देवगिरिप्रान्ते आसीत् कश्चन
ब्राह्मणः सुधर्मनामा। तस्य पत्न्याः अभिधानं सुदेहा इत्यविद्यत। अन्योन्यप्रीत्या
सुखदाम्पत्यं निर्वहतः आस्ताम्। परं सन्तानहीनता तौ बाधते स्म। कालान्तरे पत्न्याः
अनुरोधवशात् तस्याः भगिनीं घुष्माभिधां सुधर्मः परिणीतवान्।
घुष्मा शिवभक्ताऽसीत्। प्रतिदिनं
मृत्तिकया शिवलिङ्गं विरच्य अर्चयति स्म। पूजानन्तरं समीपस्थे सरोवरे लिङ्गं
विसर्जयति स्म।
सोदर्यौ परस्परप्रीतिमत्यौ
आस्ताम्। सपत्नीभावः तिलमात्रमपि तयोः मनसि नावर्तत। किन्तु यदा घुष्मा पुत्रवती जाता
तदा पतिह् ताम् आधिक्येन प्रीणयेदिति सम्भाव्य सुदेहायाः मनसि मात्सर्यभावः
समुत्पन्नः।
घुष्मायाः पुत्रः यौवनं
प्राप्तवान्। सुन्दर्या युवत्या सह तस्य विवाहः प्रवर्तितः। स्नुषायाः आगमनानन्तरं
सुदेहायाः मात्सर्यभावः द्वेषस्वरूपं प्राप्नोत्। एकस्यां रात्रौ शय्यायां
प्रसुप्तं पुत्रं शस्त्रेण हत्वा सरोवरेऽक्षिपत्। प्रातः पतिम् उत्थापयितुमागता
सुधर्मस्नुषा पिशिताङ्कां शय्यां भर्तृहीनां विलोक्य क्रोशन्ती बहिरागता।
शिवपूजायां निरता घुष्मा तस्याः
अक्रोशेनापि विचलिता नाभूत्। यथाविधि आराधनं समाप्य लिङ्गं सरोवरे व्यससर्ज। अहो
आश्चर्यम्! सरोवरादुत्थितः तत्पुत्रः तां नमस्कृतवान्।
प्रवृत्तं श्रुत्वा शिवमहिमानं
कीर्तयन्त्याः तस्याः पुरतः कैलासाधिपतिः प्रत्यक्षोऽभवत्। सा प्रसन्नं शङ्करं
तस्मिन् प्रदेशे लिङ्गरूपेण वस्तुं प्रार्थयत। रुद्रः भक्तायाः निवेदनम्
अङ्गीचकार। घुष्मेश्वरः इति साध्व्याः नाम्ना एव प्रसिद्धम् इदं
द्वादशज्योतिर्लिङ्गेषु अन्यतमं परिगण्यते।
No comments:
Post a Comment