ममता नाम साध्वी यदा गर्भवती आसीत् तदा तस्याः देवरः
बृहस्पतिः अत्याचरितुं प्रायतत। गर्भस्थः पिण्डः तम् अवरुद्धवान् इति कारणतः
जनिष्यमाणः शिशुः अन्धः भवतु इति देवगुरुः शापम् अददात्। तदनुसारं प्राप्तजनिः
दीर्घतमाः जन्मान्धः आसीत्।
दीर्घतमसः पत्नी प्रद्वेषिणी स्वस्याः नाम सार्थकं
कुर्वती तस्मै दिद्वेष। एकदा गौतमादिपुत्राणां साहाय्येन दृष्टिहीनं पतिं
गङ्गानद्यां न्यमज्जयत्।
दीर्घतमाः स्वस्य योगशक्त्या गङ्गानद्यां प्लोतुमारभत।
अङ्गराज्याधिपतिः बली तादृशावस्तहायां तं दृष्ट्वा स्वप्रासादं प्रति समानीय
उपचारम् अकरोत्। मुनेः सेवार्थं राज्ञी स्वयम् उपातिष्ठत्। परन्तु
किञ्चित्कालानन्तरं निरासक्तिं प्राप्य स्वस्याः सेविकां उशिजां मुनिसेवायां
न्ययोजयत्।
उशिजा श्रद्धया भक्त्या च महर्षेः सेवामकरोत्। तस्याः
सेवापरतां आध्यात्मज्ञानपिपासां च अवलोक्य दीर्घतमाः तां पत्नीरूपेण पर्यगृह्णात्।
दीर्घतमसः तत्त्वोपदेशेन उशिजा ब्रह्मवादिनी सञ्जाता। प्रसिद्धौ ऋषी कक्षीवान् दीर्घश्रवाः
च उशिजायाः पुत्रौ। ब्रह्मज्ञानपरायणा घोषा कक्षीवतः पुत्री। ऋग्वेदस्य
प्रथममण्डलस्य षट् सूक्तानि कक्षीवता रचितानि। सूक्तपठनावसरे
ऋषिनामस्वीकरणसन्दर्भे कक्षीवान् दैर्घतमः औशिजः इत्युच्चार्य उशिजायै अपि गौरवं दीयते।
No comments:
Post a Comment