Sunday, April 19, 2020

रामवैरिभगिनीव राजसे


पुष्पम् - १९

            कोलाचल-मल्लिनाथस्य कथां भवन्तः पठितवन्तः एव । स: सदा महाकाव्यानाम् अनुसन्धानं कुर्वन् काव्याङ्गनानां वर्णने एव रतः भवति स्म । तस्माद् तस्य पत्नी खिद्यते स्म । सा एकदा भर्तारम् अकथयत्

आर्यपुत्र! भवान् तु सर्वदा काव्यवनितायाः वर्णनमेव करोति । मम वर्णनं तु कदापि न करोति एव। किमेतत् उचितम्?” इति ।

       मल्लिनाथः मृदुहसन् एतत् पद्यं विरच्य अपठत्

*तिन्त्रिणीदलसमानलोचने*
*देवदुन्दुभिसमानमध्यमे ।*
*अर्कशुष्कफलवध्वनस्तनि*
*रामवैरिभगिनीव राजसे ॥*

       ’विशाललोचनत्वं सौन्दर्यसङ्केतः भवति । तिन्त्रिणीदलानि तु लघूनि भवन्ति, तद्वत् सौन्दर्यहीने ते लोचने इत्याशय: । तथैव कृशकटिः सुन्दर्याः लक्षणम् । एतस्याः कटिः तु देवदुन्दुभिवत् स्थूला । इतोपि सभारस्तनयुगलमपि सौन्दर्यशास्त्रानुसारं सुन्दरस्त्रियः लक्षणं भवति । अस्याः स्तनद्वयं शुष्कार्कफलवत् लघु अस्ति । अन्तिमपङ्क्तिः तु वर्णनातिशयमेव वहति । रामवैरी रावणः । तस्य भगिनी शूर्पणखा । तस्याः सौन्दर्यमिव भवत्याः अपि सौन्दर्यम्! इति स्वपत्नीं वर्णयतः पण्डितस्य कृते रात्रिभोजनमासीद्वा अथवा पात्राणि ध्वनिमकुर्वन् वा न जाने ।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...