आङ्ग्लानां गोलिकाप्रहारं वज्रोरसा सम्मुखीकृतेषु मैलारमहादेववर्यः अन्यतमः।
कर्णाटकफाज्यस्य हावेरीजनपदस्य मोटेबेन्नूरु ग्रामे प्राप्तजन्मनः महादेवमहोदयस्य कीर्तिः अजरामरा। तस्य माता बसम्म अपि स्वतन्त्रतायाः आन्दोलने भागं गृहीत्वा कारावासमनुभूतवती। तस्याः राष्ट्रभक्तिः पुत्रेऽपि प्रावहत्।
मैलारमहादेवस्य स्वातन्त्र्यसङ्ग्रामगाथा तदानीमेव आन्दोलनकारेभ्यः स्फूर्तिदायिनी आसीत्। स्वीये नवदशतमवर्षे एव गान्धिवर्यस्य दाण्डीसत्याग्रहे भागं गृहीतवान्। 385 किलो मीटर मार्गं २५ दिनेषु अनेकैः राष्ट्रनायकैः सह क्रान्त्वा इतिहासं निर्मितवान्। गान्धिवर्येण सह षण्मासानां कारावासोऽपि तेन अनुभूतः। असहकारान्दोलने विधिभङ्गान्दोलने च भागमूढ्वा तस्य भार्या सिद्धम्मा अपि अहमदाबाद नगरे कारावासमनभूतवती। एवं सम्पूर्णकुटुम्बः राष्ट्रार्थं कारावासमनुभूतवान् इति तु कुटुम्बस्य गरिमा।
नैकवारं कारागृहं गतः अयं यदा बहिः भवति तदा खादिप्रचारदलितोद्धारादिकार्ये आत्मानं योजयति स्म। स्वग्रामे कञ्चन सेवाश्रममपि आरभत।
धारवाडजनपदस्य दक्षिणभागस्य आन्दोलननेतृत्वम् अस्यैव आसीत्। यदा आङ्ग्लाः नवीनकराकरणमारभ्य जनान् पीडितवन्तः तदा विध्वंसककृत्यद्वारा तस्य निराकरणं कर्तुम् उद्युक्तः अभवत्।
१९४३ एप्रिल १ दिनाङ्के करसङ्ग्रहकार्यालयोपरि सहचरैः सह आक्रमणमकरोत्। तत्र आङ्ग्लैः सह सम्पन्ने घोरयुद्धे ३२ वर्षीय मैलारमहादेवः वीरमरणं प्राप्तवान्। तेन सह तिरुकप्प मडिवालर वीरय्यहिरेमठः च अमरौ जातौ।
हावेरीनगरे स्थितः वीरसौधः मैलारमहादेवस्य शौर्यगाथां ज्ञापयति।
मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु
http://www.bharatapremi.blogspot.in
No comments:
Post a Comment