कालिदासः न केवलं भारतस्य अपि तु समग्रविश्वस्य अग्रमान्यः कविः। कवीनां गणनायां प्राथम्येन तस्य गणना भवति। स्वस्य सप्तभिः कृतिभिः सुविख्यातः अयं भारतीयसंस्कृतेः प्रतिनिधिः वर्तते। तस्य कृतिषु विविधसन्निवेशानां निरूपणे, पात्रचित्रणे, निसर्गवर्णने च अस्माकं सनातनसंस्कृतेः प्रतिबिम्बनं दरीदृश्यते।
कालिदासेन स्वरचनासु स्त्रीपात्राणां चित्रणं हृदयहार्यकारि।
तेन निर्मितम् एकैकमपि नारीशिल्पं भारतीयसंस्कृतेः प्रतीकभूतं तिष्ठति। कालिदासकृतिषु
चित्रितानां कानिचन नारीरत्नानां परिचयम् अस्यां लेखनमालायां प्राप्नुमः।
यक्षपत्नी
विप्रलम्भशृङ्गारस्य परमोत्कृष्टकाव्येषु अग्रगण्यं
मेघदूतम् कुविकुलगुरोः अनुपमा कृतिः। अस्य काव्यस्य नायिका यक्षपत्नी अथवा यक्षी
कालिदासस्य काचित् कल्पनामूर्तिः । यद्यपि यक्ष्याः साक्षात् सन्निवेशः काव्ये
नास्ति तथापि यक्षमुखात् निःसृतं वर्णनं तस्याः मूर्तिम् अक्षिसात्करोति।
यदा शापेन अस्तङ्गतमहिमा यक्षः रामगिरेः आश्रमेषु
वसतिं विरच्य प्रियावियोगेन विह्वलो भवति, तदा प्रोषितभर्तृका तद्भार्या अलकायां
विरहसन्तापेन द्रवति। पत्न्याः स्वभावं सम्यक् जानानः यक्षः तस्याः सम्भावितदशां
मेघवरस्य पुरस्तात् वर्णयति।
तस्याः अभिज्ञानं सुलभतया भवतु इति हेतोः यक्षः आदौ स्वयोषितः
रूपवर्णनं करोति।
तन्वी श्यामा शिखरदशना पक्वबिम्बाधरोष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
वा तत्र स्याद्युवतिविषये
सृष्टिराद्येव धातुः॥
कृशं शरीरम्, श्यामवर्णः, शोभायमानदन्तपङ्क्तिः,
पक्वं बिम्बफलमिव रक्तवर्णीयौ ओष्ठौ, कृशा कटिः, हरिणनेत्रे इव नेत्रे, गभीरा
नाभिः, सभारनितम्बः, मन्दः पदनिक्षेपः, भारयुतं स्तनयुगलं एतैः सौन्दर्यलक्षणैः
संयुता यक्षी सृष्टिकर्तुः आद्या सृष्टिः इति वर्णयति कविः। यक्षः श्यामासु लतासु
तस्याः अङ्गं, चकितहरिणीनेत्रयोः दृष्टिं, चन्द्रे मुखं, मयूराणां बर्हेषु केशान्,
नदीवीचिषु भ्रूविलासं च गवेषयति। परन्तु हन्तैकस्थं क्वचिदपि न ते चण्डि
सादृश्यमस्ति इति सादृश्यमपश्यन् विलपति।
एतादृशरूपं बिभृत्यपि यक्षी तुषारपीडितकमलिनीव
विरहात् हतप्रभा स्यादिति कल्पनां करोति यक्षः। तस्याः हरिणनेत्रे उच्छूने
स्याताम्, निःश्वासनिष्पीडितौ ओष्ठौ विवर्णौ भवेताम् इत्यपि सः वदति।
यक्षपत्नी ललितकलासु असक्ता वर्तते। सा चित्रं रचयति,
वीणावादनं करोति, पुष्पैः रङ्गवल्लीं रचयति च । परन्तु, प्रियस्य स्मरणं, तेन मुच्यमानाः
अश्रुबिन्दवः तस्याः कार्ये विघ्नं जनयन्ति। वाटिकायां मन्दाराशोकादिवृक्षपालनं,
शुकमयूरादिखगलालनञ्च तस्याः प्रियकर्म अवर्तत।
यदा यक्षः पार्श्वे अविद्यत तदा यक्षी सुखमयं शृङ्गाररससमाकुलं
जीवनं यापितवती। मन्दारादिवृक्षसम्पन्ने आरामे प्रियेण सह विहरति स्म। क्रीडाशैले तेन
सह रमते स्म। शृङ्गारोद्रेके तस्याः वदनमदिरासिञ्चनं वामपादेन ताडनञ्च यक्षाय
रोचते स्म। कदाचित् सा स्वप्ने भर्तारं अन्यासक्तं दृष्ट्वा सस्वरं रुदती
प्राबोधत। तादृशसन्दर्भेषु प्रणयकुपितां तां समाधातुं यक्षः चण्डीति सम्बोधयन् तस्याः
चरणयोः पतति स्म! प्रेम्णा पत्न्याः केशोद्वेष्टनमपि करोति स्म।
शयनीये निशापतिमरीचियुक्तायां निशीथिन्यां
प्रियसङ्गमनुभूतवत्याः अधुना तान्येव हिमांशुकिरणानि महान्तं तापं जनयन्ति।
पौनःपुन्येन स्रवन्ति अस्राणि तस्याः विरहव्यथां वर्धयन्ति। भर्तरि देशान्तरगते भारतीयनार्यः
भूषणादिकं त्यजन्ति। तदनुगुणं यक्षी केशसंस्कारं, नखकर्तनं, नेत्ररञ्जनं,
मदिरापानं, भ्रूविलासञ्च परित्यज्य आर्यनार्याः प्रातिनिधित्वं न्यर्वहत्।
भर्तुः दृष्टिरेखाभिः चित्रितं कलत्रचित्रं
कालिदासस्य कल्पनाविलासस्य द्योतकम्। सत्यं ननु महामहोपाध्यायस्य मल्लिनाथसूरिणः
भणिति:- माघे मेघे गतं वयः।
No comments:
Post a Comment