Saturday, April 18, 2020

सरमा सूर्या सावित्री च


सरमा-
देवलोकस्य शुन्याः नाम सरमा। दशममण्डलस्य १०८तमे सूक्ते अस्याः विक्रमः वर्णितः वर्तते। अस्मिन् सूक्ते वर्णिता घटना कौतूहलं जनयति। अपराधिनां गवेषणार्थं शुनकानाम् उपयोगः ऋग्वेदकाले एव कृतः इति अस्मात् सूक्तात् ज्ञायते।

आङ्गीरसानां धेनून् फणिनामकः चोरगणः अपहृत्य गुहायां गोपयति। आङ्गीरसाः तद्रक्षणार्थं सुराधिपतिं प्रार्थयन्ते। इन्द्रः सुपर्णनामकं पक्षिणं चोरग्रहणार्थं प्रेषयति। परं चोरेभ्यः उत्कोचं स्वीकृत्य सुपर्णः इन्द्रस्य विश्वासद्रोहं करोति। शचीपतिः तत्कार्यं सरमायै ददाति। सा स्वस्याः अपत्येभ्यः गोदुग्धं दातुम् इन्द्रं निवेद्य कार्ये प्रवर्तते। अतीव विचक्षणतया सरमा चोराणां गुप्तस्थानं अन्विष्य तत्र प्राप्नोति। ’त्वम् अस्माकं स्वसा भव, इन्द्रं विस्मर’ इति चोराः तां बोधयन्ति। परन्तु स्वामिनिष्ठा कुक्कुरी एतद्विषयं इन्द्रं ज्ञापयति। इन्द्रः फणीनां नाशं कृत्वा गवां रक्षणं करोति।

एवं चतुरा अपराधगवेषिका सरमा विश्वासपात्रतायाः सङ्केतः जाता। तस्याः जात्यपत्यानि सारमेयाः इदानीं तत्कार्ये निष्णाताः सन्ति।

सूर्या सावित्री-
इयं सूर्यस्य पुत्री प्रजापतिना पालिता च। ऋग्वेदस्य दशममण्डलस्य ८५तमसूक्ते अस्याः विवाहवर्णनं वर्तते। विवाहसमये सोमः एतस्यै त्रयीम् अददात्। उद्वाहे उपयुज्यमानाः प्रसिद्धाः मन्त्राः सूक्तेऽस्मिन् वर्तन्ते। पाणिग्रहणकाले वरेण उच्यमानः ’गृभ्णामि ते सौभगत्वाय हस्तम्’ इति मन्त्रः अस्मिन्नेव सूक्ते दृश्यते। वधूः सुमङ्गला विद्यते, तस्यै सौभाग्यं प्रयच्छन्त्विति निवेदयितुं ’सुमङ्गलीरियं वधूः समेत पश्यत’ इति ऋक् प्रवर्तते। अन्तिमे ’सम्राज्ञी श्वशुरे भव, सम्राज्ञी श्वश्रां भव’ इत्यस्मिन् मन्त्रे पतिगृहे वधूः श्वशुरश्वश्रूदेवरननान्दॄणां मनांसि विजित्य साम्राज्ञी भवत्विति उन्नताशयः अभिव्यक्तः वर्तते।


बृहद्देवता इति ग्रन्थस्य द्वितीयाध्याये वेदकालीनानाम् ब्रह्मवादिनीनां नारीणाम् उल्लेखः वर्तते।

घोषा गोधा विश्ववारा अपालोपनिषन्निषत्।
ब्रह्मजाया जुहुर्नाम अगस्तस्य स्वसादितिः।
इन्द्राणी चेन्द्रमाता च सरमा रोमशोर्वशी ।
लोपामुद्रा च नद्यश्च यमी नारी च शश्वती॥
श्रीर्लाक्षा सार्पराज्ञी वाक् श्रद्धा मेधा च दक्षिणा।
रात्रिः सूर्या च सावित्री ब्रह्मवादिन्य ईरिताः॥

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...