Thursday, April 9, 2020

धरा


पुरा गन्धमादनपर्वते धरा नाम साध्वी पत्या द्रोणेन सह सन्तानापेक्षया तपोनिरता आसीत्। द्रोणस्य भिक्षाटनेन तयोः उदरपूरणं भवति स्म।

एकस्मिन् दिवसे द्रोणे भिक्षाटनार्थं गते कश्चन युवा वृद्धाभ्यां पितृभ्यां सह आश्रमं समागत्य क्षुधोपशमनार्थं प्रार्थयत। तेषां स्वागतं कृत्वा धरा द्रोणस्य प्रत्यागमनपर्यन्तं प्रतीक्षां कर्तुं न्यवेदयत्। परन्तु विलम्बमसहमानः युवकः क्रोधं दर्शयितुं आरभत। ’वृद्धौ मम पितरौ बुभुक्षया म्रियमाणौ वर्तेते। अत्र उपवेष्टुमपि सम्यक् स्थानं नास्ति’ इत्यादिभिः कटुवचनैः धराम् अनिन्दत्। वृद्धदम्पती क्षुधामसहमानौ मोहमुपगतौ। 

’यदि विलम्बायते, निश्चयेन एतौ मरणं प्राप्स्येते’ इति विचिन्त्य धरा स्वयं समीपस्थं ग्रामं गतवती। प्रथमवारम् आश्रमाद्बहिरागता सा पुरुषसङ्कुलितम् आपणं गत्वा पिष्टदानार्थं आपणिकं प्रार्थयत। तत्रस्थानां पुरुषाणां कामदृष्टयः तस्याः उपरि पतिताः। आपणिकोऽपि तयैव दृष्ट्या धनहीनां धरां पश्यन् ’त्वत्सकाशे विद्यमानं किमपि दीयते चेत् अवश्यं पिष्टं ददामि’ इत्यवदत्। तथा प्रतिश्रुतवत्यां धरायां विकृतमनाः आपणिकः ’तव हृदयभागे विराजमानौ अमृतकलशौ प्रदीयेताम्’ इति विकारहासेन उदीरयत्।

तस्य भावम् अवगतवती धरा अनन्यगतिकतया पिष्टम् स्वीकृत्य आपणस्थया निशितछुरिकया स्वस्याः स्तनद्वयमपि कर्तयित्वा आपणिकमुखोपरि क्षिप्त्वा जनेषु सम्भ्रान्त्या अवलोकयत्सु आश्रमं प्रति प्राधावत्। अतिथिभ्यः अन्नं समर्प्य अतीवरक्तस्रावेण धराशायिनी सञ्जाता।

आश्रमपरिसरः महता तेजसा प्राकाशत। युवकस्य स्थाने श्रीमन्नारायणः वृद्धदम्पत्योः स्थाने पार्वतीपरमेश्वरौ च दृष्टाः। अतिथिसत्कारधर्मपरिपालनाय स्वस्याः स्तनद्वयं परित्यक्तवतीं धरां प्रशंसमानः श्रीहरिः ’अग्रिमजन्मनि अहं भवत्याः स्तन्यं पास्यामि’ इति वरप्रदानेन अन्वगृह्णात्।

कालान्तरे धरा एव यशोदारूपेण जन्म प्राप्य बालकृष्णं स्तन्येन अपोषयत्।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...