Sunday, April 19, 2020

सञ्चितार्थं विनश्यति


🌸पुष्पम् - २३

भोजराजस्य कविजनप्रीतिः मुख्यमन्त्रिणः चिन्ताकारणमजायत। कथं भूपतिः बोधनीयः इति चिनतामग्नः सः कञ्चित् यत्नमारभत।

परेद्युः नृपतेः स्नानगमनमार्गे 'आपदर्थं धनं रक्षेदिति व्यलिखत्। तत् पठित्वा नृपः तस्य अधः श्रीमताम् आपदः कुतः? इत्यलिखत्।

सर्वप्रयत्नमनुवर्तयन् मन्त्री 'सा चेदपगता लक्ष्मीः' इति लिखितवान्। भूयः राज्ञः उत्तरमागतम् - सञ्चितार्थं विनश्यति' इति।

नृपमन्त्रिणोः संवादः पद्यरूपेण पर्यणमत्।

*आपदर्थं धनं रक्षेत्*
*श्रीमतामापदः कुतः?*
*सा चेदपगता लक्ष्मीः*
*सञ्चितार्थं विनश्यति।।*

मन्त्री निरुत्तरः सञ्जातः।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...