर्थम्? देशस्य भविष्यम् उज्ज्वलं स्वतन्त्रञ्च भवतु। अस्माकं किं महत्त्वम्? वयं भवेम, वा न भवेम।’

उभावपि सप्रणामश्रद्धाञ्जलिः।


मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु

http://www.bharatapremi.blogspot.in  

क्रान्तिकारी भूपेन्द्रनाथदत्तः

देशं दास्यात् मोचयितुम् एकस्यैव कुटुम्बस्य माता, पुत्रः स्नुषा च प्राणार्पणमकुर्वन्निति मैलारमहादेवस्य कथायां ज्ञातवन्तः। एवमेव अनेके परिवाराः एतस्मिन् पुण्यकार्ये आत्मसमर्पणं कृतवन्तः। तेषु बङ्गालस्य विश्वनाथदत्तभुवनेश्वरीदेव्योः कुटुम्बोऽपि एकः।

तयोः एकः पुत्रः नरेन्द्रनाथदत्तः अग्रे स्वामी विवेकानन्दः इति ख्यातिम् अवाप्य भारतस्य आध्यात्मयोगवेदान्तानां सारं जगते प्रदाय विश्वमार्यम् जातः।

अपरः भूपेन्द्रनाथदत्तः क्रान्तिकारी भूत्वा स्वातन्त्र्यसमरे मुख्यभूमिकां निरवहत्।

भूपेन्द्रः युगान्तर, अनुशीलनसमितिरिति च द्वयोः क्रान्तिकारिसङ्घटनयोः प्रमुखः सदस्यः आसीत्। 

आङ्ग्लान् भारतात् निष्कासयितुम् क्रान्तिमार्गः एव श्रेयान् इति युगान्तरसङ्घटनस्य अचलः विश्वासः आसीत्। १९०६ तमे वर्षे बारिन्द्रकुमारघोषेण अविनाशभट्टाचार्येण सह च भूपेन्द्रनाथः युगान्तरपत्रिका इति क्रान्तिविचाराणां कस्याश्चन पत्रिकायाः आरम्भं कृतवान्। आङ्ग्लानां दौर्जन्यविषये जागृतिः, युवकेभ्यः प्रेरणादानम् इत्यादीनि उद्देश्यानि आसन् पत्रिकायाः । भूपेन्द्रस्य स्फूर्तिदायकानां तीक्ष्णलेखानां कारणतः पत्रिका बहुशीघ्रं जनप्रियतां प्राप्नोत्। शताधिकान् युवकान् क्रान्तिमार्गे अयोजयत्। 

शीघ्रमेव आङ्ग्लाः पत्रिकायाः प्रभावमवगत्य भूपेन्द्रोपरि देशद्रोहम् आरोप्य तस्य बन्धनमकुर्वन्। पत्रिकाप्रकाशनं स्थगितम्।

एकवर्षानन्तरं कारावासात् मुक्तः भूपेन्द्रः अमेरिकामगच्छत्। तत्र स्नातकोत्तराध्ययनम् कुर्वन्नेव पुनः आन्दोलनकार्यम् आरब्धवान्। 

आङ्ग्लविरोधिनां साहाय्यं सम्प्राप्य तेषां द्वारा स्वातन्त्र्यं प्राप्तुं प्रयत्नमारब्धवान्। केनडादेशे जर्मनीदेशे च तदर्थं प्रचलितेषु कलापेषु भागमवहत्। १९२३ वर्षे भारतमागत्य काङ्ग्रेसकलापेषु सक्रियः अभवत्। 

स्वस्य राजकीयचिन्तनकारणेन क्रान्तिमनोभावकारणेन च नैकवारं सः बन्धनमवाप्नोत्। 

स्वातन्त्र्यप्राप्तिपर्यन्तमपि आन्दोलनकार्ये भूपेन्द्रः सक्रियः आसीत्। अनन्तरदिनेषु अपि तस्य राष्ट्रकार्यम् अव्याहतमासीत्। १९६१ वर्षे सः दिवं प्रयातः।

भूपेन्द्रनाथदत्तः उत्तमः लेखकः अपि आसीत्। बङ्गाली, हिन्दी, आङ्ग्ला, जर्मन् इरानियन् इत्यादिषु भाषासु नैके ग्रन्थाः तेन लिखिताः। तस्य Swami Vivekananda: a patriot prophet इति पुस्तकं प्रसिद्धम्।

उभाभ्यां महापुरुषाभ्यां भूयांसि नमांसि।


मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु

http://www.bharatapremi.blogspot.in  


महान् बलिदानी मैलारमहादेवः

आङ्ग्लानां गोलिकाप्रहारं वज्रोरसा सम्मुखीकृतेषु मैलारमहादेववर्यः अन्यतमः।

कर्णाटकफाज्यस्य हावेरीजनपदस्य मोटेबेन्नूरु ग्रामे प्राप्तजन्मनः महादेवमहोदयस्य कीर्तिः अजरामरा। तस्य माता बसम्म अपि स्वतन्त्रतायाः आन्दोलने भागं गृहीत्वा कारावासमनुभूतवती। तस्याः राष्ट्रभक्तिः पुत्रेऽपि प्रावहत्। 

मैलारमहादेवस्य स्वातन्त्र्यसङ्ग्रामगाथा तदानीमेव आन्दोलनकारेभ्यः स्फूर्तिदायिनी आसीत्। स्वीये नवदशतमवर्षे एव गान्धिवर्यस्य दाण्डीसत्याग्रहे भागं गृहीतवान्। 385 किलो मीटर मार्गं २५ दिनेषु अनेकैः राष्ट्रनायकैः सह क्रान्त्वा इतिहासं निर्मितवान्। गान्धिवर्येण सह षण्मासानां कारावासोऽपि तेन अनुभूतः। असहकारान्दोलने विधिभङ्गान्दोलने च भागमूढ्वा तस्य भार्या सिद्धम्मा अपि अहमदाबाद नगरे कारावासमनभूतवती। एवं सम्पूर्णकुटुम्बः राष्ट्रार्थं कारावासमनुभूतवान् इति तु कुटुम्बस्य गरिमा। 

नैकवारं कारागृहं गतः अयं यदा बहिः भवति तदा खादिप्रचारदलितोद्धारादिकार्ये आत्मानं योजयति स्म। स्वग्रामे कञ्चन सेवाश्रममपि आरभत। 

धारवाडजनपदस्य दक्षिणभागस्य आन्दोलननेतृत्वम् अस्यैव आसीत्। यदा आङ्ग्लाः नवीनकराकरणमारभ्य जनान् पीडितवन्तः तदा विध्वंसककृत्यद्वारा तस्य निराकरणं कर्तुम् उद्युक्तः अभवत्।

१९४३ एप्रिल १ दिनाङ्के करसङ्ग्रहकार्यालयोपरि सहचरैः सह आक्रमणमकरोत्। तत्र आङ्ग्लैः सह सम्पन्ने घोरयुद्धे ३२ वर्षीय मैलारमहादेवः वीरमरणं प्राप्तवान्।  तेन सह तिरुकप्प मडिवालर वीरय्यहिरेमठः च अमरौ जातौ।

हावेरीनगरे स्थितः वीरसौधः मैलारमहादेवस्य शौर्यगाथां ज्ञापयति।


मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु

http://www.bharatapremi.blogspot.in  

तरुणवीरः खुदिरामः

खुदिरामः नवदशवर्षाणां तारुण्यावस्थायां मरणदण्डनं प्राप्तवान् तरुणवीरः। तस्य जन्म बङ्गालस्य कायस्थपरिवारे ३ डिसेम्बर १८८९ दिनाङ्के अभवत्। माता लक्ष्मीप्रिया, पिता त्रैलोक्यनाथ बोस्।

नवमकक्ष्यापर्यन्तं तेन विद्यालये पठितम्। परन्तु तस्य शरीरे प्रवहन्ती राष्ट्रभक्तिः स्वतन्त्रतान्दोलने तं न्ययोजयत्। 

१९०६ वर्षे मिदनापुरे प्रवृत्तायां एकस्यां कृषिप्रदर्शिन्यां बङ्गालस्य क्रान्तिकारिणा खुदिराम बोस महोदयेन लिखितं पत्रकं व्यतरत्। तदा आरक्षकैः बद्धः। परं कथमपि सः बन्धमुक्तः भूत्वा पलायितः। १९०७ वर्षे तेन नारायणगढ रेलस्थानके बङ्गालस्य गवर्नर् उपरि आक्रमणं कृतम्। १९०८ वर्षेऽपि द्वयोः आङ्ग्लाधिकारिणोः उपरि आक्रमणं कृतम्। परन्तु कोऽपि मृतः नाभवत्।

१९०५ वर्षे यदा वङ्गविभजनं कृतं तदा वङ्गयुवकैः महत् आन्दोलनं कृतम्। तादृशयुवकानां कृते किङ्ग्स् फोर्ड् नामकः न्यायाधिशः क्रूरां शिक्षां दत्तवान्। अतः तस्य उपरि सर्वेषां देशप्रेमिणां आक्रोशः आसीत्।

युगान्तरसमित्याः गुप्तमेलने किङ्ग्स् फोर्ड् इत्यस्य वधः करणीयः इति निर्णयः कृतः। प्रफुल्लकुमारः खुदिरामः च तस्य दायित्वम् अवहताम्। एकस्यां रात्रौ किङ्ग्स फोर्ड् यानमिति मत्वा खुदिरामेण बलवान् विस्फोटकः क्षिप्तः। परन्तु तत्तु अन्येषां यानमासीत्। न्यायाधीशस्य प्राणाः रक्षिताः। 

खुदिरामः २४ मैल दूरं धावित्वा क्रान्तवान्। परन्तु आरक्षकाः तस्य ग्रहणे सफलाः अभवन्। ११ अगस्त १९०८ दिनाङ्के भगवद्गीतां हस्ते गृहीत्वा हसन् एव मरणदण्डनं स्वीकृतवान्। 

खुदिरामः विस्फोटप्रयोगं कृतवान् प्रथमः भारतीयक्रान्तिकारी। तस्य कार्येण आङ्ग्लसाम्राज्यं कम्पितम्। अनेकयोजनपर्यन्तं विस्फोटस्य शब्दः प्रसृतः। परिणामः तु लण्डन पर्यन्तमपि गतः। आङ्ग्लानां दर्पः प्रकम्पितः। तेषां हृदये भयम् उत्पन्नम्। क्रान्तिकारिणां विश्वरूपदर्शनम् अभवत्।

आगामि गुरुवासरे तस्य बलिदानदिनम्। अवश्यं तस्मै अश्रुतर्पणं अर्पयामः।


मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु

http://www.bharatapremi.blogspot.in  

ಸ್ನೇಹ-ಸ್ಪರ್ಧೆ

  ’ನಿನ್ನ ಲಿಟರರಿ ಕ್ರಿಟಿಸಿಸಮ್ ನೋಟ್ಸ್ ಕೊಡ್ತಿಯಾ? ಝೆರೊಕ್ಸ್ ಮಾಡಿಸಿಕೊಳ್ಳುತ್ತೇನೆ’ ಸಹಾಧ್ಯಾಯಿನಿ ಸುನೀತಾ ಹೀಗೆ ಕೇಳಿದಾಗ ಸುಜಯನಿಗೆ ಆಶ್ಚರ್ಯ. ಅವರಿಬ್ಬರೂ ಮಾನಸ ಗ...