महाभारते श्रुतावती, सिद्धा, सुलभा
इत्यादीनां ब्रह्मवादिनीनाम् उल्लेखः अस्ति। तत्र सुलभा नाम योगिनी प्रथितयशा
वर्तते। शान्तिपर्वणः ३२०तमे अध्याये तस्याः चरितम् उपलभ्यते।
प्रधाननामकस्य राजर्षेः सुपुत्री
आसीत् सुलभा। अधिगतशास्त्रा सा श्रेष्ठा योगिनी अवर्तत। स्वविद्याज्ञानयोः
अनुरूपगुणोपेतः वरः न लब्धः इति कारणेन वैराग्य एव मोक्षसाधनमिति विचिन्त्य
संन्यासं स्व्यकरोत्। सा परिव्राजिका भूत्वा ब्रह्मज्ञानिनः सन्दर्शयन्ती
आत्मविचारचर्चां करोति स्म।
कदाचित् राजर्षिजनकस्य
कीर्तिमाकर्ण्य तेन सह संवादं कर्तुमभ्यलषत्। तदर्थं सुन्दरयुवत्याः रूपं धृत्वा
मिथिलाम् अध्यतिष्ठत्। जनकः तस्यै सादरं स्वागतं व्याजहार।
जनकस्य आध्यात्मोपलब्धिं
परीक्षितुं योगिनी योगमार्गेण जनकस्य मनः प्राविशत्। राजर्षिः तज्ञात्वा अप्रतिभः
जातः। सः ताम् अभाषत – ’हे तरुणि! का त्वम्? कस्याः वनिता? एवं परपुरुषस्य
चित्तप्रवेशः नोचितः। मम प्रज्ञया तव प्रज्ञां मेलयित्वा व्यभिचर्यते त्वया’ इति।
एतत् प्रतीक्षन्ती सुलभा मन्दहासं
प्रदर्श्य अवोचत् – ’हे राजर्षे! इदं शरीरं पाञ्चभौतिकम्। सर्वेषां देहे विराजमानः
देही एक एव। पारमार्थिकतया सर्वे एकस्य एव ब्रह्मणः अंशाः। अतः सर्वेषाम् एकत्वम्
अङ्गीकार्यम्। अवयोर्मध्ये विद्यमानः व्यत्यासः प्राकृतिकः केवलम्। एवं सति कुतो
वा त्वं मम आत्मनि तव आत्मानं, मम देहे तव कायञ्च दृष्टुं नार्हसि। त्वं इतोऽपि द्वैतभावं
तीर्त्वा अद्वैतभावं न प्राप्सीः। त्वं जीवन्मुक्तस्थितेः बहुदूरे तिष्ठसि। अत एव
का त्वं, कस्य त्वम् इत्यादीन् मूर्खप्रश्नान् पृच्छसि। मम अन्तरात्मनः मम देहेन
सह सम्बन्धः नास्ति। एवं विद्यमाने मम आत्मा त्वद्देहं प्रविशति चेत् कथं
व्यभिचारः भवति? पञ्चशिखमुनिभिः बोधितं तत्त्वम् अनवगत्य एवं निरर्थकं प्रलपसि।
ब्रह्मज्ञानात् अतिदूरे स्थितोऽसि’ इति।
स्तम्भीभूतः जनकः पिहितास्यः सन्
सुलभां शरणङ्गतः। ब्रह्मजिज्ञासूनां संसदि राजर्षिरिति ख्यातं जनकं सुलभा सुलभतया
वादे जितवती ।
नारी एकाकिन्यपि
धैर्यस्थैर्यविचारशीलतादिगुणैः जीवनस्य परमोच्चस्तरं प्राप्तुमर्हति इत्यस्य
निदर्शनम् सुलभायाः जीवनम् ।
No comments:
Post a Comment