Friday, April 17, 2020

अन्यतमाः ऋषिकाः


वैवस्वती यमी – सरण्यूसूर्ययोः पुत्रौ यमः यमी च। ऋग्वेदस्य दशममण्डलस्य दशमसूक्ते एतयोः संवादो वर्तते। यमी सोदरेण यमेन तस्याः कामतृषोपशमः करणीयः इति अभिलषति। परन्तु यमः तदनङ्गीकृत्य भ्रातृस्वस्रोः दैहिकसम्बन्धः अप्राकृतिकः इति तां बोधयति। दशममण्डलस्य १५४तमस्य सूक्तस्य ऋषिका अपि इयमेव।

इन्द्रमाता – दशममण्डलस्य १५३तमसूक्तस्य ऋषिकेयम्। पञ्चमन्त्रात्मकमिदं सूक्तम् इन्द्रपरकं वर्तते।

शिखण्डिन्यः – कश्यपमुनिकुमार्यः शिखण्डिन्यः नवममण्डलस्य पवमानसोमपरस्य १०४तमसूक्तस्य द्रष्ट्र्यः।

रात्रिः - दशमण्डलस्य अष्टमन्त्राणां १२७तमसूक्तं रात्रिसूक्तमिति प्रसिद्धम्। एतस्य ऋषिकायाः नाम अपि रात्रिः। सा भरद्वाजमुनेः पुत्री आसीत्।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...