Monday, April 13, 2020

वेदवती

कुशध्वजमालावत्योः पुत्री वेदवती आसीत्। तस्याः जननानन्तरं सूतिकागृहतः वेदमन्त्राः श्रुताः। अतः तस्याः नाम वेदवती इत्यभवत्। संसारसागरे निमज्जयितुम् अनिच्छन्ती सा कनीयसि वयसि एव तपः समाचरितुम् आरभत।

अरण्ये तपः आचरन्तीम् एकाकिनीं दृष्ट्वा रावणः स्वस्य पुष्पकविमानात् अवतीर्य तस्याः आश्रमं समागतः। अनिरीक्षिततया समागतम् अतिथिं सा यथोचितं सत्कृतवती। परन्तु कामातुरः रावणः तस्याः उपरि हस्तमस्थापयत्। क्रुद्धा वेदवती स्वतपःप्रभावेण तं निश्चेष्टितम् अकरोत्। हस्तपादजिह्वादिचालनं कर्तुमशक्तः समभूत् रावणः। मनसा एव तां शरणं गतः। ’परनार्याः सङ्गं करोति चेत् त्वं मरणं प्राप्नुहि। स्त्रीकारणेनैव तव मरणं भवतु’ इति शापम् अददात्।

दुष्टस्य स्पर्शनेन मलिनं देहं धर्तुम् अनिच्छन्ती वेदवती योगाग्निना आत्मानम् अदहत्। लक्ष्म्याः अंशतः जाता वेदवती अग्रिमजन्मनि सीतारूपेण जन्म प्राप्य रावणस्य विनाशकारणं बभूव।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...