Sunday, April 19, 2020

बादरायणसम्बन्धः


🌹पुष्पम् - २२

*_बादरायणसम्बन्धः_*

बादरायणसम्बन्धन्यायः भवद्भिः श्रुतपूर्वः स्यात् । तस्य बादरायणव्यासस्य च कोऽपि सम्बन्धः नास्ति। तस्य मूलकथा रुचिरा वर्तते । पठ्यताम्...

कश्चन यात्रिकः शकटेन ग्रामान्तरं गन्तुमुद्यतः । मध्येमार्गं तेन स्वस्य शकटे दोषः दृष्टः । तस्य सम्यक्करणार्थं समयः अपेक्षितः आसीत् । माध्याह्नकालः । बहिः आतपः, उदरे जठराग्निश्च तापयतः ।

मार्गपार्श्वे गृहमेकं दृग्गोचरीभूतम्। यात्रिकः गृहं प्राविशत्। बहुकालात् परिचितः इव गृहजनैः सह व्यवहर्तुमारभत। गृहस्वामी तु सः पत्न्याः सम्बन्धी स्यादिति विचिन्त्य स्वागतमकरोत्। पत्नी पत्युः बान्धवः स्यादिति चिन्तयित्वा आतिथ्यं न्यवर्तयत् । यात्रिकः निस्सङ्कोचं भोजनाद्युपचारान् प्रत्यगृह्णात् ।

भोजनोत्तरं गृहस्वामी धैर्येण तम् अपृच्छत् – ’महानुभाव! आवयोः कः सम्बन्धः?’ इति। तदा उच्चैः हसन् गृहप्राङ्गणे स्थितं बदरीपादपं दर्शयित्वा सोऽब्रवीत्

*अस्माकं बदरीचक्रं युष्माकं बदरीतरुः।*
*बादरायणसम्बन्धात् यूयम् यूयम् वयम् वयम् ॥*

मम शकटस्य चक्रं बदरीकाष्ठनिर्मितं विद्यते । भवतः अङ्गणे कश्चन बदरीवृक्षः वर्तते । अतः आवयोः बादरायणसम्बन्धः' इत्युक्त्वा सेवकेन सज्जीकृते शकटे उपविश्य प्रयाणमन्ववर्तयत् ।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...