नर्मदातीरे अमरकण्टकनाम्नि
तीर्थक्षेत्रे सोमशर्मा नाम सद्गुणी विप्रः प्रतिवसति स्म। च्यवनमहर्षेः पुत्री
सुमना तस्य धर्मपत्नी आसीत्। सा विदुषी धर्मज्ञा च अवर्तत।
एकदा सा पत्युः म्लानं वदनम्
अवलोक्य कारणम् अजिज्ञासत। दारिद्रता पुत्रहीनता च चिन्तायाः कारणद्वयमिति
सोमशर्मा प्रत्यवदत्। तदाकर्ण्य सुमना तम् उपदिष्टवती – ’आर्यपुत्र! धनचिन्ता
जीवितं दहति। सन्तानप्राप्तिरपि पूर्वकर्मानुसारं भवति। केचन पुत्रान् न्यासरूपेण
प्राप्नुवन्ति। तादृशपुत्राः किञ्चित् कालं यावत् पितृभ्यां सह उषित्वा
निर्गच्छन्ति। तस्मात् दुःखं जायते। अन्ये केचन गतजन्मनः ऋणदातॄन् पुत्ररूपेण
प्राप्नुवन्ति। ते पुत्राः जन्मदात्रोः सम्पदः उपभुञ्जानः दुःखदाः भवन्ति।
पूर्वजन्मनः शत्रवः केचन पुत्ररूपेण जन्म प्राप्य पित्रोः जीवनं नरकसदृशं
कुर्वन्ति। गतजन्मनि उपकृताः यदि पुत्ररूपेण आगच्छन्ति तर्हि ते ऋणपरिहारार्थं
सेवां कुर्वन्ति। अपरे केचन उदासीनसुतान् प्राप्नुवन्ति। ते पुत्राः न किमपि
स्वीकुर्वन्ति, न किमपि ददति। ते सन्तुष्टाः अपि न भवन्ति, कोपसन्तप्ताः अपि न
भवन्ति। भवान् पुत्रहीनतायाः कारणं ज्ञातुं वसिष्ठमहर्षेः दर्शनं करोतु” इति।
पत्न्याः तत्त्वोपदेशेन
प्राप्तोत्साहः सोमशर्मा वसिष्ठाश्रमं ययौ। महर्षेः मार्गदर्शनेन श्रीमन्नारायणस्य
उपासनां विधाय श्रियमार्जयत्। सुमना तस्य कर्मणि सम्पूर्णसहकारमदात्। कालक्रमेण तयोः
सुव्रतनामा पुत्रः अजनि। सुव्रतः परिश्रमेण अध्ययनं कृत्वा विद्वान् सम्बभूव।
No comments:
Post a Comment