न भूतो न भविष्यति इति वाक्यस्य उदाहरणरूपेण
प्रस्तूयमानम् अभिज्ञानशाकुन्तलम् नाटकं शकुन्तला नाम्नीं अन्यादृशनायिकाम्
अस्मत्पुरतः उपस्थापयति। अलौकिकरूपसम्पन्ना, अगणितगुणानां खनिः, अमरप्रेममूर्तिः च
इयं शकुन्तला भारतीयनारीणां आदर्शरूपेण उपतिष्ठते।
महर्षेः विश्वामित्रस्य अप्सरसः मेनकायाः च
मधुरमेलनेन प्राप्तजनिः शकुन्तला कण्वमहर्षेः करकमलाभ्यां
पालिता। मातृदत्तं दिव्यसौन्दर्यं, पितुः प्राप्तम् आर्षतेजश्च
तामप्रतिमसुन्दरीं चक्रतुः। प्रथमेऽङ्के कविः ’मानुषीषु कथं वा स्यादस्य रूपस्य
सम्भवः’ इति दुष्यन्तमुखात् शकुन्तलायाः सौन्दर्यस्य अलौकिकत्वं वाचयति। ’शुद्धान्तदुर्लभमिदं
वपुराश्रमवासिनो यदि जनस्य’ इत्यपि सः निगदति। तारुण्यस्य आरम्भदशायाम् विलसन्त्याः
तस्याः सौन्दर्ये कृत्रिमतायाः लेशोऽपि नादृश्यत। अव्याजमनोहरं वपुरिति कथयता
कविना इदं स्पष्टीकृतम्। निराभरणसुन्दर्याः रूपातिशयवर्णनस्य पद्यमिदं नितरां
प्रसिद्धम्-
सरसिजमनुविद्धं
शैवलेनापि रम्यं
मलिनमपि
हिमांशोर्लक्ष्मलक्ष्मीं तनोति।
इयमधिकमनोज्ञा
वल्कलेनापि तन्वी
किमिव
हि मधुराणां मण्डनं नाकृतीनाम् ॥
शैवलैः परिवृतं कमलं, कलङ्कयुक्तः चन्द्रः च यथा
शोभेते तथैव इयं कन्या वल्कलवसनेन सुन्दरतरा विभाति इति वर्णयता कविना सौन्दर्यस्य
नवभाष्यमेव व्यरचि।
न केवलं बाह्यरूपं अपि तु शकुन्तलायाः अन्तरङ्गोऽपि
सत्त्वातिशययुक्तमासीत्। कण्वाश्रमस्य पावनपरिसरे वर्धमाना सा प्रकृतेः समस्तकल्याणगुणान्
सम्प्राप्य परिपूर्णनारीत्वं प्राप्नोत्। दयाविनयवात्सल्यादिगुणैः तस्याः हृदयविकासः
जातः। ऋष्याश्रमस्य नियमान् आत्मसात्कृत्वा परिसरस्य पावित्र्यं सदा संवर्धयन्ती व्यवर्धत।
यदा शकुन्तला ऋष्याश्रममागतं राजानमद्राक्षीत् तदा
वयोसहजः प्रेमाङ्कुरः तस्याः हृदये समजनि। परन्तु सः विकारः तपोवनविरोधी इति सा
स्वयम् आजानात्। ’किं नु खल्विदं जनं प्रेक्ष्य तपोवनविरोधिनो विकारस्य
गमनीयास्मि संवृत्ता’ इति आत्मानम् अबोधत। तेनैव अधैर्येण चिरं यावत्
प्राणसखीभ्यां प्रियंवदानसूयाभ्यामपि हृद्वृत्तं नाकथयत्। ’बलवान् खलु
मेऽभिनिवेशः। इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम्’ इति मनसि एव शल्यमन्वभवत्।
प्रेमाविह्वलावस्थायामपि अनया आत्मसंयमो न
परित्यक्तः। आर्यनार्याः संस्कृतिः तया स्पुटमेव प्रकाशिता। मारशरहतदशायामपि ’पौरव
रक्ष विनयम्। मदनसन्तप्तापि न खल्वात्मनः प्रभवामि’ इति कथयन्त्याः कण्वनन्दनायाः
शमः अनुपम एव। पाश्चात्यः विमर्शकः फ्रेझर् महाशयोऽपि तस्याः गुणान् अभिलक्षितवान्
– Eastern, subtle, evasive,
throbbing with love veiled with reserve, there yet grows within her a
passionate and seething love for the king which she tries to stifle but from
which she can find no peace(The Abhijnanashakuntalam of
Kalidas by M. R. Kale).
श्रुतिसम्मतेन गान्धर्वविधिना सा तत्रभवन्तं
दुष्यन्तमुद्वहत्। यौवनसहजाः भावनाः तस्याः मनः आक्रमन्। तस्मात् दुर्वाससः सत्कारे च्युतिरभूत्। तदर्थं
शापप्राप्तिः समजायत। एनं शापप्रसङ्गम्, अभिज्ञाननाशसन्दर्भं सृष्ट्वा कविः
शकुन्तलायाः मुग्धतामुद्घाट्य प्रेक्षकेषु वाचकेषु वा तां प्रति कारुण्यभावं
जागरयति।
शकुन्तलायाः तपोवने विद्यमानैः मृगैः सह, तरुलताभिश्च सार्धं परममैत्री आसीत्।
चतुर्थेऽङ्के पतिगृहगमनवेलायां तेषां विप्रयोगमसहमाना सातीव खिद्यते।
’न केवलं तात नियोग एव। अस्ति मे सोदरस्नेहोऽप्येतेषु। एष
वातेरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः। यावदेनं सम्भावयामि
तावदात्मनोऽपि विस्मरिष्यामि। तात लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये। तात
एषोटजपर्यन्तचारिणी गर्भमन्थरा।’
इत्यादिभिः तद्वचनैः तस्याः प्रकृतितादात्म्यं प्रकाशितं कविना।
शकुन्तला काश्यपस्य हृदयमेव आसीत्। शकुन्तलां भर्तृगृहं प्रेषयितुं सज्जतां
कुर्वाणः मुनिः ’यास्यत्यद्य शकुन्तलेति हृदयम्’ इति नितरां विलपति।
अनसूयाप्रियंवदाभ्यां साकमपि शकुन्तलायाः अव्याजप्रेम आसीत्।
परिणयानन्तरं सुसंस्कृतगृहिण्याः लक्षणानि तस्यां व्यद्योतन्त।
नृपेण सर्वेषां सम्मुखे तिरस्कृता क्षणकालं यावत् धृतकोपापि भर्तुरुपरि स्थापितं
गौरवं प्रीतिं च नाजहात्। हृदि भर्तृविषयिणीं प्रीतिं दधाना मारीचाश्रमे
मुनिवृत्तिमधरत्। सप्तमेऽङ्के तां दृष्ट्वा दुष्यन्तेन भणितानि वचांसि तस्याः
व्यक्तित्वम् परिचाययति-
वसने
परिधूसरे दधाना नियमक्षाममुखी धृतैकवेणिः।
अतिनिष्करुणस्य
शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति॥
यदा पश्चात्तापदग्धहृदयः राजा शकुन्तलायाः पादयोः
पतति तदा तं समाश्वास्य ’नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु
परिणामाभिमुखमासीत्’ इति भणति।
काश्यपस्य ’अस्मान्साधु विचिन्त्य संयमधनान्....’ इत्युक्तिं समर्थयति शकुन्तलयाश्रितपथः।
चतुरेण कालिदासशिल्पिना निर्मिता सर्वाङ्गसुन्दरमूर्तिरेव शकुन्तला। केनचित्
सुष्ठु भणितम्- ’काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला’ इति।
महाबलभट्टः, गोवा
No comments:
Post a Comment