Sunday, April 19, 2020

द्वितीया स्यामहं कथम्?


पुष्पम् - २४

क्रिस्ताब्दस्याष्टादशशतके केरलराज्ये मनोरमा नाम विदुषी प्रत्यवसत्। तस्याः पत्यु: मरणानन्तरं तया पुनरपि वरान्वेषणमारब्धम्। नैकेषु शास्त्रेषु कृतपरिश्रमा सा वरणीयस्य ज्ञानपरीक्षां करोति स्म। तस्याः प्रश्नस्य उत्तरं दातुमशक्ताः नैराश्यं प्राप्य गच्छन्ति स्म।

     एकदा कश्चन रामशब्दपण्डितः तां परिणेतुमिच्छन् समागतः। तं परीक्षमाणा मनोरमा 'विहस्य', 'विहाय', 'अहम्' इत्येषां पदानां व्याकरणदृष्ट्या रूपपरिचयं कारयितुम् अकथयत्।

     रामशब्दस्य विभक्तिरूपाण्येव जानन् सः 'महा'पण्डितः विहस्य इत्यस्य रामस्य इतिवत् षष्ठीविभक्तिरिति, विहाय पदस्य रामाय इतिवत् चतुर्थीविभक्तिरिति, अहम् इत्यस्य रामम् इव द्वितीयाविभक्तिरिति च न्यगदत्।

वरपरीक्षानन्तरं कोऽपि 'कथमस्ति वरः?' इत्यपृच्छत्। तदा विषादेन साब्रवीत् -

*यस्य षष्ठी चतुर्थी च*
*विहस्य च विहाय च।*
*अहं च द्वितीया स्यात्*
*द्वितीया स्यामहं कथम्?।।*
(द्वितीया = पत्नी)

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...