Tuesday, April 14, 2020

काश्चित् ऋषिकाः


वेदद्रष्ट्रीणां बह्वीनां नारीणां जीवनगाथा अलभ्या एव । यावती उपलब्धा तावती प्रस्तूयते ।

शाश्वती आङ्गीरसी : आङ्गीरसगोत्रस्य ऋषिकेयम् । अष्टममण्डलस्य प्रथमसूक्तस्य अन्तिमा ऋक् अनया रचिता । केनापि कारणेन तस्याः भर्तुः पुरुषत्वनाशः सञ्जातः। इन्द्रं सम्प्रार्थ्य कष्टं परिहृत्य आनन्दमविन्दत इति अस्यां ऋचि वर्णितम् ।

अदितिः – चतुर्थमण्डलस्य अष्टादशसूक्तस्य सप्तमर्चः ऋषिका अदितिः। अस्मिन् मन्त्रे ’मम पुत्रः वृत्रासुरं हत्वा नद्यः स्वतन्त्रतया प्रवहितुं आनुकूल्यमकल्पयत्’ इति वर्णितवती । कश्यपपत्नी देवजननी अदितिः एव एषा इति सम्भाव्यते ।

अदितिदाक्षायणी – दशममण्डलस्य ७२तमसूक्तस्य रचयित्री इयम् । सूक्तेऽस्मिन् सृष्टिक्रमः उपवर्णितः। दक्षप्रजापतिः अदितिमसृजत्, तया देवताः सृष्टाः इति तत्र वर्णितम् ।

गोधा – दशममण्डलस्य १३४तमसूक्तस्य षष्ठी सप्तमी च ऋचौ अस्याः नाम वहतः। इन्द्रस्तवनं सूक्तेऽस्मिन् वर्तते ।

प्राजापत्या दक्षिणा – दशममण्डलस्य १०७तमसूक्तस्य रचयित्री एषा । दक्षिणायाः महत्त्व विवृतम् । 

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...