सप्तर्षिषु अन्यतमस्य अत्रिमहर्षेः
सुता आसीत् आत्रेयी। मात्रा अनसूयया प्राप्तशिक्षणा सकलविद्यापारङ्गता
कल्याणगुणसम्पूर्णा च अवर्तत। अग्निदेवस्य पुत्रं अङ्गिरं वृत्वा पत्यनुकूला
सहधर्मचारिणी च बभूव।
ज्वलनप्रभवः अङ्गिरः सर्वदा कोपेन
प्रज्वलन् पत्नीं कठोरवचनैः भर्त्सयति स्म। आङ्गीरसादिभिः आत्मजैः कृताः उपदेशा
अपि व्यर्थतां गताः।
अपमानद्ग्धहृदया आत्रेयी श्वशुरं
हुताशनं शरणं गता। हुताशनः परिस्थितिं सम्यगवगत्य पुत्रवधूमवोचत् – अङ्गिरः मम
पुत्रः इति कारणतः एतादृशं परुषस्वभावं वहति। मत्सदृशी पवित्रा त्वं तस्य प्रकृतिं
परिवर्तयितुं समर्था। अहम् अग्नौ स्थित्वा तप आचरितुं तं प्रेरयामि। त्वं नदीरूपेण
तमावारय। तेन तस्य उग्रस्वभावः शान्ततां याति’ इति।
पत्युः अग्निप्रवेशः आत्रेय्याः
हृदि कम्पनमजनयत्। परं पावकेन सा समाश्वासिता। ’पञ्चभूतैः सः न बाध्यते। पुत्रवती
भार्या मातृसमाना यतः आत्मा वै पुत्रनामासि इति श्रुतिवचनानुसारं पुरुषः पुत्ररूपेण
पत्न्याः गर्भगुहां प्रविशति। अतः निस्सङ्ग्कोचतया त्वं तम् आवारय’ इति धैर्यवचनमब्रवीत्।
अङ्गिरः पितृप्रेरणया अनलं
प्रविश्य ध्यानमग्नः जातः। आत्रेयी नदीरूपेण तं आवृत्य दहनादरक्षत्। अग्न्या
संस्कृतस्वभावः नदीजलसेचनेन पवित्रीकृतात्मा अङ्गिरः भार्यया सः शान्ततया व्यवहरन्
संसारयात्रामन्ववर्तयत्।
अङ्गिरस्य परुषतां अपनीतवती नदी ’परुष्णिः’
इति नाम्ना विख्याता। सद्यः रावी इत्याहूत्या प्रसिद्धा।
No comments:
Post a Comment