Wednesday, April 15, 2020

अन्याः काश्चन ऋषिकाः


वागाम्भ्रणी - अम्भ्रणर्षिकुमारी वाक् दशममण्डलस्य १२५तमसूक्तस्य ऋषिका। अत्युन्नतायाम् अद्वैतावस्थायां रममाणा इयं ब्रह्मवादिनी सच्चित्सुखस्वरूपेण परमात्मना तादात्म्यमनुभवन्ती स्वस्यैव स्तुतिं करोति। ’अहमेव मरुत्, अहमेव मित्रः, रुद्रः.... एवं वर्णयन्ती आत्मना एव सर्वमपि व्याप्तमिति तत्त्वं प्रतिपादयति।

श्रद्धा कामायनी: ऋग्वेदस्य दशमण्डलस्य १५१तमसूक्तस्य देवता श्रद्धा। पञ्चमन्त्राणाम् अस्य सूक्तस्य ऋषिका श्रद्धा कामायनी। ज्ञानसम्पादने, दाने, कर्मणि एवं जीवनस्य प्रतिक्षणमपि श्रद्धा भवेदिति भगवद्गीतादयः नैके ग्रन्थाः प्रतिपादयन्ति। प्रातः, मध्याह्ने, सन्ध्यायाञ्च श्रद्धादेव्याः अनुग्रहः भवतु इति सा प्रार्थयते।

सर्पराज्ञी: ऋग्वेदस्य दशममण्डलस्य १८९तमसूक्तस्य ऋषिका सर्पराज्ञी। सूर्यदेवतापरके अस्मिन् सूक्ते गायत्रीछन्दसि तिस्रः ऋचः सन्ति। इदं सूक्तं वेदान्तरेष्वपि दृश्यते।

सुदितिः अष्टममण्डलस्य ७१तमसूक्तं आङ्गीरसपुरुमीळाभ्यां सह सुदित्या विरचितम्। १५मन्त्राणाम् इदं सूक्तम् अग्निपरकं वर्तते।

जरिता: दशममण्डलस्य १४२तमसूक्तस्य द्रष्ट्री जरिता। महाभारतस्य आदिपर्वणः २३०तमे अध्याये विद्यमानायां कथायां जरित्रा खाण्डववनस्य काचित् पक्षिणी इति वर्णितमस्ति। मन्दपालमुनेः संसर्गेण सा चतुर्णां ब्रह्मज्ञानिनां पुत्राणां जनयित्री अभवत्। अग्निः यदा खाण्डववनदहनार्थम् उद्युक्तः तदा स्वस्याः पुत्राणां रक्षणार्थं अग्निस्तुतिं करोति। सूक्तस्य प्रथममन्त्रद्वयं अस्याः नाम्ना प्रथितं वर्तते।

सिकता निवावरी: नवममण्डलस्य ८६तमसूक्तस्य दशमन्त्राणां ऋषिका इयम्। पवमानसोमः अस्य सूक्तस्य देवता।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...