Wednesday, April 8, 2020

श्रुतावती


महर्षेः भरद्वाजस्य तनया श्रुतावती परमसुन्दरी विद्यासम्पन्ना च आसीत्। तस्याः तपोनिष्ठा अप्रतिमाऽसीत्। देवेन्द्रं पतिरूपेण प्राप्तुं तस्याः तीव्रतरेच्छा आसीत्। तदर्थं ब्रह्मर्षेः वसिष्ठस्य मार्गदर्शने उग्रं तपः समारभत।

तपसा प्रसन्नः शक्रः तस्याः सत्त्वपरीक्षणार्थं वसिष्ठस्य रूपधारणं कृत्वा तत्र आययौ। तपोधनं वसिष्ठमहर्षिं दृष्ट्वा प्रहृष्टमना श्रुतावती तस्य स्वागतं विधाय भक्त्या सत्कृतवती। महर्षिः तस्यै पञ्च बदरीफलानि दत्त्वा तैः पाकं कृत्वा परिवेषयितुमादिशत्। आह्निकाय नदीं गतवति वसिष्ठे श्रुतावती पाकं समारभत।

बहुकालपर्यन्तं चुल्युपरि अग्निसम्पर्के स्थापितान्यपि बदरफलानि न पक्वतां गतानि। श्रुतावत्याः काष्ठसङ्ग्रहः समाप्तिं गतः। वसिष्ठस्य आगमनवेला आसन्ना। अतिथिसत्कार्ये व्यत्ययम् अनिच्छन्ती तपस्विनी स्वपादौ काष्ठवत् हुताशने संस्थाप्य शाखं व्यवर्धयत्।

वसिष्ठरूपी सङ्क्रन्दनः आह्निकं समाप्य आश्रमम् आयातः। श्रुतावत्याः दह्यमानौ पादौ दृष्ट्वा मृदुहसन् ताम् उत्थाप्य अन्वगृह्णात्।
शुतावत्याः आश्रमपरिसरः बदरापचनतीर्थम् इति ख्यातः इति महाभारते उल्लेखः दृश्यते।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...