Thursday, April 16, 2020

अपराः काश्चन ऋषिकाः


रोमशा – बृहस्पतेः कुमारी भावभव्यस्य पत्नी रोमशा विदुषी आसीत्। अस्याः देहः रोममयः आसीत्। अतः पतिः तस्यां न अस्निह्यत्। महिलानां विद्याभ्यासविषये स्वाभिमानयुक्तजीवनविषये च समाजे अजागरयत्। ऋग्वेदस्य प्रथममण्डलस्य १२६तमसूक्तस्य अन्तिममन्त्रस्य ऋषिकेयम्। सामवेदस्य नैकानि सूक्तानि तस्याः नाम वहन्ति।

उर्वशी- ऋग्वेदस्स्य अनेकेषु संवादसूक्तेषु उर्वशीपुरूरवसंवादसूक्तम् अन्यतमम्। दशममण्डलस्य ९५तमसूक्ते अप्सरसः उर्वश्याः, चन्द्रवंशस्य राज्ञः पुरूरवस्य च मध्ये प्रवृत्तः संवादः वर्तते। देवसभायाः अप्सराः उर्वशी यदा विहारार्थं भूलोकमागता तदा तां पुरूरवः अकामयत। समयत्रयं विधाय उर्वशी तं वरयितुं अङ्गीकरोति।

प्रथमतया तस्याः अजाः रक्षणीयाः, द्वितीयतया तया केवलं घृतस्य सेवनं क्रियते, तृतीयतया सम्भोगसमयं विना अन्यसमयेषु तया सः विवस्त्रः न दृश्येत इति नियमत्रयं तया उपस्थापितम्। उर्वश्या विना स्वर्गे स्थातुम् अक्षमाः देवताः रात्रौ भूलोकमागत्य उर्वश्याः अजाः अपाहरन्। तासां रक्षणार्थं उत्थितः पुरूरवः उर्वश्या विवस्त्रः दृष्टः। नियमभङ्गकारणात् उर्वशी पुरूरवं त्यक्त्वा नाकं ययौ।

वसुक्रपत्नी – इन्द्रपुत्रस्य वसुक्रस्य पत्नी इयम्। दशममण्डलस्य अष्टाविंशतितमसूक्तस्य ऋषिका वर्तते। द्वादशमन्त्रयुतेऽस्मिन् सूक्ते इन्द्रस्य वसुक्रस्य च स्तुतिः वर्तते।

इन्द्राणी – दशममण्डलस्य ८६तमसूक्तस्य ऋषिका इन्द्राणी। इन्द्रपरकस्य अस्य सूक्तस्य दश ऋचः इन्द्राण्याः वर्तन्ते।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...