🌻पुष्पम् - २०
भोजराजस्य अक्षरलक्षयोजना तस्य
मुख्यमन्त्रिणः निद्रामपहरत् । कोशः शीघ्रमेव रिक्तः भविष्यतीति सः चिन्तामग्नः सञ्जातः
।
कथमपि धनदानं न्यूनीकरणीयमिति
धिया तेन कश्चन उपायः कृतः । भोजास्थाने एकपाठिनः, द्विपाठिनः,
त्रिपाठिनश्च आसन् । यदा कश्चन कविः नूतनकवितां प्रस्तौति, तदा एकपाठी तां पुनरुच्चार्य ज्ञातपूर्वेयं कवितेति प्रतिपादयति स्म । द्विपाठिनः,
त्रिपाठिनश्च क्रमशः अनुपठनं विधाय तत् पद्यं प्राचीनमिति प्रतिपादयन्ति
स्म । अनेन पुरस्कारस्वीकर्तॄणां संख्यायां ह्रासः दृष्टः ।
कविकुलगुरवे नारोचत मन्त्रिणः
चिन्तनम् । अतः सः कञ्चन कविम् आहूय पद्यमेकं विरच्य प्रादात् ।
*स्वस्ति श्रीभोजराज!
त्वमखिलभुवने धार्मिकः सत्यवक्ता*
*पित्रा ते सङ्गृहीता नवनवतिमिता
रत्नकोट्यो मदीयः ।*
*तांस्त्वं देहीति राजन्!
सकलबुधजनैर्ज्ञायते सत्यमेतत्*
*नो वा जानन्ति यत्तन्मम कृतिमपि
नो देहि लक्षं ततो मे ॥*
’हे राजन्! भवतः पित्रा नवनवतिकोटिरत्नानि मत्तः ऋणरूपेण स्वीकृतान्यासन्। एषः विषयः
भवतः आस्थानपण्डितैरपि ज्ञायते । अतः तद्धनं मह्यं ददातु अथवा यदि अयं विषयः अज्ञातश्चेत्
मम पद्यस्य प्रत्यक्षरं लक्षसुवर्णनाकानि यच्छतु’ इति पद्यस्य
आशयः ।
सम्प्रति, यदि कवितेयं ज्ञातपूर्वेति पण्डिताः वदन्ति, तर्हि भोजस्य
ऋणभारः समर्थितः भवति । यदि कविता प्रत्यग्रेति अङ्गीक्रियते राज्ञा ८४ लक्षसुवर्णनाणकानि
दातव्यानि भवन्ति ।
अनन्यगतिकतया पद्यं अर्वाचीनमिति
अङ्गीकृत्य ८४ लक्षसुवर्णनाणकानि प्रदाय कविवरं प्रेषयामास ।
No comments:
Post a Comment