भारतस्वातन्त्र्यसङ्ग्रामे सक्रियभागं गृहीतवत्सु महिलासु भिकाजी कामा अन्यतमा।
२४ सप्टेम्बर १८६१ दिनाङ्के मुम्बयीनगरे धनिनि पारसीपरिवारे जाता भिकाजी प्लेग रोगेण ग्रस्ता अभवत्। चिकित्सार्थं लण्डन नगरम् गतवती सा तत्रैव भारतस्य स्वतन्त्रतान्दोलनस्य कार्यम् आरब्धवती यतः तस्याः देशभक्तिः अपरिमिता आसीत्।
विदेशे स्थित्वा एव भारतीयराष्ट्रध्वजस्य विन्यासं सा कृतवती। १९०७ वर्षे जर्मनीदेशे प्रवृत्ते समाजवादिसम्मेलने भारतस्य प्रतिनिधिः भूत्वा आङ्ग्लशासने भारतीयानां दुरवस्थां सर्वेषां पुरतः अवर्णयत्। तत्रैव स्वविन्यस्तं ध्वजं सर्वेषां पुरतः आरोपयत्। सर्वैरपि ध्वजवन्दनं कृतम्।
अनन्तरं न्यूयार्कनगरं गत्वा तत्र पत्रकाराणां पुरतः आङ्ग्लानां कुशासनेन भारतीयानाम् उपरि कृतं परिणामम् अवर्णयत्।
१९०८ वर्षे पुनरपि लण्डननगरमागत्य भारतीयभवने युवकान् सम्बोध्य प्रेरणाप्रदानि वचांसि अवोचत्। ’आङ्ग्लैः उन्नतपदवी प्रदत्तापि तिरस्कुरुत। तेषां कृपाश्रयः नावश्यकः। स्वतन्त्रतया जीवननिर्वहणं कर्तुं प्रयतन्ताम्’ इति बोधनं कृतवती। तच्छ्रुत्वा कुपितः आङ्ग्लसर्वकारः देशं त्यक्त्वा गन्तुम् आदिशत्। भारतप्रवेशमपि निराकरोत्। तदा भिकाजी प्यारिसनगरे आश्रयं प्राप्तवती। तत्रापि अनेके देशभक्ताः तया मिलितवन्तः। तैः सह सा वन्देमातरम् इत्याख्याम् पत्रिकाम् आरब्धवती। सावरकरमहोदयः यदा लण्डननगरं समायातः तदा देशभक्तानां सङ्घटने तस्य साहाय्यम् अकरोत्।
भिकाजी कामायाम् विदेशे सत्यामपि आन्दोलनकाराणाम् उपरि तस्याः प्रभावः न्यूनः नाभवत्। सर्वे तां मातृभावेन पश्यन्ति स्म।
स्वस्याः इच्छानुसारं भारतम् आगत्य १३ अगस्ट १९३६ दिनाङ्के इहलोकयात्रां समापयत्।
भारतस्य राष्ट्रध्वजस्य विन्यासे गौरवसम्पादने च प्रमुखपात्रम् ऊढवत्याः भिकाजीकामावर्यायाः पुण्यतिथौ एव ’प्रतिगृहं त्रिवर्णध्वजः’ इत्युपक्रमः आरब्धः इति सन्तोषस्य विषयः। तस्यै शतशः नमांसि अर्पयामः।
मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु
http://www.bharatapremi.blogspot.in
No comments:
Post a Comment