Thursday, June 25, 2020

सुदक्षिणा



महाराज्ञी सुदक्षिणा चक्रवर्तिनः दिलीपस्य धर्मपत्नी आसीत्। मगधराजपुत्री सा पत्यनुकूला, भर्तुः प्रेमपात्रं च अवर्तत। रघुवंशमहाकाव्यस्य आदौ त्रिषु सर्गेषु कविकुलगुरुणा तस्याः पावनचरितचित्रणं कृतम्। तस्याः परिचयं कविः विशिष्टतया करोति-

तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा ।
पत्नी सुदक्षिणासीदध्वरस्येव दक्षिणा ॥
कलत्रवन्तमात्मानमवरोधे महत्यपि।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः॥

कविकुलगुरुणा मनस्विनीति पदप्रयोगेण सुदक्षिणायाः व्यक्तित्वस्य पावित्र्यदर्शनं कारितम्। यद्यपि सा पत्यनुकूला आसीत्, तस्यां कुलाङ्कुरप्राप्तौ राजा असफलः जातः। यदा कुलगुरुणा वसिष्ठेन नन्दिन्याः सेवायै नृपः आज्ञप्तः तदा सुदक्षिणापि तेन सार्धं वसिष्ठाश्रमं ययौ । तत्र बहुकालं यावत् तपस्विजीवनं अयापयत्। राजा गां चारयित्वा यदा आश्रममाययौ तदा कामधेनुपुत्र्याः सपर्या राज्ञ्या अकारि ।

प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता ।
प्रणम्य चानर्च विशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धेः॥

अक्षतपात्रं हस्ते गृहीत्वा धेनुं प्रदक्षिणीकृत्य शृङ्गयोर्मध्ये ललाटस्थाने कुसुमाक्षतैरर्चनमकरोत् प्रतिदिनम्।
सुरधेन्वाः कृपाशीर्वादेन धृतगर्भायाः सुदक्षिणायाः दोहदकालं कविः मनोहरम् अवर्णयत्।

निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणादौर्हृदलक्षणं दधौ।

इक्ष्वाकुवंशस्य गर्भं धृतवती सुदक्षिणा लज्जया तत्कालसहजकामनाः अपि न प्रकाशयति स्म। दिलीपः तस्याः सखीजनं पृष्ट्वा तदभिलाषं पूरयति स्म इति कविः वर्णयति – ’न मे ह्रिया शंसति किञ्चिदीप्सितं स्पृहावती वस्तुषु केषु मागधी ।’

नवमासेषु पूर्णेषु सुदक्षिणा सकलगुणसम्पन्नाय पुत्राय जनिमदात्। रघुरिति ख्यातः स्वनामधन्यः कुमारः कालान्तरे दिग्वजयं सम्पाद्य विश्वजित् नाम यज्ञं कृत्वा अर्थिनां हृदयमपि अजयत्। कुलदीपकेन सता तेन सुदक्षिणायाः मातृत्वमपि सफलमकारि।

सर्गत्रयविस्तृतं सुदक्षिणायाः चरितं, दिलीपेन सह तया निर्वर्तितदाम्पत्यस्य वर्णनं च कविकुलगुरोः असीमकाव्यकौशलस्य निदर्शने वर्तेते ।


No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...